उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत्
अभेदश्रुतिरुपजीव्यप्रमाणविरुद्धा
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत्
सुधा
एवमनुमानं निराकृत्येदानीं तद्योऽहमित्यादिश्रुतिं निराकरोति उपजीव्येति ।
अनुव्याख्यानम्
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ॥
तुशब्दो विशेषार्थः । दुष्टं ह्यनुमानमप्रमाणं भवति । श्रुतेस्तु प्रतीतार्थप्रच्यावनमात्रमिति । ऐक्यं जीवेश्वरयोः । श्रुत्या हि यदि जीवमनूद्य तस्येश्वरैक्यं बोध्यते तदा जीवग्राहकं साक्षिप्रत्यक्षमुपजीव्यं स्यात् । तच्च भेदग्राहकमित्युक्तमित्युपजीव्यविरोधः । यदि चेश्वरानुवादेन तस्य जीवाभेदो विधीयते तदा यः सर्वज्ञ इत्यादिकं श्रुत्यन्तरमेवोपजीव्यं भवेत् । तच्च भेदग्राहकमित्युक्तत्वादुपजीव्यविरोध एव । यदि चोभयानुवादेनाभेदमात्रबोध्यं तदोभयमुपजीव्यमित्युपजीव्यप्रमाणविरोधः स्फुट एव । यद्यप्येतत्सर्वं प्रथमसूत्र एवोक्तम् । तथाऽपि प्रपञ्चनार्थं पुनरारभ्यत इत्यदोषः ।
वाक्यार्थचन्द्रिका
तुशब्दोक्तं विमेव दर्शयति दुष्टमिति ॥ प्रथमसूत्र एवोक्तमिति । ‘सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चने’त्यादिनेति शेषः ॥ प्रपञ्चनार्थमिति । प्रपञ्चनं चात्र ‘अप्रामाण्यं यदा भेदवाचकस्य भवष्यिती’त्यादिनोपजीवस्यैव प्राबल्यसमर्थनादिनेत्यवधेयम् ।
परिमल
प्रथमसूत्र एवेति । जिज्ञासासूत्र एव ‘सत्वत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चनेत्यादिनेति भावः ।
यादुपत्यम्
प्रथमसूत्र एवेति । ‘सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चने’त्यादिनेति शेषः ।
अप्रामाण्यं यदा भेदवाचकस्य भवष्यिति
अप्रामाण्यं यदा भेदवाचकस्य भवष्यिति
सुधा
ननूपजीव्यविरोधेनोपजीवकं बाध्यत इत्यत्र किं नियामकम् । येन प्रत्यक्षागमविरोधादनुमानागमयोरप्रामाण्यमुक्तम् । उच्यते । इह हि भेदाभेदविषययोरुपजीव्योपजीवकयोरुभयोरपि प्रामाण्यमेव वाऽप्रामाण्यमेव वा । एकस्य प्रामाण्यमपरस्याप्रामाण्यं वा । तत्राप्युपजीवकस्य प्रामाण्यमुपजीव्यस्याप्रामाण्यं वा । उपजीव्यस्य प्रामाण्यमुपजीवकस्याप्रामाण्यमिति पक्षाः सम्भवन्ति । तत्र न तावत्प्रथमः । विरुद्धयोः प्रामाण्यानुपपत्तेः । उपपत्तौ वा वस्तुनो द्वैरूप्यापत्तेः । भ्रान्तिबाधव्यवस्थाऽभावप्रसङ्गाच्च । न च भेदाभेदाभ्यामुपपत्तिः । निराकरिष्यमाणत्वात् । असार्वत्रिकत्वाच्च । न चानैकान्तवादेन निस्तारः । द्वयोरपि सावधारणत्वासम्भवात् । नापि द्वितीयः वस्तुनो निस्स्वभावत्वापत्तेः । न चानिर्वाच्यतास्वीकारेण निर्वाहः । ब्रह्मण्यपि सम्भवादिति पक्षद्वयमतिस्फुटदोषत्वादनिराकृत्य तृतीयं दूषयति अप्रामाण्यमिति ।
अनुव्याख्यानम्
अप्रामाण्यं यदा भेदवाचकस्य भवष्यिति ॥
स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ।
भेदवाचकस्यागमस्येत्युपलक्षणम् । भेदग्राहिणः प्रत्यक्षस्येत्यपि द्रष्टव्यम् । एवं तदा स एवेत्यत्रापि व्याख्यातव्यम् । धर्मिणो जीवस्येश्वरस्य च । इतिशब्दोऽध्याहार्यः । कथं बोध्य इति शेषः । इदमुक्तं भवति । यद्यज्ञानादिविशिष्टस्य जीवस्य सार्वज्ञादिविशिष्टस्य परमात्मनो ग्राहकं प्रत्यक्षमागमवाक्यं वाऽप्रमाणं स्यात् । तदा जीवेश्वरयोरसिद्धौ तत्त्वमस्याद्यागमैरनुमानैश्च तदभेदबोधनं न स्यात् । निर्विषयत्वात् । तथा च कस्य विरोधात्प्रत्यक्षादेरप्रामाण्यं स्यात् । ज्ञापकश्चायमर्थो न कारकः । अखण्डार्थबोधनमपि लौकिकवाक्यन्यायमनुसृत्य पश्चाल्लक्षणया परेणाभ्युपगतम् । न पुनरेवमेव । अलौकिकप्रकारस्य बोधानङ्गत्वात् । तस्मादुपजीवकविरोधेनोपजीव्यस्याप्रामाण्यायोगात्परितश्चतुर्थप्रकार एव च सिध्यतीति ।
वाक्यार्थचन्द्रिका
भ्रान्तीति । तत्राप्युभयोः प्रामाण्यसम्भवादिति भावः । ननु विरुद्धयोर्द्वयोः प्रामाण्ये वस्तुनो द्वैरूप्यापादानमिष्टमेव । मया जीवेश्वरयोर्भेदाभेदाङ्गीकरादित्याशङ्क्य निराकरोति न च भेदाभेदाभ्यामिति ॥ निराकरिष्यमाणत्वादिति । ‘अत एव चोपमा सूर्यकादिवदि’त्यधिकरण इति शेषः । जीवब्रह्मणोर्भेदाभेदाङ्गीकारेण तद्विषयकयोरुभयोः प्रामण्योपपत्तावप्युपजीव्योपजीवकयोरुभयोरपि सर्वत्र प्रामाण्यानुपपत्तिरेव सर्वत्रोपजीव्योपजीवकयोर्भेदाभेदविषयत्वस्यासम्भवेन तदभ्युपगमेनोभयप्रामाण्योपपादनानुपपत्तेरित्याह असार्वत्रिकाच्चेति । यद्वा वह्नावुपजीव्योपजीवकप्रमाणविषययोरौष्ण्यानौप्ण्ययोरुभययोरङ्गीकर्तुमशक्यत्वेन तद्विषयतयोभयप्रामाण्योपपादनस्याशक्यत्वादित्यर्थः । ननु न तत्रोपजीव्योपजीवकयोर्भेदाभेदाभ्युपगमेन प्रामाण्योपपादनासम्भवोऽनैकान्त्यवादे सर्वत्र भेदाभेदसत्त्वादित्याङ्क्य निषेधति न चेति । भेदाभेदप्रमाणयोः सावधारणत्वादभेदभेदनिषेधकत्वेन भेदाभेदाङ्गीकारानुपपत्त्या न ताभ्यामुभयप्रामाण्यसिद्धिरित्याह ॥ द्वयोरपीति । ननूपजीव्योपजीवकयोरुभयोरप्रामाण्येऽपि न वस्तुनो निस्स्वभावत्वमापद्यते । अनिर्वचनीयत्वेन सस्वभावत्वसम्भवादित्याशङ्क्य निषेधति न चेति ॥ ब्रह्मण्यपि सम्भवादिति । विरुद्धयोरुपजीव्योपजीवकप्रमाणयोरिति शेषः । तथा च ब्रह्म मिथ्या पदार्थत्वाद्वियदादिवदित्यनुमानस्य तत्सत्यमित्यादिरागमो धर्मिग्राहकत्वादुपजीव्यस्तन्मिथ्यात्वानुमानं तूपजीवकमिति तदुभयाप्रामाण्ये ब्रह्मणोऽपि सदसद्विलक्षणत्वमापद्येतेति भावः ।
एवमिति । यथा भेदवाचकपदं नागममात्रपरं किन्तु भेदग्राहिप्रत्यक्षपरमपीति व्याख्यातं तथा ‘स एव धर्मिणो ग्राही’त्यत्रापि स एवेत्येतन्न धर्मिग्राह्यागममात्रपरं किन्तु धर्मिभेदग्राहिप्रत्यक्षपरमपीत्येवं व्याख्यातव्यमित्यर्थः । पूर्वार्धे यदेत्युक्तत्वात्तस्य तदेत्यनेन सापेक्षत्वात्तदुत्तरार्धे तदेत्यस्य लाभ इत्यभिप्रेत्य तदेत्यनूदितम् । ननु साधकस्य स्वप्रवृत्तेः पूर्वं निर्विषयत्वं गुण एव, अन्यथा स्वप्रवृत्तेः पूर्वमेव स्वविषयस्य सिद्धत्वात्स्वव्यापारवैय्यर्थ्यापत्तेः । एवञ्च पूर्वं जीवेश्वरासिद्धावप्यस्त्वागमादिना तदभेदबोधनम् । निर्विषयत्वस्याप्रयोजकत्वादित्यतः सत्यं, कारके स्वप्रवृत्तेः पूर्वं विषयासत्त्वं गुण इति न तु ज्ञापके । धर्मिणि धर्मविबोधनाय प्रवृत्तस्य तस्य धर्मिस्वरूपासिद्धौ धर्मविबोधनरूपस्वकार्यस्य कर्तुमशक्यतया तदसिद्धेः स्वकार्यविघातकत्वेन तत्र दोषत्वात् । प्रकृतागमानुमानयोश्च ज्ञापकत्वात्तत्र निर्विषयत्वं दोष एवेत्याह ज्ञापकश्चायमर्थ इति । केचित्तु ननु ‘तदभेदः कथं भवेदि’ति मूले धर्म्यभावेन तदभेदाभावस्यैवापादितत्वात्स एवापाद्योऽस्तु किं बोध्य इति पूरणेनेत्यतो वस्तुतः कारक एव कारकत्वाभावस्यापाद्यत्वादभेदागमस्य च ज्ञापकत्वात्कारकत्वाभावेन ज्ञापकत्वाभावस्यैव तत्रापाद्यत्वाद्युक्तमेव बोध्य इति पूरणेनाबोधकत्वापादनमित्याशयेनाह ज्ञापकश्चायमर्थ इतीत्याहुः । अन्ये तु धर्म्यादिसिध्द्यभावेऽपि धर्म्यादीनां सत्तामात्रेणैवानुमानादिप्रवृत्त्युपपत्तिर्भविष्यतीत्याशङ्क्य जीवो ब्रह्मणो न भिद्यते आत्मत्वाद्ब्रह्मवदित्यनुमानरूपो वा तत्त्वमसीत्याद्यागमरूपो वाऽर्थो ज्ञापक एव न कारको ज्ञापकश्च किञ्चिदनूद्य किञ्चिद्विधत्तेऽनुवादश्च सिद्धस्यैव सम्भवति । तथा च कारकस्य सत्तामात्रेण कार्यजनकत्वेऽपि ज्ञापकस्यानुमानादेर्धर्म्यादिसिध्द्यधीनत्वात्तत्सिध्द्यभावे न प्रवृत्तिः सम्भवतीत्याह ज्ञापकश्चेतीत्याहुः । ननु वेदान्तानामखण्डचिन्मात्रबोधकत्वेन तदभेदाबोधकत्वादभेदबोधनं न स्यादितीष्टापादनमित्यत आह अखण्डार्थेति । अखण्डार्थबोधनमपि पश्चादभेदबोधनेन भेदभ्रमनिरासानन्तरं मुख्यार्थानुपपत्त्यादिप्रतिसन्धाने सति लक्षणयाऽभ्युपगतमिति सम्बन्धः । तत्र नियामकमाह लौकिकेति । सोऽयं देवदत्त इति वाक्येऽभेदबोधनेन भेदभ्रमनिरासानन्तरं मुख्यार्थानुपपत्त्यादिप्रतिसन्धाने सति लक्षणया देवदत्तस्वरूपमात्रपरताया दृष्टत्वात्तदनुसारेणेत्यर्थः ॥ न पुनरेवमेवेति । लौकिकन्यायमननुसृत्याखण्डार्थनिष्ठत्वं नाभ्युपगतमित्यर्थः । तत्र हेतुमाह अलौकिकस्येति । ततश्च भेदबोधनस्य प्रथमं सर्वथाऽभ्युपगमनीयत्वान्नेष्टापत्तिरिति भावः ।
परिमल
निराकरिष्यमाणत्वादिति । अत एव चोपमेत्येतव्द्याख्यावसरे ‘न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते’ इत्यादाविति योज्यम् । तथा च भेदाभेदग्रहणे शास्त्रद्वयप्रामाण्यं नोपेतुं शक्यमित्यर्थः । असार्वत्रिकत्वाच्चेति । उपजीव्योपजीवकभावस्थले सर्वत्र भेदाभेदोपग(देरपग)मेन द्वयोरुपजीव्योपजीवकयोः प्रामाण्याङ्गीकारस्यासम्भवादित्यर्थः ॥ अनेकान्तवादेनेति । सर्वत्रोपजीव्योपजीवकमानद्वया(र्थात्मकत्वेने)र्थवत्त्वेनेत्यर्थः ॥ निस्तार इति । उपजीव्योपजीवकयोर्विरोधस्येति योज्यम् । न चानिर्वाच्यतेति । उपजीव्योपजीवकयोरपि अमानत्वे तदुभयबोध्यार्थद्वयवैलक्षण्यलाभाद्वस्तुनस् तस्यैवानिर्वचनीयत्वशब्दितत्वादिति भावः ॥ ब्रह्मण्यपीति । उपजीव्योपजीवकभावापन्नविरुद्धमानद्वयस्य ब्रह्मण्यपि सम्भवात्तत्र द्वयोरमानत्वे ब्रह्मणोप्यनिर्वाच्यत्वापत्तेरिति भावः । यदेति श्रवणाल्लब्धस्य तदेत्यस्यानुवादः ॥ एवं तदा स एवेत्यत्रापीति । स एको भेदसाक्षात्कारो वा भेदवाचको वेति व्याख्येयमित्यर्थः । स एव धर्मिग्राहीत्युक्तस्य हेतुत्वं व्यक्तीकुर्वन्नभिप्रायमाह इदमुक्तमिति । तृतीयपादतात्पर्यं तदा जीवेश्वरयोरसिद्धाविति । ननु तदभेदः कथं भवेदित्यस्य तदभेदः कथं बोध्यत इति कुतो व्याख्यायते यथान्यास (समे)एवास्त्वित्यत आह ज्ञापकश्चायमर्थो न कारक इति । ‘भेदवाचकस्ये’ति ‘धर्मिणो ग्राही’त्याभ्यां शब्दाभ्यामुक्तो यः धर्मिग्राहिप्रत्यक्षादिरूपोऽर्थः स भेदादेर्ज्ञापक एव न तु कुलालादेरिवोत्पादकः । अतस्तदप्रामाण्ये निर्विषयत्वादभेदबोधनमागमादिना न स्यादित्येव व्याख्येयम् । न तु तदप्रामाण्ये निराश्रयत्वादभेदो न स्यदिति । तस्मादभेदपदमभेदबोधनपर्यन्तं व्याख्यातमित्यर्थ इत्येके । अयं धर्मिरूपोऽर्थो ज्ञानक एवाभेदादेर्न तु कारक इत्यर्थ इत्यन्ये । अध्याहृतहेत्वर्थकेतिशब्दान्तेन तृतीयपादेनोक्तोयमर्थः (इत्यपरे) । ज्ञप्तावेव हेतुर्न कृताविति स एव धर्मिग्राहीति हेतोरभेदबोधनं तत्त्वमसीत्यादिवाक्यादिभिः कथमेवं स्यादिति व्याख्या कार्येत्यर्थ इत्यपरे । वस्तुतस्तु धर्मिग्राहिणोऽप्रमाण्ये धर्मिण एवाभावान्निराश्रयोऽभेदः कथमेवं भवेदित्येवं व्याख्यायतामित्यत आह ज्ञापकश्चेति । न हि धर्मिग्राहिणोऽप्रामाण्ये धर्मिस्वरूपानिष्पत्तिर्भवति । तस्य धर्मिस्वरूपानिष्पादकत्वात् । किन्तु धर्मिग्राहकत्वात्तदनध्यवसाय एव । धर्मिणोऽनध्यवसाये च तदभेदबोधनं वाक्यादिना कथमेव भवेदिति व्याकर्तव्यम् इत्यर्थ इति भावः । यद्वा वृश्चिककर्कटादेर् उपजीव्यस्योपमर्देप्युपजीवकस्य तदपत्यस्योत्थानं दृष्टमित्यत आह ज्ञापकश्चेति । अयमर्थः । उपजीव्यरूपोऽर्थः । येन वृश्चिकादिवदुपजीवकेन बाध्येतेति भावः । ननु यः सर्वज्ञ इत्यादिकं लक्षणया चिन्मात्रपरं सदभेदबोधकमित्यतो विरोध एव नास्तीत्यत आह अखण्डार्थ इति । गङ्गायां घोष इत्यादौ मुख्यार्थधीपूर्वकत्वदर्शनात् । लक्षणायास्तद्रीत्या पूर्वं सार्वज्ञादिप्रतीतेरावश्यकत्वेन भेदस्यावश्यं प्रत्येतव्यत्वादिति भावः ॥ अलौकिकेति । आदावेव लाक्षणिकबोधप्रकारस्येत्यर्थः ।
यादुपत्यं
ननु विरुद्धयोर्द्वयोः प्रामाण्ये वस्तुनो द्वैरूप्यापादनमिष्टमेव । जीवेश्वरयोर्मया भेदाभेदयोरुभयोरप्यङ्गीकारादित्याशङ्क्य निराकरोति न च भेदाभेदाभ्यामिति ॥ निराकरिष्यमाणत्वादिति । ‘अत एव चोपमा सूर्यकादिवदि’त्यत्रेति शेषः । असार्वत्रिकत्वाच्चेति । वह्नावुपजीव्योपजीवकमानविषययोरौष्ण्यानौष्ण्ययोरुभयोरङ्गीकर्तुमशक्यत्वेन तत्रोभयप्रामाण्योपपादनस्यासम्भवादित्यर्थः ॥ ब्रह्मण्यपि सम्भवादितीति । विरुद्धयोरुपजीव्योपजीवकप्रमाणयोरिति शेषः । तथा च ब्रह्म मिथ्या पदार्थत्वाद्वियदादिवदित्यत्र तत्सत्यमित्याद्यागमो धर्मिग्राहकत्वादुपजीव्यः । तन्मिथ्यात्वानुमानमुपजीवकम् । तयोश्चोभयोरप्रामाण्ये ब्रह्म सदसद्विलक्षणमापद्येतेति भावः । ननु तदभेदः कथं भवेदिति मूले धर्म्यभावेऽभेदाभावस्यैवापाद्यत्वेनोक्तत्वात्स एवापाद्योऽस्तु किं बोध्य इति पूरणेनेत्यत आह ज्ञापकश्चायमर्थ इति । अयं धर्मिरूपोऽर्थोऽभेदज्ञापक एव न कारकः । अभेदस्य धर्मिस्वरूपत्वेन धर्मिणस्तज्जनकत्वासम्भवात् । विपयतया अभेदबोधजनकत्वसम्भवाच्च । तथा च बोध्य इति पूरणेनैव मूलं व्याख्येयमिति भावः । स्वामिनस्तु ननु दण्डचक्रादिसामग्य्रा घटस्य तद्गतधर्माणां च युगपत्सिद्धिदर्शनात् साधकव्यापारात्पूर्वं धर्म्यसिद्धिर्न दूषणमित्यतश्चाह ज्ञापकश्चेति । कारकाणां युगपदेव धर्मिधर्मसाधकत्वेऽपि न ज्ञापकानां तथात्वम् । अज्ञाने धर्मिणि कस्य चिद्धर्मस्य विधातुं निषेध्दुं चाशक्यत्वेन पूर्वं धर्मिसिद्धेरावश्यकत्वादिति भाव इत्याहुः । नन्वेवं तदभेदबोधनं न स्यादित्यत्रेष्टापत्तिः । वेदान्तानामखण्डचिन्मात्रबोधकत्वेन तदभेदाबोधकताया इष्टत्वादित्यत आह अखण्डार्थेति ॥ लौकिकेति । सोऽयं देवदत्त इत्यादौ लौकिके वाक्ये यो न्यायः प्रकार आदावभेदबोधनं तेन भेदभ्रमव्युदास तदनन्तरं मुख्यार्थे बाधप्रतिसन्धानमित्यादिरूपस् तमनुसृत्येत्यर्थः। तथा च प्रथममवान्तरतात्पर्यविषयतयाऽभेदोऽपि बोध्य एत्तेति नेष्टापत्तिरत्रेति भावः । यद्वा स एव भेदवाचक एवागमो धर्मिणो ग्राहीत्ययुक्तम् । अखण्डार्थपरादेवागमाच्चिन्मात्ररूपधर्मिग्रहसम्भवादित्यत आह अखण्डार्थेति । अयं भावः । यः सर्वज्ञ इत्याद्यागमात्प्रथमप्रतीतो विशिष्टाकाररूपो मुख्यार्थ एवाभेदबोधने धर्मितया स्वीकार्यः । न तु तल्लक्ष्यं चिन्मात्रं, तस्य प्रथममनुपस्थितत्वात् । अन्यथाऽन्योन्याश्रयत्वप्रसङ्गात् । अभेदप्रमाणप्रवृत्तौ तेन यः सर्वज्ञ इत्याद्यागमस्य मुख्यार्थे बाधिते लक्षणया चिन्मात्रबोधकत्वं, तस्मिंश्च सति निर्विषयत्वाभावेनाभेदप्रमाणप्रवृत्तिरिति । अतः स एव धर्मिणो ग्राहीत्युपपन्नमिति ।
श्रीनिवासतीर्थीया
यदि विरुद्धयोरपि प्रामाण्यं तर्हीदं रजतं नेदं रजतमिति ज्ञानयोरपि प्रामाण्यं स्यात् । इष्टापत्तिरिति चेत्तत्राह भ्रान्तीति । ननु भेदाभेदविषययोरुभयोरपि ज्ञानयोः प्रामाण्यमिष्टमेव । तर्हि वस्तुनो द्वैरूप्यं स्यादिति चेत् । जीवब्रह्मणोर्भेदाभेदाङ्गीकारेण तद्विषयकज्ञानयोः प्रामाण्यसम्भवादित्यत आह न चेति । ननु पुनरुभयोरपि भेदाभेदज्ञानयोः प्रामाण्यं युक्तेमव । भेदाभेदाङ्गीकाराज्जीवब्रह्मणोः । न च वक्ष्यमाणरीत्याऽनुपपत्तिः । एकदैव भेदाभेदाङ्गीकारे हि दोषः स्यात् । न चैवम् । किं नाम क्रमानैकान्तवादिरीत्या कालभेदेन । तथा च भेदस्यापि सत्त्वाद्युक्तं विरुद्धयोरपि तज्ज्ञानयोः प्रामाण्यमित्यत आह न चेति ॥ द्वयोरपीति । तथा च भेदप्रमाणस्य सावधारणत्वेनाभेदनिषेधकत्वादभेदप्रमाणस्यापि तादृशत्वेन भेदनिषेधकत्वात्तद्रीत्याऽप्युभयाङ्गीकारोऽयुक्त इत्यर्थः । यदेति श्रवणात्तदेत्यध्याहृतम् । स एवेत्यत्राप्येवमेव व्याख्येयमित्यन्वयः । उपलक्षणया भेदग्राहि प्रत्यक्षं ग्राह्यमित्यर्थः । तथा च स एव आगमादिरेवेत्यर्थः ॥ अनिर्वाच्यतेति । प्रमाणाप्रमाणवैलक्षण्येनानिर्वाच्यतेत्यर्थः । तदिहाप्युचितमित्यन्वयः ।
वाक्यार्थरत्नमाला
इत्यधिकरण इति इति । तत्र जीवेश्वरभेदाभेदमतस्यैव निराकरणादिति भावः । भेदाभेदविषयकयोरुपजीव्योपजीवकयोर्विरोधेऽपि द्वयोरपि प्रामाण्यमित्यङ्गीकृत्य वस्तुनो द्वैरूप्यापत्तिपरिहाराय प्रमाणद्वयविषयभूतभेदाभेदाख्यवस्तुद्वयस्वीकारेणोपपत्तिरित्येवं कल्पितम् । नैतद्युक्तम् । तथासत्यन्यत्राप्युपजीव्योपजीवकभावापन्नविरुद्धविषयकयोः प्रामाण्यमङ्गीकृत्य वस्तुनो द्वैरूप्यापत्तिपरिहाराय भेदाभेदविषयत्वस्वीकारेणैवोपपत्तिर्वाच्या स्यात् । न च सा युज्यत इत्याशयेन व्याचष्टे । जीवब्रह्मणोर्भेदाभेदेति । ननु स्थलान्तरे न भेदाभेदविषयतया विरोधपरिहारं ब्रूमः । किं तु विरुद्धतत्तत्प्रमाणद्वयविषयस्वीकारेणोपपत्तिरित्येव । तथा च प्रकृते भेदाभेदाभ्यामन्यत्र च तत्तत्प्रमाणद्वयविषयाभ्यामङ्गीकृताभ्यां प्रमाणद्वयोपपत्तिरित्यङ्गीकारे न बाधकमित्येतच्छङ्कान्तरपरिहारायासार्वत्रिकत्वादित्येतत्प्रकारान्तरेण व्याचष्टे । यद्वा वह्नावुपजीव्येति । औष्ण्ययोरिति तत्तत्प्रमाणद्वयविषयोपलक्षणमिति ज्ञेयम् । ननु न तत्रेति । तत्रेत्यस्य विरुद्धोपजीव्योपजीवकभावापन्नभेदाभेदप्रमाणप्रतिस्थल इत्यर्थः । अयमर्थः । भेदाभेदप्रमाणयोर्विरोधेऽपि प्रामाण्यमेव । तदुभयविषयस्वीकारश्च युज्यत एव । न चोपजीव्योपजीवकभावापन्नविरुद्धौष्ण्यादिविषयकप्रमाणस्थले भेदाभेदविषयत्वाश्रयणेन विरोधपरिहारायोगः । अनेकान्तवादे सर्वत्रापि भेदाभेदसद्भावेन तद्विषयतया विरोधाभावोपपत्तेः । तदेतदाह । अनेकान्त्यवादे सर्वत्रेति । तथा च प्रथमव्याख्यानाश्रयणेनाक्षेपोऽयमिति लब्धं भवति ।
यद्वा तत्रेत्यनेन विरुद्धप्रमाणद्वयमात्रं गृह्यते । तथा च सर्वत्र भेदाभेदाभ्युपगमेन प्रामाण्यं सम्भवति । अतो नेकान्तवादाश्रयणेन सर्वत्र भेदाभेदसद्भावात् । भेदाभेदाभ्यामुपपत्तेः प्रथमव्याख्यानानुसार्यसार्वत्रिकत्वमनुपपन्नमित्यर्थः । अथवाऽसार्वत्रिकत्वादित्येतद्द्वितीयव्याख्यानानुसारेण तत्तत्प्रमाणद्वयप्रामाण्योपपादनानुपपत्तेरभिधाने सति भेदाभेदाभ्युपगमेनेत्यादेरुपलक्षणतया विरुद्धोपजीव्योपजीवकभावापन्नप्रमाणद्वयसम्बन्धिवत्तद्विषयद्वयाभ्युपगमेनेत्यादिरेवार्थः । अनैकान्तवादोऽपि विरुद्धतत्तत्प्रमाणविषयद्वयाङ्गीकाररूपतया व्याख्येयः । तथा चौष्ण्यानौष्ण्यादिरूपयोरुभयोरङ्गीकर्तुमशक्यत्वेनोभयप्रामाण्यासम्भवो नास्ति । अनेकान्तवादेनौष्ण्यानौष्ण्यादिरूपयोस्तत्तद्विरुद्धविषययोरपि एकैकत्र प्राप्तिसम्भवादित्यर्थः । भेदाभेदप्रमाणयोरिति । पूर्ववाक्यस्यासद्योजनायां तावता भेदाभेदविषयत्वस्य सर्वत्र वक्तुं शक्यतयाऽसार्वत्रिकत्वानुपपत्यभावेऽपि भेदाभेदप्रमाणयोरुभयोरपि सावधारणतयाऽभेदभेदनिषेधलाभान्न भेदाभेदाङ्गीकारेण प्रमाणद्वयोपपत्तिरिति व्याख्येयम् । द्वितीययोजनायामप्ययमेवार्थः । विरुद्धतत्तत्प्रमाणविषयोपलक्षकत्वं भेदाभेदस्येत्यादिरूपायां द्वितीयव्याख्यानानुसारितृतीययोजनायां तु भेदाभेदप्रमाणयोरित्यादेरपि विरुद्धार्थविषयकप्रमाणमात्राद्युपलक्षकतया भेदाभेदौष्ण्यानौष्ण्यादिप्रमाणयोः सावधारणतया भेदाभेदानौष्ण्यौष्ण्यादिनिषेधकत्वेन भेदाभेदौष्ण्यानौष्ण्याद्यङ्गीकारानुपपत्या न ताभ्यां विषयाभ्यामुभयप्रामाण्योपपत्तिरिति व्याख्येयमिति सर्वमवदातम् ।
एवमेतन्मूलटीकावाक्ययोजनया बुधाः ।
तोषमायान्तु मात्सर्यं त्यत्क्वाऽऽलोचनतत्पराः ।
यद्यपि किन्नाम भिन्नाभिन्नत्वम् । तत्र भेद औपाधिको ऽभेदस्तु स्वाभाविक इत्याद्यभिधानानन्तरं द्वासुपर्णेत्यादिभेदव्यपदेशात् तत्वमसीत्याद्यभेदव्यपदेशादित्यादिकमंशोनाना व्यपदेशादित्यधिकरणीयापव्याख्यानानुवादमूले उक्तमिति तदनुसारेण भेदाभेदाभ्यामुपपत्तिरित्येतद्-व्याख्याय निराकरिष्यमाणत्वादित्येतच्च भेदस्य मुक्तौ वचनादित्याद्यनुव्याख्यानोक्तयुक्तिश्रुतिविरोधेन निराकरिष्यमाणत्वादित्यर्थकत्वेन व्याख्याय न चानेकान्तवाद इत्येतत्तु जीवब्रह्मणोर्भेदाभेदौ द्वावपि स्वाभाविकौ न तु भेदोऽविद्याद्युपाधिनिबन्धन इत्याद्युत्तरमूलोक्तयादवप्रकाशीयमतानुवादपरत्वेन व्याख्याय द्वयोरपीति वाक्यस्य तथासत्युभयोरपि वाक्ययोः साधारणत्वानुपपत्तिः । तद्वाक्यगतावधारणेनाभेदभेदनिषेधादिति व्याख्याने कृते भेदाभेदरूपैकविषयतया ग्रन्थोऽयं योजितो भवति । तथापि वर्णकान्तरमेतदित्याहुः । कारकस्य स्वप्रवृत्तेरिति पाठः ।