०२ असम्भवाधिकरणम्

ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ

अथ असम्भवाधिकरणम्

ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ

सङ्गतिरेषा नाभ्यधिकाशङ्केत्यत्रैषा वियत्पदस्य सजातीयभूतमात्रोपलक्षणत्वं न्याय्यम् । नतु विजातीयगुणाद्युपलक्षणत्वमिति या गुणानां पृथगनुत्पत्तिकथने सम्भावनोक्ता एषा सङ्गतिरेव । न त्वभ्यधिकाशङ्का । अनुभूतियुक्तिश्रुतिभिरनादितया प्रसिद्धानामव्याकृताकाशादीनामुत्पत्तिकथने गुणेषु पुनः शङ्काऽनुदयादिति भावः । रूपादीनामुत्पत्त्यश्रवणादित्यत्र उत्पत्तेर्विशिष्याश्रवणं चेत्तादृशघटपटादिष्वनुत्पत्तिसंशयादर्शनेनानुपपन्नमेव वाक्यं स्यात् । अनन्तपदार्थानां प्रत्येकमुत्पत्तिकथने श्रुतेरपर्यवसानप्रसङ्गाद्वैयर्थ्याच्च । सामान्यतोऽप्यश्रवणं चेत्तत्राह प्रतिज्ञादिभ्य इति । बाधकानुपन्यासादित्यस्य विशिष्यानुत्पत्तिश्रवणरूपबाधकानुनन्यासादित्यर्थः ॥ २३३ ॥