०४ पृथगुपदेशाधिकरणम्

ॐ पृथगुपदेशात् ॐ

अथ पृथगुपदेशाधिकरणम्

ॐ पृथगुपदेशात् ॐ

शक्वरीष्वारूढं साम गायतीत्यत्र शक्वरीषु शक्वरीछन्दोनिबद्धासु ऋक्षु । तृतीयपादे त्व इति च व्यर्थं स्यादित्यत्र चतुर्णामपि पादानां होत्रुद्गातृ ब्रह्माध्वर्युविषयत्वे पादत्रये विशिष्य होत्रादेरकथनात् । सामान्येन तत्सूचनाय त्वपदसार्थक्येऽपि तृतीयपादे ब्रह्मेति स्पष्टं ब्रह्मणः कथनात्त्व इति व्यर्थमित्यर्थः । कर्माक्षयवचनात्परममुक्तित्वं चेत्यत्र कर्माक्षयवचनात्कर्मणोऽक्षय्यफलत्व कथनादित्यर्थः । न चात्र कोऽपि विरोध इत्यत्र त्रैकालिकनिषेधो ह्यत्यन्ताभावः । स च स्वाधारस्य कालत्रयस्यैव सत्तामाकाङ्क्षेत् । नतु प्रतियोगिभूतशशविषाणादेः । यथेह भूतले घटो नास्तीति निषेधे आधारभूतभूतले प्रागभावप्रध्वंसयोराधारभूतकपालादेर्वा सत्त्वमाकाङ्क्षेत् । नतु प्रतियोगिभूतघटादेः । प्रतियोगित्वज्ञेयत्वादि च न धर्मिसत्तासापेक्षमिति भावः ।

ब्रह्मणो निर्विकल्पकत्वादित्यत्र प्रतियोगिप्रकाशकाभावरूपत्वायोगादिति भावः । मिथ्यात्वमेव पक्षविशेषणमुपन्यस्तमित्येतदप्यविचारित रमणीयम् । मिथ्यात्वस्यात्यन्ताभावप्रतियोगित्वरूपत्वे तत्प्रतियोगिनो भेदस्य शशविषाणवदसत्त्वापत्तिभिया परेण स्वग्रन्थे सदसद्विलक्षणत्वस्यैव मिथ्यात्वरूपत्वाङ्गीकारात् । कथं न विशेषणाप्रसिद्धिः । भेदोऽत्यन्ताभावप्रतियोगि तन्निष्ठमिथ्यात्वं तु सदसद्विलक्षणमित्यङ्गीकारे कल्पनागौरवाच्च । इति मानस्य दूषणमित्यत्र मानस्यानुमेयस्य । इदानीं साध्यस्यैव दूष्यत्वादित्यर्थः । तदान्तरशब्दो विशेषवचन इत्यत्र तदा भेदमिथ्यात्वस्य मिथ्यात्वसाधने यन्मानान्तरं तदोक्तस्य भेदमिथ्यात्वानुमानस्य वक्ष्यमाणमिथ्यात्वसाधकमानान्तरस्यैक साद्यावलम्बित्वान्मानविशेषत्वमेव । यत्तु मिथ्यात्वशब्दार्थसाधकं मानं तत्तु भिन्नविषयत्वादन्यन्मानं मानान्तरमित्यर्थः । तस्य चानुपपत्तिं व्युत्पादयतेत्यत्र तस्य प्रतीतत्वे सति बाधकस्यान्यथाऽनिर्वाच्यत्वाभावेऽनुपपत्तिं व्युत्पादयता परेण बाधसत्त्वाभावयोरसत्त्वप्रतीतत्वयोरर्थापत्ति खण्डयोर्व्याप्तिरवश्यं वाच्यम् । सैव नोपपद्यते । वस्तुगत्याऽनुपपद्यमानार्थस्योपपादकार्थस्य व्याप्त्यनपेक्षणे रात्रिभोचनमिव रासभोऽपि कुतो न कल्प्यत इत्यपि दूषणमूह्यम् । ‘‘नासदासीदि’’ति श्रुत्युदाहरणं च स्वाकौशलोदाहरणमेव । सत्पदेन पारमार्थिकसतोऽभिधाने तस्य प्रलये नास्तित्वाभिधाने ब्रह्मणोऽप्यभावप्रसङ्गादत्यन्तासङ्गतम् । व्यावहारिकसतोऽभिधाने तु तादृशतमसो लयेऽपि सत्त्वाङ्गीकारान्निषेधासम्भवः । पारमार्थिकसद्वैलक्षण्यरूपमिथ्यात्वासिद्धेः । प्रकृतानुपयुक्तं च । अतः परस्यैव कथं नाकौशलम् । भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनुमानेऽपि सत्यचन्द्रभेदस्य दृष्टान्तीकरणे तव साध्यवैकल्यम् । मिथ्याभूतभेददृष्टान्तीकरणे मम साधनवैकल्यम् । आरोपितरजते रजतत्वस्येव मिथ्याभूते भेदत्वस्याप्यभावात् । विस्तृतमेतद्युक्तिमल्लिकायाम् ।

असत इत्युपलक्षणमित्यत्र ‘‘नहि नाशोऽसतो भवेदि’’ति वाक्यं सतोऽपि नाशो न भवेदित्यस्यापि सङ्ग्राहकमित्यर्थः । शास्त्राद्विदितेश्वरस्यैव प्रत्यक्षं ततः स्वात्मनो भेदे प्रमाणमित्युपलक्षणम् । यथा स्वनिष्ठभेदस्स्वेन प्रतीयते नाहं सर्वज्ञः नाहं स्वतन्त्र इत्यादिरूपेण तथा सर्वैरपि जीवैः स्वस्वनिष्ठभेदः प्रत्यक्षेण प्रतीयत एव । इयांस्तु विशेषः । स्वकीयप्रत्यक्षं स्वाध्यक्षेण मीयते । परकीयप्रत्यक्षं त्वनुमीयत इति प्रत्यक्षबाधाभावेऽपीत्यभ्युपगम्योदितम् । स्वतन्त्रत्वादिना स्वस्वरूपग्राहीश्वर प्रत्यक्षबाधस्यास्मिन् पक्षेऽपि सुवचत्वात् । प्रतियोगिभूतजीवस्वरूपग्राहिसाक्षिप्रत्यक्षविरोधस्याप्यपरिहाराच्च ।

असार्वत्रिकत्वाच्चेत्यत्र भेदाभेदवादिमतेऽस्योपपत्तावप्यत्यन्तभेदवादिमतेऽस्य परिहारस्यासम्भवादित्यर्थः । ब्रह्मण्यपि सम्भवादित्यत्र ब्रह्मण्यप्यस्य न्यायस्य सम्भवात् । तत्र चानिर्वाच्यत्वस्य त्वयाऽपि वक्तुमशक्यत्वादित्यर्थः । ज्ञापकश्चायमर्थो न कारक इत्यस्यायमर्थः । धर्मिरूपोऽर्थः ज्ञापकः निषेधाद्वैतस्य ज्ञापक एव न तु कारकः । येन पयसा दध्युत्पत्तिवद्धर्मिज्ञानाभावेऽपि स्यादित्यर्थः । बाधितत्वेन श्रुतेरप्रामाण्ये सतीत्यत्र निर्दोषायाः श्रुतेस्त्वदनुमानादिना बाधादेवाप्रामाण्यं वक्तव्यम् । अन्यथा निर्दोषाया अप्रामाण्यायोगात् । अतस्तव वज्रलेपायितोऽन्योन्याश्रयः । इदं चाभ्युपगम्योक्तम् । वस्तुगत्या निर्दोषतया निरवकाशतया च प्रबलत्वाद्धर्मिश्रुतेस्सम्भावितदोषस्यानुमानस्य सम्भावितार्थान्तरतया दुर्बलायाः श्रुतेश्च बाधकतेति ज्ञेयम् । रजतज्ञानं त्वतिदूरत्वादिदोषदुष्टकरणजन्यतया समीपगमने सति स्पष्टीभवच्छुक्तितत्वज्ञानविरोधेन च स्वत एव दुर्बलमिति न तद्बाधनायान्यापेक्षा । अतो नान्योन्याश्रयः । तर्हि सर्वत्र परीक्षितत्वापरीक्षितत्वाभ्यामेव बाध्यबाधकभावोऽस्तु किमुपजीव्यत्वादिनेति चेन्न धर्मिलिङ्गव्याप्तिग्राहकेषु मानस्वरूपतत्प्रामाण्यग्राहकेषु च साक्ष्यादिषूपजीव्यत्वेनैव बाधकत्वात् । परीक्षिते जगति परीक्षिते परमात्मनि च धारणपोषणादिनोपजीव्यस्य भगवत एव बाधकत्वदर्शनाच्च । किंतु यत्रोपजीवकमेव बाधकं तत्रैवेदं न्यायानुसरणम् । यथा गवा कदाचिद्य्वाघ्रस्यैव बाधने ऋष्यनुग्रहादिकारणानुसरणम् । व्याघ्रेण तु गोर्नाशे न किञ्चित्कारणमनुस्रियते । किंतु सामर्थ्यविशेषादिनोपजीव्यत्वमेव । अतो न कश्चित्क्षुद्रोपद्रवः । किञ्चेन्द्रियसन्निकृष्टं शुक्तिस्वरूपं रजतादिप्रकारानुसरणेऽपि प्रमातुं शक्यम् । श्रुत्येकप्रतिपाद्यमीश्वरस्वरूपं श्रुतिस्सार्वज्ञ्यादिधर्मपुरस्कारे सत्येव बोधयेत् । अन्यथा सर्वनामशब्देन यःकश्चिदित्येव प्रतीतिस्स्यात् । न त्वसाधारण्येनेश्वरप्रतीतिः । अतो वज्रलेपायित उपजीव्यविरोधः परकीयानुमानादेरिति ।

अभेदं नोल्लिखन्ती धीरिति श्लोकस्यायमर्थः । तादात्म्यनिषेधरूपत्वाद्भेदस्याभेदं नोल्लिखन्ती धीर् भेदोल्लेखनक्षमा न । तथा चाऽऽद्ये भेदग्रहणात्प्रथममपेक्षिते तादात्म्यग्रहणे सा प्रमा स्यात् । अन्त्ये भेदग्रहणे स्वापेक्ष्यस्यवैशेषात् । स्वापेक्ष्यस्य तादात्म्यग्रहणेन वैशसाद्धिं सनात् प्रमा नेति योजना । सजातीयविजातीयरूपपरीक्षासद्भावादित्यत्र सजातीयं दुःखान्तरानुभवः । विजातीयं मुखमालिन्यादिकमित्यर्थः । तस्य क्वचिदयथार्थत्वेनाविश्वसनीयत्वापत्त्या न निर्णयस्स्यादित्युपलक्षणम् । विशेषदर्शनस्यापि साक्षिणैव निर्णेयत्वात् । तस्य च क्वचिदयाथार्थ्ये विशेषदर्शनमकिञ्चित्करमित्यपि ज्ञेयम् ।

गौणं समानकर्तृकत्वमित्यत्रोरीकरणे देवदत्तस्य कर्तृत्वाद्य्ववहारप्रवर्तने व्यवहारस्यैव कर्तृत्वादश्वमारुह्य गच्छतीति वन्न मुख्यं समानकर्तृकत्वमित्यतो गौणमित्युक्तम् । तत्र तस्येवेत्यत्रोपसङ्ख्येयमेतदित्यत्र तस्येवेति तत्रेवेति षष्ठ्यर्थकोपमायां सप्तम्यर्थकोपमायां च सादृश्यार्थकवतिप्रत्ययविधायकसूत्रे तमिवेत्यप्यनुसङ्ख्येयमित्यर्थः । अभेद इति तत्प्रतिपादकमुपलक्ष्यत इत्यत्र अभेदवद् अभेदप्रतिपादकवदेताः श्रुतयः प्रवदन्तीति योजना । अत्रापि षष्ठ्यर्थसप्तम्यर्थयोरभावादनुपपत्तिसाम्यमिति चेत्सत्यम् । शब्दो नित्यः कृतकत्वाद्घटवत् । पर्वतोऽग्निमान् धूमवत्वान्महानसवदित्यादौ सांव्यवहारिकत्वादस्योपपादनम् । उपसङ्ख्यानं तूभयत्र सममिति । न जीवजडसाधारणमित्यत्र जीवः संसारिजीवः । जडविषय एवायं दृष्टान्त इत्यत्रायं दृष्टान्तः प्राज्ञवदिति दृष्टान्तः । जीवस्यापि तत्रानुप्रवेशे दृष्टान्तदार्ष्टान्तिकभेदो न स्यात् । अतो जडमेव दृष्टान्तीक्रियत इति भावः । न चैवं साध्यसमत्वदोष इत्यत्र सर्वाद्वैतवादिभिर्भास्करादिभिर् जडेऽपि मुख्यैक्यस्यैवाङ्गीकाराद्दृष्टान्तोऽपि साध्यसमः पक्षसमः विप्रतिपन्न इत्यर्थः ॥ २३१४१७ ॥