अक्षयो भगवान्विष्णुर्लक्ष्म्यावासो लये स्थितः
एतत्पादार्थसङ्ग्रहः
अक्षयो भगवान्विष्णुर्लक्ष्म्यावासो लये स्थितः
सुधा
अधिदैवादिस्वरूपनिर्णयाय पादोऽयमारब्ध इत्युक्तम् । तत्र कीदृशोऽत्र निर्णयो जात इत्यतस्तं बुध्द्यारोहाय पिण्डीकृत्याह अक्षय इति ।
अनुव्याख्यानम्
अक्षयो भगवान्विष्णुर्लक्ष्म्यावासो लये स्थितः ॥
देहादिक्षयरहित एव प्रलये स्थितः । अनेन ‘असम्भवस्तु सतोऽनुपपत्तेः’, ‘नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः’ इत्यधिकरणतात्पर्यमुक्तं भवति । लक्ष्म्यावास इति । देव्या अपि प्रलयेऽवस्थानोक्त्या वियत्प(देनोप)दोपलक्षितायास्तस्या न जीववज्जननमिति । वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाद्युत्पत्तिर्न मुक्ताविति सूचितम् । तत्सूचयति मुक्तैरिति ।
अनुव्याख्यानम्
मुक्तैस्सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥
तथाऽपि सृष्टिप्रलयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्तं तारतम्यगैरिति । विपर्ययेण तु क्रमोऽत इति सृष्टिक्रमविपर्ययेण प्रलये क्रमोऽभिहितः । तत्र कः सृष्टौ क्रम इत्यतस्तं दर्शयन्वियदधिकरणतात्पर्यमाह प्रकृतिरिति ।
अनुव्याख्यानम्
प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्टयम् ॥
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ॥
उत्पत्तिमदिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ॥
ततो जातः पुमान्नाम ब्रह्माऽस्यां वासुदेवतः ॥
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ॥
ततो रूपं महन्नाम ब्रह्मणोऽहंकृतिः शिवः ॥
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोभिधः ॥
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥
तदभिमानिनी लक्ष्मीश्चैवमित्यर्थः । ततस् तदनन्तरम् । प्राणनामा सङ्कर्षणात् । देव्यौ सरस्वतीभारत्यौ । प्रकृतिमानिनी प्रकृतिमानिन्यौ । सुपां सुलुगिति पूर्वसवर्णेति पूर्वसवर्णः । ततः प्रकृतिपुरुषाभ्याम् । ब्रह्मणो महत्तत्त्वरूपात् । ततो ऽहङ्कारात् । तत एव इन्द्रस्कन्दाभ्याम् । अन्ये तत्त्वाभिमानिनः । अत्रोपलक्षितानामप्यधिकाशङ्कानिरासाय ‘तथा प्राणः’ इत्यादिना निर्णयः करिष्यत इत्यदोषः । सृष्टिप्रलययोः क्रमविपर्ययसमर्थनस्य तात्पर्यमाह तत्रेति ।
अनुव्याख्यानम्
तत्र पूर्वतनः श्रेयान्गुणैस्सर्वैस्समस्तशः ॥
समस्तशः समस्तेषु । ‘तेजोऽतः’, ‘तदभिध्यानादि’त्यादेस्तात्पर्यमाह तेभ्यश्चेति ।
अनुव्याख्यानम्
तेभ्यश्च भगवान्विष्णुः …….
श्रेयानिति वर्तते । समस्तश इति पञ्चम्यन्तमत्र वा सम्बध्यते । सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम् । ‘परात्तु तच्छतेरि’त्यादिना प्रवृत्तिश्च । तत्तात्पर्यमाह तदधीना इति ।
अनुव्याख्यानम्
……….. तदधीना इमे सदा ॥
जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ॥
मोक्षश्च …… ……..
इमे जन्माद्या मोक्षान्ता भावाः । एतेषामिति वक्ष्यमाणमत्रापि सम्बध्यते । द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावश्छान्दसः । युवोरनाकाविति यथा । मुक्तौ जन्माभावेऽपि स्थित्यादौ भगवदधीनत्वमस्त्येवेत्याह तदधीनत्वमिति ।
अनुव्याख्यानम्
….. तदधीनत्वमेतेषां नैव हीयते ॥
मुक्तावपि …… ……..
एतेषां ब्रह्मादीनाम् । परमप्रमेयमाह स एवेति ।
अनुव्याख्यानम्
…… स एवैकः स्वतन्त्रः पूर्णसद्गुणः ॥
उपसंहरति इतीति ॥ २३१८ ॥
इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन्प्रभुणोदितम् ॥ २३१८ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने
द्वितीयाध्यायस्य तृतीयः पादः ॥ २३ ॥
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिन्गगनचरणः पर्यवसितः
॥ २३ ॥
इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य तृतीयः पादः समाप्तः ॥
वाक्यार्थचन्द्रिका
उक्तमिति । एतत्पादारम्भसमर्थनावसर इति शेषः । स्वरूपेणाक्षयत्वस्य सर्वचेतनसाधारणत्वाद्देहादीत्युक्तम् ॥ अनेनेति । यद्यप्यत्र ‘नात्मा श्रुतेरि’स्येतदेवोदाहरणीयं तत्रैव देहाक्षयत्वसमर्थनात् तथाऽप्यसम्भवसूत्रस्य स्वातन्त्र्येण हेतुना परमात्मनो देहानुत्पत्तिकथनद्वारा तल्लयाभावोपपादकत्वमप्यस्तीत्यभिप्रेत्य तदप्युदाहृतमिति द्रष्टव्यम् । यद्वा लये स्थित इत्यसम्भवसूत्रसाध्यं देहादिक्षयरहित इति नात्मा श्रुतेरितिसूत्रसाध्यमित्यनेन प्रकारेण देहादिक्षयरहितस्यैव लयेऽवस्थितत्वरूपविशिष्टमधिकरणद्वयसाध्यमित्यभिप्रायेण सूत्रद्वयोपादानमित्यवधेयम् ॥ जीववज्जननमिति । सूचितमिति शेषः ॥ वियदादिपदोपादानेनेति । सौत्रवियदादिपदैर्यद्ब्रह्मादीनामुपादानं तेनेत्यर्थः ॥ सृष्टिलयक्रमसमर्थनेनेति । ‘विपर्ययेण तु क्रमोऽत उपपद्यते च’ । ‘अन्तरा विज्ञानमनसी क्रमेणे’त्यादिना सृष्टिलययेर्यः क्रमोऽनुरूपप्रतिरूपलक्षणस्तस्य समर्थनेनेत्यर्थः ॥ लक्ष्मीश्चैवमिति । विशेषावाप्तिमात्रेणोत्पत्तिमती प्रोक्तेत्येवमित्यर्थः । मूले वासुदेवत इत्युक्तत्वात्तत इत्यस्याऽऽनर्थक्यमाशङ्क्याह ततस्तदनन्तरमिति । सूत्रात्मा प्राणनामा चास्यां वासुदेवत एव जात इत्यन्यथाप्रतीतिनिरासायाह सङ्कर्षणादिति ॥ पूर्वसवर्ण इति । प्रथमाद्विवचनस्यौकारस्य पूर्वेण प्रकृतिमानिनी इति ईकारेण सवर्णे ईकारे जाते’ऽकः सवर्णे दीर्घ’ इति सवर्णदीर्घतायां सत्यां प्रकृतिमानिनी इति प्रथमाद्विवचननिष्पत्तिरिति भावः । नन्वेवं सर्वेषां तत्त्वाभिमानिनामत्रैवोत्पत्तिनिर्णयादिन्द्रियरूपतत्त्वाभिमान्युत्पत्तिनिर्णयस्याप्यत्रैव सिद्धत्वात्तत्प्रतिपादकानां ‘तथा प्राणा’ इत्याद्यधिकरणानामानर्थक्यं स्यादित्यत आह अत्रेति । अभ्यधिकाशङ्कानिरासायेति । आगमगृहीतव्याप्त्यादिमत्त्वेनासिध्द्यादिशङ्काविषयत्वशून्यतया प्रबलयुक्त्यनुगृहीतत्वेन स्पष्टार्थत्वादिना निरवकाशतया च प्रबलत्वादनादित्वश्रुत्यवष्टम्भेनानादित्वमेव प्राणानामित्यधिकाशङ्कानिरासायेत्यर्थः । क्रमविपर्ययसमर्थनस्येत्यस्यानुरूपक्रमतद्विपर्ययसमर्थनस्येत्यर्थः । समस्तश इत्यस्य पञ्चम्यन्तत्वे सप्तम्यन्तेन तत्रेत्यनेन सामानाधिकरण्येनान्वयायोगात्सप्तम्यन्ततया व्याख्याति समस्तेष्विति । वाहुल्यार्थाच्छस्कारकादन्यतरस्यामित्यर्थग्रहणात्पर्यायेभ्यो विशेषेभ्यश्च भवतीत्यर्थाशश्रयणाद् भूरिश इत्यादाविव बहुशब्दपर्यायसमस्तशब्दात्सप्तमीकारकाच्छस्प्रत्ययः । ततश्च तेषु समस्तेष्विति योजना सूचिता भवति ॥ नेजोऽतस्तदभिध्यानादीति । आद्ये स्वातन्त्र्येण तेजआदिस्त्रष्टृत्वस्य द्वितीये च स्वातन्त्र्येण तत्संहर्तृत्वस्य च समर्थनेन सर्वेभ्यो देवेभ्य उत्तमतायाः समर्थितत्वादिति भावः ॥ सम्बध्यत इति । अन्यथा सर्वोत्तमत्वालाभादिति भावः । सप्तम्यन्ततया व्याख्यातस्य तस्य पञ्चम्यन्तेन तेभ्य इत्यनेन सामानाधिकरण्येनान्वयः कथमित्यत उक्तं पञ्चम्यन्तमिति ॥ उक्तमिति । ‘तेजोऽतः’ ‘तदभिध्यानादि’त्यादिनेति शेषः ॥ प्रवृत्तिश्चेति । परमेश्वरायत्तेत्युक्तमिति सम्बन्धः ॥ इमे जन्माद्या इति अनेन मोक्षश्चेत्यनन्तरमितिशब्दोऽध्याहार्यः । ततश्चेतीम इत्यन्वय इति मूलयोजना सूचिता भवति ।
ननु जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिरिति नेतरेतरयोगद्वन्द्वः । तथा सति बहुवचनप्रसक्त्यैकवचनानुपपत्तेः । नापि समाहारद्वन्द्वः । तथा सति स नपुंसकमिति तस्य नपुंसकलिङ्गप्रसक्त्या संसृतिरिति स्त्रीलिङ्गानुपपत्तिप्रसङ्गादित्यत आह द्वन्द्वैकवद्भावेऽपीति । अत्रैवानुरूपं दृष्टान्तमाह युवोरनाकाविति यथेति । युवोरित्यत्र यथा द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावश्छान्दसस्तथात्रापीत्यर्थः। अयमर्थः । युवोरिति नेतरेतरद्वन्द्व आश्रयितुं शक्यस्तथा सति द्विवचने यणादेशे च सति द्वयोर्वकारयोः प्रश्लिष्टतयोच्चारणप्रसङ्गात् । न च ‘लोपो व्योर्वली’ति पूर्ववकारलोपान्न तत्प्रसङ्ग इति वाच्यम् । अचः परस्मिन्पूर्वविधाविति यणः स्थानिवद्भावेन वलोपाप्राप्त्या वकारद्वयोच्चारणप्रसङ्गस्यावर्जनीयत्वात् । समाहारद्वन्द्वश्चेत्स नपुंसकमिति नपुंसकत्वे सति गुणवृद्धितृज्वद्भावेभ्यो नुम् पूर्वविप्रतिषेधेनेति वचनाद् घेर्ङितीति गुणं बाधित्वा नुमि सति युवन इति निर्देशप्रसङ्गात् । ततश्च युवोरिति पुल्लिङ्गैकवचनानुपपत्तिरिति शङ्का द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावस्य छान्दसत्वेन यथा परैः समाधीयते तथेति ॥ परमप्रमेयमिति । अधिदैवादिविषयवाक्यानां परस्परविरोधपरिहारस्य न प्रामाण्यनिश्चयार्थत्वम् । तथा सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्वव्याघातापातात् । किन्त्वधिदैवादिवस्तुस्वरूपावधारणद्वारा ब्रह्मणो जगत्कारणत्वनिश्चयार्थत्वमेवेति तदेव मुख्यं प्रमेयं न तु प्रामाण्यमिति भावेन प्रमेयं परमतया विशेषितमित्यमतिमङ्गलम् ॥ २३१८ ॥
यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ॥
अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥
इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशपूज्यपादानां निजशिष्यस्य केशवस्य कृतौ श्रीमद्गुरुराजोपदिष्टमार्गानुवर्तिन्यां श्रीमन्न्यायसुधाविषमपदवाक्यार्थविवृतौ वाक्यार्थचन्द्रिकायां द्वितीयाध्यायस्य तृतीयः पादः ॥
परिमल
इत्यधिकरणेति । तदधिकरणद्वयशरीरं न्यायमुक्तावल्यां व्यक्तम् । वियत्पदेनेति । न वियदिति सौत्रवियत्पदेनेत्यर्थः ॥ वियदादिपदोपादानेनेति । सूत्रे वियन्मातरिश्वतेजोप्पृथिवीपदानामुपादानेनेत्यर्थः ॥ सृष्टिप्रलयक्रमेति ॥ वियदादिपृथिव्यन्तपदानां क्रमेण सूत्रे कथनेन सृष्टिक्रमोप्येवमेवेतिसूचनात्सृष्टिक्रमेत्युक्तम् । ‘विपर्ययेण तु क्रमोत उपपद्यते चे’त्यत्र लयक्रमो व्यक्तमुक्त एव ॥ तत्रापिति । मुक्तावपीत्यर्थः ॥ एवमिति । पराधीनविशेषावाप्तिरूपोत्पत्तिमतीत्यर्थः । प्राणनामा कदा कस्माज्जात इत्यतस् तत इति पदमनुवृत्त्य द्वेधार्थमाह ततस्तदनन्तरमिति । सङ्कर्षणादितिच ॥ सुपां सुलुगिति । सुपांसुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल इति सप्तमाद्यपादे सूत्रम् । तस्यार्थः । क्त्वा छन्दसीति वर्तते । छन्दोविषये सुपां सप्तविभक्तीनां स्थाने सु इति प्रथमैकवचनं भवति । लुग्भवति । पूर्वसवर्णः क्वचिदाकारादेशः क्वचिदादित्यादेशः क्वचित्तु शे इति । क्वचिद्या इति । क्वचिड्डाड्या इति । क्वचित्तु याच् इति । क्वचिदालु इत्येते आदेशा भवन्तीति । तथा चात्र द्विवचनस्य पूर्वसवर्णः । ईकारे सति । ‘अकः सर्वर्णे दीर्घ’ इति ईकारद्वयस्याप्येक ईकार इति भावः । अत्रैव सूत्रे पदानामुपलक्षणत्वमुपेत्य सर्वेषामित्युक्ते उत्तरपादवैयर्थ्यमित्यत आह अत्रोपलक्षितानीति ।
तेजोऽत इति । ‘तेजोतस्तथा ह्याहे’त्यत्र प्रभृतेः सर्वस्योत्पत्तिरीश्वरायत्तेति । ‘तदभिध्यानादेव तु तल्लिङ्गात्स’ इत्यत्र सर्वस्य लयो भगवदधीन इत्युक्त्या सर्वेभ्यः श्रेयस्त्वलाभादिति भावः । पञ्चम्यन्तमिति । पञ्चम्यर्थशस्प्रत्ययान्त इति भावः ॥ इत्युक्तमिति । ‘तेजोतः’ ‘तदभिध्यानादि’त्युदाहृताधिकरणद्वये उक्तमित्यर्थः । प्रवृत्तिश्चेति । परमेश्वरायत्तेत्यनुकर्षः । इमे इत्यस्य विशेष्याकाङ्क्षायां भावा इति पदमध्याहार्यम् । मोक्षश्चेत्यनन्तरमिति शब्दश्चाध्याहार्य इति भावेनार्थमाह इतीमे जन्माद्या इति ॥ एतेषामितीति । ब्रह्मादीनामित्यर्थः । नन्वत्र संसृतय इति बहुवचनेन भाव्यम् । कथं संसृतिरित्येकवचनम् । यदि च सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावादेकवचनं तर्हि स नपुंसकमिति नपुंसकत्वे ‘इकोयण् अचि’ विभक्ताविति नुमागमे युवन इति भाव्यमिति शङ्कित्वोक्तं वृत्तावनित्यमागमशासनमिति कृत्वा न भवति नपुंसकलिङ्कता न भवतीति । तथाच यत्र यथा तत्र तथेत्यर्थः । एषामित्यनुवादः ब्रह्मादीनामिति व्याख्या परमप्रमेयमिति । परस्परश्रुतिविरोधपरिहारेण लब्धं प्रधानप्रमेयमित्यर्थः ॥ २३१८ ॥
इति श्रीमन्नयायसुधाटिप्पण्यां श्रीमद्राघवेन्द्रयतिविरचिताया परिमाभिधेयायां
द्वितीयाध्यायस्य तृतीयः पादः ॥
यादुपत्यं
सुपां सुलुगिति । ‘सुपां सुलुक्पूर्वसवणर्शच्छेयाडाड्यायाजालः’ । सुश्च लुक्च पूर्वसवर्णश्चाचातू च शे च या च डाड्या च याच्चाल्च ते तथेतीतरेतरयोगे द्वन्द्वः । सुपां स्थाने एते आदेशाः स्युरिति सूत्रार्थः । उदाहरणं तु ऋजवः सन्तु पन्था इत्यादि द्रष्टव्यम् । प्रकृते तु औ इति द्विचनरूपस्य सुपः स्थाने पूर्वसवर्णर्दीर्घेऽकारादेशेऽकः सवर्ण इति सवर्णदीर्घे एकादेशे च सति मानिनीति द्विवचने रूपमिति द्रष्टव्यम् । नन्वेवं सति सर्वेषां तत्त्वाभिमानिनामत्रैवोत्पत्तिनिर्णये इन्द्रियरूपतत्त्वाभिमान्युत्पत्तिनिर्णयस्याप्यत्रैव जातत्वात्तत्प्रतिपादकस्योत्तरपादस्य वैयर्थ्यापात इत्यत आह अत्रोपलक्षितानामिति ॥ तेजोऽतस्तदभिध्यानादित्यादेरिति । अत्र हि विष्णोः स्वातन्त्र्येण तेजःप्रभृतिसृष्टिकारणत्वस्य तत्संहर्तृत्वस्य च समर्थनेन तस्य सर्वदेवश्रेष्टत्वस्यापि सिद्धेरिति भावः ॥ पञ्चम्यन्तमिति । सप्तम्यन्तं सत् पूर्वत्र न सम्बध्यत इत्याशयः । समस्तेभ्य इत्यन्वयो द्रष्टव्यः ॥ इमे जन्माद्या इति । अनेन मोक्षश्चेत्यनन्तरमितिशब्दोऽध्याहार्यः । ततश्चेतीम इत्यन्वय इति मूलयोजना सूचितेति ज्ञातव्यम् ॥ द्वन्द्वैकवद्भावेति । इतरेतरयोगाश्रयणे तु बहुवचनाभावादेव न युक्त इति भावः ॥ नपुंसकत्वाभावश्छान्दस इति । अन्यथा स नपुंसकमित्यनेन नपुंसकत्वेन भाव्यमिति भावः ॥ युवोरनाकाविति यथेति । अत्र युश्च वुश्चेति द्वन्द्वो यदीतरेतरयोगो विवक्षितस्तदा व्योरिति द्विवचनस्य निर्देशः स्यात् । न च लोपो व्योर्वलीत्यनेन पूर्ववकारलोपे युवोरिति द्विवचनस्यैव रूपमिति वाच्यम् । उकारस्थाने जातस्य वकारस्याचः परस्मिप्नूर्वविधावित्यनेन स्थानिवत्त्वादुक्तलोपाप्राप्त्या षष्ठीद्विवचने वकारद्वयनिर्देशस्यावश्यकत्वात् । यदि चायमेकवद्भावे द्वन्द्वस्तदा न स नपुंसकमिति नपुंसकत्वप्राप्त्या युबुन इति निर्देशः स्यात् । सर्वथा युवोरिति पुल्लिङ्गैकवचनानुपपत्तिरित्याशङ्क्यैकवद्भावेऽपि नपुंसकलिङ्गता न भवति । अस्य निर्देशस्य छान्दसत्वात् । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति वचनादिति यथा वैयाकरणैः समाहितं तथाऽस्यापि निर्देशस्य छान्दसत्वादेकवद्भावेऽपि नपुंसकत्वाभाव इत्यर्थः ॥ परमप्रमेयमिति । अधिदेवादिविषयकश्रुतीनां परस्परविरोधे परिहृते सति यत्सिद्धं प्रमेयं तदाहेत्यर्थः ॥ २३१८ ॥
इति श्रीमद्वेदेशतीर्थपूज्यपादशिष्येण यदुपतिना विरचितायां सुधाटिप्पण्यां
द्वितीयाध्यायस्य तृतीयः पादः ॥
श्रीनिवासतीर्थीया
तदनन्तरमिति । लयानन्तरमित्यर्थः । सृष्टिकाल इति यावत् ॥ सङ्कर्षणादिति । ‘सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद्बलसंविदात्मा । सूत्रं च वायुरि’ति वचनादित्यर्थः ॥ सरस्वतीभारत्याविति । प्रद्युम्नत इति शेषः । ‘प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे प्रजज्ञतुर्यमले तत्र पूर्वा । प्रधानसंज्ञा प्रकृतिर्जनित्रे श्रद्धा द्वितीये’ति ॥ प्रकृतिमानिन्याविति । तदवान्तरमानिन्यावित्यर्थः ॥ प्रकृतिपुरुषाभ्यामिति । अनिरुद्धशान्तिभ्यामित्यर्थः । महत्तत्त्वाभिमानिपुन्नामकब्रह्मणो वासुदेवान्मायादेव्यां सूक्ष्मरूपेणोत्पन्नत्वात्पुनर्महत्तत्त्वाभिमानिब्रह्मण उत्पत्तिकथनं स्थूलरूपेणेति ज्ञातव्यम् । यथोक्तम् । ‘देवांश्चतुर्वर्णगतान्सस्तान् सङ्गृह्य बीजात्मतयाऽनिरुद्धः । न्यधत्त शान्त्यां त्रिगुणात्मिकायां ततो महतत्त्वतनुर्विरिञ्चः । स्थूलात्मनैवाजनी’ति ॥ पञ्चम्यन्तमिति ॥ तथा च पञ्चयम्यन्तं सन् न पूर्वत्र सम्बध्यत इति ज्ञातव्यम् । ननु ज्ञानसंसृतिरिति कथम् । न चैकवद्भावेनोपपत्तिः । अथापि स नपुंसकमिति नपुंसकत्वप्राप्त्या ज्ञानसंसृतीति स्यादत आह द्वन्द्वेति । ततश्च छन्दस्त्वाहून्द्वैकवद्भावेऽपि पुल्लिङ्ग एव जातः । अतो ज्ञानसंसृतिरिति युक्तम् । द्वन्द्वैकवद्भावेऽपि छान्दसो नपुंसकत्वाभाव इत्यत्र प्रयोगं दर्शयति युवोरिति । अत्र हि विष्णुशब्दवद्युवुशब्दः । यथा षष्ठीद्विवचने विष्णु ओस् इति स्थिते उकारस्य वकारे विष्ण्वोरिति षष्ठीद्विवचनं भवति । तथा युवु ओस् इति स्थिते उकारस्य वकारे युव्योरिति षष्ठीद्विवचनं भवतीति स्थितिः । एवं च सूत्रे युवोरित्यनुपपन्नम् । युश्च वुश्च युव तयोर्यव्योरिति षष्ठीद्विवचनमपेक्षितं विष्ण्वोरितिवत् । युवोरिति षष्ठ्येकवचनं कथम् । न च द्वन्द्वैकवद्भावोऽत एकवचनं युक्तमिति वाच्यम् । एकवद्भावेऽपि नपुंसकत्वप्राप्त्या युश्च वुश्च युवु इति प्रथमैकवचनं स्यान्मधु इतिवत् । तथा युबुन इति षष्ठ्येकवचनं स्यान्मधुन इतिवत् । ततश्च सूत्रे युवोरित्यनुपपन्नमिति शङ्कायां तत्र यथा द्वन्द्वैकवद्भावेऽपि नपुंसकत्वं छन्दःकल्पत्वादनाश्रित्य प्रत्युत युवुशब्दस्योकारान्तपुल्लिङ्गतामेवाश्रित्य युश्च वुश्च युवुस्तस्य युवोरिति षष्ठ्येकवचनं प्रत्युक्तमिति सामधीयते काशिकाकारादिभिस्तथाऽत्रापि समाधानं द्रष्टव्यमित्यर्थः ॥ स्थित्यादीति । मुक्तानां सत्तादावित्यर्थः ॥ २३१८ ॥
इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिते
श्रीमन्न्यायसुधाटीकाऽगृहीतवाक्यार्थविवरणे द्वितीयाध्यायस्य तृतीयः पादः ॥
वाक्यार्थरत्नमाला
देहाक्षयत्वेति । देहाद्यक्षयत्वेत्यर्थः । आनर्थक्यमाशङ्क्याहेति । आनर्थक्यमित्याशङ्क्याहेत्यर्थः । बाहुल्यार्थादित्यादि । एतच्च प्रागेव विवृत्तम् । सनपुंसकमितीति । यस्य द्विगोर्द्वन्द्वस्य चैकवद्भावः स नपुंसकं स्यादिति सूत्रार्थः । एकवद्भावस्तु नापादित एवेति नियमः । किं तु सिद्धोऽपि ग्राह्यः । ततश्च प्रकृते समाहारस्यैकत्वादेवैकवद्भावसद्भावेन नपुंसकमित्यनेन नपुंसकत्वप्राप्तिः । अत एव समाहारस्यैकत्वादेकवद्भावे सिद्धेपीदं प्रकरणं विषयविभागार्थमिति कौमुद्यामुक्तम् । समाहारेतु तस्यैकत्वादेव सिद्धेर्विधिरनर्थक इति । सिद्धे सत्यारम्भो नियमार्थ इतीति च शेष्यामुक्तम् । उक्तं चाभियुक्तैः ।
यत्र द्वित्वं बहुत्वं च सद्वन्द्व इतरेतरः ।
समाहारो भवेदन्यो यत्रैकत्वं नपुंसकमिति ।
मञ्जर्यामपि युवोरिति समाहारद्वन्द्वश्चेत्सनपुंसकमिति नपुंसकत्वे सतीति युवोरनाकावित्येतत्सूत्रेऽभिहितमिति ज्ञेयम् । युवोरिति समाहारेत्याद्युक्तसूत्रीयमञ्जर्यनुसारेणाह । युवोरिति नेतरेतरेत्यादि । द्वयोरिति । अत्र द्वयोर्वकारयोरुच्चारणप्रसङ्ग एवानिष्टः । प्रश्लिष्टतयेत्येतत्तु त्वदुच्चारणं प्रश्लिष्टतयैव प्रकारान्तराभावादिति वस्तुस्थितिकथनार्थम् । वक्ष्यति च वकारद्वयोच्चारणेति । परैरिति । तदुक्तं वृत्तौ । युवोरिति । इदं च द्वन्द्वैकवद्भावेऽपि नपुंसकत्वाभावाश्रयणं युवोरनाकावित्येतत्सूत्रीयकाशिकाद्यनुसारेण कृतम् । नपुंसकत्वेऽपि मञ्जर्युक्तरीत्या अनित्यमागमशासनमिति वचनाद् इण्कोरित्यादाविव नुमभावमात्रमाश्रित्यापि परिहारः । प्रकृते नुमश्रवणाप्रसक्तेर्नाश्रितः । तथेतीत्यत्रत्येतिशब्दस्यायमर्थ इति पूर्वेणान्वयः ॥
॥ मङ्गलं भवतु ॥
आनन्दाब्धिप्रजातत्रिदशतरुगुरुश्रीनिवासानुजश्री
विद्याधीशाख्यरत्नाद्भुतविदमृतगोः केशवाचार्यवर्यात् ।
रुक्मिण्याय्यां प्रजातस्य विबुधनरसिंहस्य गुर्वीयिसौध
व्याख्यापाठादिशोधात्मकविवृतिकृतावन्तगोऽयं वियत्पात् ॥
इति श्रीमत्सकलविद्वद्वृन्दशिखामणिश्रीपाण्डुरङ्गिकेशवाचार्यवर्यनामकश्रीगुरुराजवर्यविरचित श्रीमन्यायसुधाविषमपदवाक्यव्याख्यानरूपवाक्यार्थचन्द्रिकाया व्याख्यापाठादिशोधात्मकविवृतौ वाक्यार्थरत्नमालाभिधायां गुरुराजपुत्रपाण्डुरङ्गिनरसिंहसूरिविरचितायां द्वितीयाध्यायस्य तृतीयः पादः ॥
इति द्वितीयाध्यायस्य तृतीयः पादः