न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित्
भेदश्रुतिर्नानुवादिनी
न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित्
सुधा
स्यादेतत् । यः सर्वज्ञ इत्यादिश्रुतिर्न जीवभेदकधर्मविशिष्टं ब्रह्म प्रतिपादयति । किन्त्वनुवदत्येव । अतो नानुमानादेस्तद्बाध इत्यत आह न चेति ।
अनुव्याख्यानम्
न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ॥
उपेयं ज्ञेयम् । तदिति सार्वज्ञाद्युपेतम् । क्वचिदिति भ्रान्तिप्रतिपन्नमपि न भवतीति सूचयति । न तावत्सार्वज्ञादिविशिष्टं ब्रह्म श्रुतिव्यतिरिक्तप्रमाणगम्यम् । शास्त्रैकयोनित्वस्य समर्थितत्वात् । नापि भ्रान्तिप्रतिपन्नम् । क्वचित्प्रमितस्यैवान्यत्रारोपात् । न च प्रमाणेन भ्रान्त्या वाऽप्राप्तस्यानुवादः सम्भवति । अतो नेयं श्रुतिरनुवादिनी । किन्नम प्रतिपादयत्येवोक्तरूपं ब्रह्मेति ।
ननु तथाऽपि नोपजीव्यप्रमाणविरोधोऽनुमानादेः । श्रुत्युपजीवने हि सः स्यात् । न चैवम् । तव्द्यतिरिक्तप्रमाणोपजीवनादित्यत आह न चेति । वस्तुव्यवहितो वह्निरधूमस्थले प्रत्यक्षाद्यवेद्योऽपि क्वचिद्देशे प्रत्यक्षेणानुमानेन वाऽवगम्यते । प्राक् पतनोत्पत्तेरगम्यमपि गुरुत्वं क्वचित्कालेऽनुमानेन गम्यते । न चैवं ब्रह्म क्वचिन्मानान्तरोपेयम् । येन तदुपजीव्यानुमानादिप्रवृत्तिः स्यत् ।
वाक्यार्थचन्द्रिका
क्वचित्प्रमितस्यैवेति । एतच्च न्यायमतमाश्रित्योक्तमिति ज्ञातव्यम् । सर्वकर्त्राद्यनुमानोपलक्षणत्वे सार्वज्ञानुमयैवेत्यवधारणविरोधः स्यदित्यतोऽनभिमतव्यवच्छेदकत्वात्तस्य न तद्विरोध इत्यभिप्रेत्य तव्द्यवच्छेदं दर्शयति एवेतीति ।
परिमल
समर्थितत्वादिति । शास्त्रयोनिसूत्र इति भावः ॥ क्वचित्प्रमितस्यैवेति । आरोपस्याधिष्ठानप्रधानसापेक्षत्वात् प्रधानसत्वमनेनाभिप्रेतम् । प्रधानानुभवजन्यसंस्कारादिसचिवं खलु चक्षुरादिकं प्रधानसदृशमधिष्ठानमसत्यान्याकरेणावभासयतीत्येवमुक्तमिति ज्ञेयम् । तदेव मूलमन्यथाप्यवतार्य व्याचष्टे ननु तथापीति ।
यादुपत्यं
क्वचित्प्रमितस्यैवेति । एतच्चान्यथाख्यातिवादिमतमाश्रित्योक्तम् । स्वमते तु क्वचित्प्रमितसदृशस्यैवेति द्रष्टव्यम् । आरोप्यस्यासत्त्वेऽपि तत्र प्रधानसादृश्यं वैज्ञानिकसम्बन्धेनैवास्ति न वस्तुत इति न काऽप्यनुपपत्तिरिति सम्प्रदायः ।
वाक्यार्थरत्नमाला
अत्यन्तासत एव स्वमते आरोपादाह । एतच्च न्यायेति । अनभिमतेति । नरं च नारायणमेव चादावित्यादौ तथात्वस्य दृष्टत्वादिति भावः ।