नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात्
नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात्
सुधा
किञ्च तिष्ठतु तावद्यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वम् । तथाऽप्यभेदानुमानागमबाधकत्वं भवेदेव । इयं खलु श्रुतिः सार्वज्ञादिविशिष्टमीश्वरं प्रतिपादयन्ती न किञ्चिदपेक्षते । अनुमानागमौ तु सापेक्षौ । सापेक्षनिरपेक्षयोश्च निरपेक्षस्य प्राबल्यादित्याशयवानाह नोपजीव्यो हीति ।
अत्र भेदाभेदप्रमाणयोर्मध्ये । भेदश्रुतेर् भेदकधर्मविशिष्टधर्मिश्रुतेः । अभेद इत्यभेदप्रमाणम् । अनपेक्षत्वोपलक्षणमेतत् । अतो बलादभेदप्रमाणबाधकत्वमिति शेषः ।
वाक्यार्थचन्द्रिका
एवं सार्वज्ञादिना विना ब्रह्मणो धर्मीकर्तुमशक्यत्वेन यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेनाभेदानुमानागमप्रवृत्त्यसम्भवात्तौ प्रति तदपेक्षितविष्टिकारग्राहकतया यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वादुपजीव्यप्रमाणबाधितत्वमभेदानुमानादेरित्युपपादितम् । इदानीं त्वस्तु स्वरूपमात्राश्रयणेनानुमानादिप्रवृत्त्या यः सर्वज्ञ इत्यादेर्विशिष्टार्थप्रतिपादकस्यानुपजीव्यत्वं तथाऽपि तस्यानुमानादिबाधकत्वं स्यादेव । न ह्युपजीव्यत्वमेव प्राबल्यहेतुरिति नियमः । किन्तु तदपीत्येव । ततश्च निमित्तान्तरेण प्रबलाया यः सर्वज्ञ इत्यादिश्रते कथं न बाधकतेत्यर्थप्रतिपादकतया ‘धर्मिग्राहिविरोधस्तु तस्मान्मानस्ये’त्यादिपूर्वग्रन्थसङ्गतत्वेनापि नोपजीव्य इत्येवं ग्रन्थं योजयति किञ्चेति । टीकायां श्रुतेरनुपजीव्यत्वमिति पाठे तिष्ठतु तावदित्यस्यास्तु तावदित्यर्थः । उपजीव्यत्वमिति पाठे तु माऽस्तु तावदित्यर्थः ॥ सापेक्षाविति । यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात्सापेक्षावित्यर्थः । भेदश्रुतेरप्यभेदश्रुतिवद्धर्मिग्राहिप्रमाणसापेक्षत्वात्कथमनपेक्षत्वमित्यत आह भेदकधर्मेति । अभेदस्य भेदाभेदप्रमाणयोर्मध्येऽन्यतरत्वासम्भवादाह अभेद इतीति ।
परिमल
अनुमानागमाविति । अभेदानुमानागमौ धर्म्यादिसापेक्षावित्यर्थः ।
यादुपत्यं
सापेक्षाविति । प्रतिषेध्यज्ञानादिसापेक्षावित्यर्थः ॥
श्रीनिवासतीर्थीया
‘नोपजीव्यो ह्यभेदोऽत्रे’त्यस्य तात्पर्यमाह अनपेक्षत्वोपलक्षणमेतदिति ।
वाक्यार्थरत्नमाला
मास्तु तावदित्यर्थ इति । अयं मास्त्वित्यर्थे तिष्टत्वित्येवमादिप्रयोगदर्शनादिति भावः । इत्यत आह भेदकधर्मेतीति । भेदपदं भेदकधर्मविशिष्टधर्मिपरतया व्याख्यातीत्यर्थः । उपजीव्यत्वस्य अत्र पक्षे प्रसङ्गादुपजीव्यपदमपेक्षत्वोपलक्षणतया व्याचष्टे । अनपेक्षत्वेति मूलम् । ततश्च भेदप्रमाणं नापेक्ष्यम् । भेदश्रुतिरभेदप्रमाणानपेक्षेत्युक्तं भवति ।