ॐ न वियदश्रुतेः ॐ
तृतीयः पादः
अथ वियदधिकरणम्
**ॐ न वियदश्रुतेः ॐ ॥ **
वियत उत्पत्तिमत्वेऽनुभूतियुक्तिबहुवाग्वैलोम्यमिति प्रथमाधिकरणपूर्वपक्षयुक्तिः । आदिसृष्टवाकाशस्योत्पत्तिमत्त्वाङ्गीकारे प्रागाकाशस्याभावो वाच्यः । स च निबिडद्रव्यसंकुलतायामेव स्यात् । न च तत्प्रलये वक्तुं शक्यमनुभवविरोधादित्यनुभववैलोम्यम् । अत्राकाशस्योत्पत्तिरित्याकाशस्योत्पत्त्यधिकरणतया निबिडद्रव्याधिकरणतया च प्रागाकाशस्य वक्तव्यत्वाच्चाकाशस्योत्पत्तेरनुभववैलोम्यम् । आकाशो नोत्पद्यते विभुत्वादात्मवदिति युक्तिवैलोम्यम् । ‘‘अनादिर्वा अयमाकाशः’’ । ‘‘आकाशवत्सर्वगतश्च नित्यः’’ इति बहुवाग्वैलोम्यं चाकाशस्योत्पत्तौ स्यादित्यर्थः । व्यवस्था । अव्याकृताकाशस्य तदभिमानिलक्ष्म्याश्चानुत्पत्तिमत्वादनुत्पत्तिवचनानां तद्विषयत्वम् । उत्पत्तिवचन‘‘माकाशो नीलिमोदेती’’ति श्रुत्युक्तासितभूताकाशतदभिमानिविनायकदेहोत्पत्तिविषयत्वेनेति व्यवस्था । विनायकजीवस्याव्याकृताकाशस्य तदभिमानिलक्ष्म्याश्च ‘‘स इदं सर्वमसृजते’’ति श्रुत्यर्थरक्षणाय महदादिकार्यसंयोगादिरूपपराधीनविशेषावाप्त्याख्योत्पत्तिमादायोत्पत्तिश्चेति व्यवस्था ‘‘न विदयश्रुतेरि’’ति प्रथमाधिकरणसिद्धान्तसाधिका । भूताकाशतदभिमानिजीवदेहयोस्त्वभूत्वा भावित्वाख्योत्पत्तिरेवेति च व्यवस्था ॥ १ ॥
ॐ एतेन मातरिश्वा व्याख्यातः ॐ
‘‘अथ ह नित्याश्चानित्याश्च तेजोबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यो वायुना सर्वाणि हि भूतानि नेनीयन्ते’’ इति नित्यमनित्यं च प्रतिज्ञाय पूर्वाधिकरणनिर्णीताकाशमप्यनित्यकोटौ निक्षिप्य वायोरेव नित्यत्वकथनाद्वायुनित्यत्ववचनं निरवकाशत्वेनाऽऽकाशानादित्ववाक्यादप्यधिकं पूर्वपक्षयुक्तिः। वायोरनुत्पत्तिर्गौणीति वदता स्वरूपानुत्पत्तिविषयत्वं वक्तव्यम् । तच्च सकलचेतनसाधारणमिति वायोस्सकलचेतनोत्तमत्वं न स्यात् । ‘‘कुविदङ्गे’’ति श्रुत्युक्तं सर्वदेवोपास्यत्वं च न स्यात् । तद्धि सकलचेतनेष्वविद्यमानेन केनचिन्माहात्म्येन स्यान्नान्यथेति पूर्वोक्तयुक्तितोऽपीयं युक्तिर्निरवकाशत्वादधिका । ‘‘यस्य नादिर्न मध्यं नान्तो नोदयो न निम्लोच’’ इति श्रुत्या आदिमध्यावसानरहितस्योत्पत्तिरनुभवविरुद्धा । निरवकाशयुक्तयुपबृंहितत्वादनुभवोऽप्यधिक इति ततोऽधिकमेतत्सर्वमनुभूतियुक्तिबहुवाग्वैलोम्यमिति वायोरितरचेतनेभ्योऽप्याधिक्याय पराधीनविशेषावाप्तिरूपोत्पत्तेरप्यभावे वायोरपि परमेश्वरवत्स्वातन्त्र्यं स्यात् । उभयोश्च स्वातन्त्र्यं द्वयोश्च सर्वोत्तमत्वप्रसङ्गादसम्भावितमित्यनुपपत्तिस्सिद्धान्तस्थापिका । तेजोबन्नाकाशाभिमानिदेवेभ्योऽपि वायोर्नित्ययत्वकथनं प्रलयेऽपि बाह्यज्ञानाविस्मृत्या । देहोत्पत्त्या तूत्पत्तिरेवेति वायावपि व्यवस्थिततया सिद्धान्तात् । अत एवेत्यतिदेशः । ‘‘एतेन मातरिश्वा व्याख्यात’’ इत्यधिकरणे ॥ २ ॥
सतस्साम्यम् । ‘‘असदेव सौम्येदमग्र आसीत् ततो वै सदजायत’’ इति श्रुत्या जन्मश्रवणात्पराधीनविशेषावाप्तिलक्षणोत्पत्त्या सतो ब्रह्मणोऽपि साम्यम् । वाय्वादिसाम्यं पूर्वपक्षयुक्तिः । ब्रह्मणोऽपि पराधीनविशेषावाप्तौ तस्यापि पारतन्त्र्यं स्यात् तच्चायुक्तम् । प्रवर्तकाभावेन जगदान्ध्यं स्यात् । अतस्तस्य स्वातन्त्र्यमावश्यकम् । अत उक्तापि जनिर्ब्रह्मणो न घटते । अत एव न कापि जनिर्भगवति सम्भवतीति सूचनाया‘‘सम्भवस्त्वि’’ति सूत्रे तु शब्दः । तर्हि जननश्रुतेः का गतिरिति चेन् न । दुर्जनाव्यक्तस्वभावत्वादसच्छब्दवाच्यो भगवान् प्रलयेऽप्यासीत् । ततः सन् मुख्यप्राणाख्यं तत्त्वमजायत इति श्रुत्यर्थोपपत्त्या भगवति जन्मश्रुतेरेवाभावादिति ‘‘असम्भवस्तु सतोऽनुपपत्तेरि’’त्यधिकरणे स्वातन्त्र्यं सिद्धान्तयुक्तिः ॥ ३ ॥
द्वारवैयर्थ्यं पूर्वपक्षयुक्तिः । ‘‘तत्तेजोऽसृजते’’ति श्रुतिबलाद्विष्णोरेव तेजस उत्पत्तौ वायोरग्निरित्युक्तवाय्वाख्यद्वारवैयर्थ्यं त्विति पूर्वपक्षः । अनुसारिता । तेजःसृष्टावपि द्वारभूतस्वाधीन वायोरनुसारिता विष्णोरिति सिद्धान्तयुक्तिः । ‘‘तेजोऽतस्तथाह्याहे’’त्यधिकरणे ॥ ४ ॥
दृष्टयुक्तयनुसारित्वं तेजस एवापामुत्पत्त्यङ्गीकारे घर्मात्स्वेदजलोत्पत्तेर्दृष्टत्वाद्दृष्टयुक्तयनुसारित्वमिति पूर्वपक्षयुक्तिः । मुख्यता सिद्धान्तयुक्तिः । विष्णोरन्यस्य स्वातन्त्र्यायोगात् । हरेरेव सकलकारणेभ्यो मुख्यता मुख्यकारणत्वं मुख्यकारणस्य क्वाप्यत्यागाद्धर्मात्स्वेदजलोत्पत्तौ च भगवत एव स्वतन्त्रकारणत्वमङ्गीकार्यमिति सिद्धान्तः । ‘‘आप’’ इत्यधिकरणे ॥
उक्तान्यार्थाविरोधतः ‘‘अद्भ्यो वा अन्नमुत्पद्यत’’ इति यच्छ्र..त्युक्तान्नाख्यार्थस्याविरोधतः पृथिवीश्रुतिविरोधमगणयित्वा प्रसिद्धनामस्वीकारेऽन्ने प्रसिद्धान्ननाम्न एवार्थस्वीकारे बहुवाक्यानुसारिता पूर्वपक्षयुक्तिः । ‘‘तस्माद्यत्र क्वच वर्षति तदेव भूयिष्ठमन्नं भवति । अद्भ्य एवान्नाद्यं जायत’’ इत्यादिनिरवकाशलिङ्गोपेत बहुवाक्यानुसारित्वम् । कअतः निरवकाशश्रुत्योः परस्परविरोधेनाप्रामाण्यमिति पूर्वपक्षः । शक्तिमत्वम् । सिद्धान्तयुक्तिः । ‘‘आपश्च पृथिवी चान्नम्’’ । ‘‘पृथिवी वा अन्नं’’ ‘‘ता आपोऽन्नमसृजन्त’’ ‘‘पृथिवी वा अन्न’’मित्यादि बहुश्रुतिषु पृथिव्यामप्यन्नशब्दप्रयोगात् । पृथिव्यामप्यन्नशब्दस्य शक्तिमत्वम् । उभयत्रापि बहुवाक्यसद्भावेन शक्तिमत्वेऽप्यस्य प्रकरणस्य भूतप्रकरणत्वादद्भ्योऽन्नजन्मकथनेऽन्नमित्यपि पृथिव्येव ग्राह्येति तव बहुवाक्यान्यप्यत्रैव समन्वितानि । अधिकारादीनामिति न्यायविवरणे अधिकारोऽधिकरणम् । प्रलये परमात्मनः प्रथमाद्यत्वेन योगसम्भवात् । ‘‘औषधीभ्योऽन्न’’मिति प्रसिद्धान्ने ओषधिजन्यत्वस्य वक्ष्यमाणत्वाच्चाद्भ्योऽन्नमित्युक्तमन्नं पृथिव्येव । ‘यत्र क्वच वर्षति तदेव भूयिष्ठमन्नं भवती’ति त्वदुक्तलिङ्गं च वृष्टेरङ्कुरोपयोगित्वादेवोच्यते । न तु साक्षादन्नजनकत्वेन । किं चेदं लिङ्गमादिसृष्टिविषयमतो नास्मत्पक्ष विरोधीति सिद्धान्तः । इदं सर्वमधिकारादीनामित्यादिपदेनैव सूचितमाचार्यैः । ‘‘पृथिव्यधिकाररूपशब्दान्तरादिभ्य’’ इत्यधिकरणे ॥ ३ ॥
लोकदृष्टानुसारित्वम् । रुद्रादीनां लयकारित्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेर् लोकदृष्टानुसारित्वमिति पूर्वपक्षयुक्तिः । विष्णोरलौकिकत्वेन यथावाक्यमङ्गीकारोपपत्तेरिति वैरूप्यमेव सिद्धान्तस्थापकम् । ‘‘तदभिध्यानादेव तु तल्लिङ्गात्स’’ इत्यधिकरणे ॥ ७ ॥
लोकदृष्टानुसारित्वं पितुः प्राक् मरणं पुत्रस्य पश्चात् पौत्रस्य ततः पश्चादिति यथोत्पत्तिलयो लोकदृष्टानुसारित्वमिति पूर्वोक्तमेव लोकदृष्टानुसारित्वं पुनः पूर्वपक्षप्रापकम् । ‘‘द्विविधः क्रम उद्दिष्टो व्युत्क्रमोऽनुक्रमस्तथा । सृष्टावन्यो लये चान्य’’ इति श्रुतेः क्रमाणामेव वैरूप्यम् । बहुरूपत्वमित्यावृत्त्या योजना । अतः क्रमश्रुतिः सावकाशा । लोकदृष्टिवैरूप्यं तु श्रुत्युक्तसंहारस्यालौकिकत्वाख्यवैरूप्यादेव । लोकेऽपि घटनाशमारभ्य परमाणुपर्यन्तनाशाङ्गीकारात्सावकाशं चेति तदेव । सिद्धान्तस्थापकम् । ‘‘विपर्ययेण तु क्रमोऽत उपपद्यते चे’’त्यधिकरणे ॥ ८ ॥
क्वचित्पितरि सत्येव पुत्रस्य नाशदर्शनाद्विज्ञानमनसी अन्तरा विनैव व्युत्क्रमः । तयोऽस्तु क्रमेणैव लय इत्यङ्गीकारे लोकदृष्टानुसारित्वमित्यावृत्त्या तदेव पुनः पूर्वपक्षलिङ्गम् । सर्वसङ्ग्रहः । ‘‘सर्वं वा एतत्क्रमादुत्पद्यते व्युत्क्रमाद्विलीयत’’ इति श्रुतौ सर्वस्यापि व्युत्क्रमलये सङ्ग्रहः सिद्धान्तनिर्णायकः । मनस्युपरते पश्चाज् ज्ञानमिति लिङ्गं त्वाधुनिकज्ञानमादायैव । न तु मनस्तत्त्वविज्ञानतत्वव्यपेक्षया । तत्र तु विज्ञानतत्त्वस्यादौ नाशः पश्चान्मनस्तत्वस्येति तयोरपि व्युत्क्रमादेव नाश इति सिद्धान्तः । ‘‘अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्न विशेषा’’दित्यधिकरणे ॥ ९ ॥
जीवसाम्यं चेतनत्व साम्याद्विष्णोरपीह लय इति जीवसाम्यमिति पूर्वपक्षयुक्तिः । ‘‘सर्वे वा एते चिदात्मानो ब्रह्मलयमनुप्राप्य विष्णोरुदरे संविशन्ती’’ति प्रलयेऽपि विष्णुदेहे सर्वसंग्रहस्योक्तेर् न विष्णुदेहस्य लय इति पूर्वोक्तावृत्त्यैव सर्वसङ्ग्रह एव सिद्धान्तस्थापकः । ‘‘नात्माश्रुतेर्नित्यत्वाच्च ताभ्य’’ इत्यधिकरणे ॥ १० ॥
अनादिता । ईश्वरवत् प्रागभावशून्यता । तेनोत्पत्तिर्घटादिवत्प्रागसतः सत्तारूपोत्पत्तिर्न । देहोत्पत्तेः प्रत्यक्षसिद्धत्वात्कथं जीवानुत्पत्तिरिति चेत् तर्हि देहस्यैवोत्पत्तिः स्याज् जीवस्य तु किमागतम् । अतः पराधीनविशेषस्याप्यप्राप्तिरेव । ईश्वरवत् स्वरूपेण निरपेक्षाणां तदयोगात् । अतः प्रागुक्तानादयोऽपि पक्षसमा एव । जीवस्य स्वरूपोत्पत्त्यभावं युक्तितः प्रसाध्य तद्बलादेव सर्वामप्युत्पत्तिं क्षिपामीत्याशया पुनरारम्भश्चेत्यनादिता पूर्वपक्षयुक्तिः । सर्वसङ्ग्रहः ‘‘स इदं सर्वमसृजते’’त्यत्रोक्त सर्वपदेन जीवानामपि सङ्ग्रहादस्त्येव जीवोत्पत्तिः । परोदीरिता च स्वरूपेणानादिता । स्वरूपेणानादीनामपि जीवानां मध्येमध्ये उत्पन्नदेहेष्वीश्वरप्रेरणयाऽभिमानाख्यविशेषावाप्त्या पराधीनविशेषावाप्तेर्विद्यमानत्वात् । अत एवान्ततस्त्वया परिकल्पितपराधीनविशेषाप्तिश्च नेति सर्वसङ्ग्रहपदस्यावृत्त्या स एव सिद्धान्तस्थापकः । ‘‘ज्ञोऽत एवे’’त्यधिकरणे ॥ ११ ॥
तत्र तत्र परिज्ञानम् । सर्वदेहे तत्र तत्र स्पर्शज्ञानाद्रसनायां रसस्य चक्षुषि रूपस्य घ्राणे गन्धस्य पादे वेदनायाः शिरसि सुखस्य चेति तत्र तत्र स्थितस्य परिज्ञानम् । तेनानणुत्वं जीवस्येति । तत्र तत्र परिज्ञानं पूर्वपक्षयुक्तिर् गत्यादिस्सिद्धान्तयुक्तिः । उत्क्रान्तिः प्रभादिभिर्व्याप्तिश्च गत्यादिस्तेन स्वरूपतोऽणुत्वं प्रभादिना तत्र तत्र परिज्ञानं चेति सिद्धान्तः । ‘‘उत्क्रान्तिगत्यागतीना’’ मित्यधिकरणे ॥ १२ ॥
गुणसाम्यं जीवस्य बहुरूपत्वशक्तावीशेन गुणसाम्यम् । ईश्वरशक्तयैव बहुरूपत्वादेः कारणान् न गुणसाम्यम् । ईश्वरस्तु स्वशक्तयैव बहुरूपः । जीवस्तु तच्छक्तयैवेति नेश्वरेण गुणसाम्यमितीशशक्तिरेव सिद्धान्तस्थापिका । ‘‘व्यतिरेको गन्धवत्तथा च दर्शयती’’त्यधिकरणे ॥ १३ ॥
श्रुतिर् ऐक्यश्रुतिः पूर्वपक्षप्रापिका । तया जीवेश्वरैक्यमिति पूर्वः पक्षः । सर्वमानविरोधिता सिद्धान्तसाधिका । ‘‘पृथगुपदेशा’’दित्यधिकरणे ॥ १४ ॥
उत्पत्तिमत्त्वम् । उत्पत्तिमत्त्वाद्विनाशित्वं जीवस्येत्युत्पत्तिमत्त्वं पूर्वपक्षयुक्तिः । अभीष्टासिद्धिर्जीवस्यानित्यत्वेऽभीष्टमोक्षाद्यसिद्धेः । नहि पराधीनविशेषावाप्तिमात्रेण विनाशित्वम् । तादृशानामेवाकाशादीनां नित्यत्वप्रतिपादकश्रुतिविरोधादित्यभीष्टासिद्धिरेव सिद्धान्तस्थापिका । ‘‘यावदात्मभावित्वाच्च न दोषस्तद्दर्शनादि’’त्यधिकरणे ॥ १५ ॥
स्वगुणाननुभूतिः पूर्वपक्षप्रापिका । स्वगुणानामानन्दादिगुणानां प्रागपि सत्त्वेऽननुभूतिर्न घटत इत्युपपत्तेर्युक्तेर्बलात्पूर्वज्ञानादीनां सामस्त्येनाभाव इति पूर्वपक्षः । सुव्यक्तिः प्रागव्यक्तानामेवानन्दादीनां पश्चाज्ज्ञानेन प्रतिबन्धापगमे सुव्यक्तिः । अन्धकारस्य घटादेर् दीपानयन इवेति सुव्यक्तिरेव सिद्धान्तयुक्तिः । ‘‘पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगादि’’त्यधिकरणे ॥ १६ ॥
अल्पकल्पनम् । ईश्वरस्यैव कर्तृत्वे जीवस्य त्वकर्तृत्वेऽल्पकल्पनं कल्पनालाघवमिति पूर्वपक्षयुक्तिः । जीवस्य कर्तृत्वे शास्त्रस्य वैयर्थ्यात्तस्यापि कर्तृत्वे शास्त्रार्थसिद्धेश्चेति शास्त्रसिद्धिरेव सिद्धान्तस्थापिका । ‘‘कर्ता शास्त्रार्थवत्वादि’’त्यधिकरणे ॥ १७ ॥
नानाश्रुतिः ‘‘अंशा एव हीमे जीवाः परस्ये’’त्येका श्रुतिः । ‘‘नैवांशो न सम्बन्धः नापेक्ष्य’’ इत्यपरा । ‘‘ब्रह्मदाशा ब्रह्मकितवा’’ इत्यन्या । तथाच श्रुतीनांपरस्परविरोधादप्रामाण्यमिति नानाश्रुतिरत्र पूर्वपक्षप्रापिका । ईश्वराधीनत्वे सति किञ्चित्सादृश्यादशाः । मत्स्यादिवत्स्वरूपांशा न ब्रह्मणः । कितवादित्वं च तदधीनत्वादेवेत्युपजीव्यतया प्रबलप्रत्यक्ष दृष्टभेदानुसारेण तासामर्थोपपत्तेः । अप्रामाण्यमिति तु तवैव विपर्यय इति विपर्यय एव सिद्धान्तस्थापकः । ‘‘अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके’’ इत्यधिकरणे ॥ १८ ॥
प्रतिबिम्बानां वैचित्र्यं पूर्वपक्षयुक्तिः । प्रतिबिम्बाभिमतानां ब्रह्मादीनामानन्दादिषु वैचित्र्यमनाभासत्वे कारणमिति पूर्वपक्षः । जीवानां सामान्यत आभासत्वेऽपि विशेषादृष्टादिवशात्सूर्यकान्तजलादिस्थितसूर्यप्रतिबिम्बवैचित्र्यवद्वैचित्र्योपपत्तेरिति सिद्धान्त इति विशेषकारणं सिद्धान्तस्थापकम् । ‘‘अदृष्टानियमादि’’त्यधिकरणे ॥ १९ ॥
भूतादिशरीरेष्वित्यत्र पिशाचादिशरीरेष्वित्यर्थः । विनाशकारणाभावादित्यत्राग्निमुद्गरादिभिरविनाश्यत्वात्ततोऽन्यविनाशकारणाभावादित्यर्थः ॥ २३१,२ ॥