न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित्
अनिर्वचनीयनिरासः
न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित्
सुधा
न सिद्धं तदित्ययुक्तम् । पक्षीकृते भेदेवा प्रपञ्चे वाऽविद्यायां वा शुक्तिरजतादौ वाऽनिर्वचनीयत्वस्य प्रमाणेन साधयितुं शक्यत्वादित्यत आह न चेति ।
अनुव्याख्यानम्
न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ॥
यदा भेदभिथ्यात्वस्य सत्त्वादिविकल्पेन दूषणाभिधानं तदान्तरशब्दो विवचनः । यदा तु
मिथ्याशब्दा(र्थं)र्थविक(ल्प्य दू)ल्पेन दूषणाभिधानं तदाऽन्यन्मानं मानान्तरम् । एतद् अनिर्वाच्यत्वम् । क्वचिद् इत्युक्तस्थलेषु ।
वाक्यार्थचन्द्रिका
दूषणाभिधानमिति । पूर्वग्रन्थार्थतया विवक्षितमिति शेषः । उक्तानुमानस्य भेदमिथ्यात्वसाधकत्वेन तदपेक्षया मानान्तरत्वसम्भवेऽपि तस्य पूर्वानुमानसाध्यं यन्मिथ्यात्वं तद्धर्मभूतानिर्वचनीयत्वसाधकत्वाभावेन तदपेक्षयाऽन्यन्मानं मानान्तरत्वमित्यर्थस्यासम्भवादाह तदाऽन्तरशब्दो विवचन इति ॥ उक्तस्थलेष्विति । भेदप्रपञ्चादिष्वित्यर्थः ।
परिमल
तदा अन्तरशब्दो विवचन इति । साध्यधर्मोऽयं सन्नस(न्वानचोवोभयमित्या)न्वेत्यादिना कृतमिथ्यात्वगतसत्वासत्वादिप्रकारविकल्पदूषणाभिधानोद्धारार्थं मानस्येत्यतः पूर्वमनुक्तत्वेनान्तरशब्दस्य वक्ष्यमाणार्थपरत्वायोगाद् व्यतिरेकिहेत्वादिरूपमानविपर इत्यर्थः ॥ यदा तु मिथ्याशब्दार्थेत्यादि । इति मानस्य दूषणमिति वाक्ये कर्मव्युत्पत्त्या मानपदेन विवक्षितमिथ्याशब्दार्थ विकल्पदूषणाभिधानमित्यर्थः ॥ एतदित्यनुवादः ॥ उक्तेति । पक्षीकृतभेद इत्यादिनोक्तस्थलेष्वित्यर्थः ।
यादुपत्यं
सत्वादिविकल्पानां दूषणाभिधानमित्यस्यान्तरं पूर्वग्रन्थार्थतया विवक्षितमिति शेषः ॥ विवचन इति । उक्तानुमानस्य भेदमिथ्यात्वसाधकत्वेऽपि मिथ्यात्वगतानिर्वचनीयत्वासाधकत्वादन्यस्य च तत्साधकप्रमाणस्य पूर्वमनुक्तत्वेनान्यन्मानं मानान्तरमित्यर्थस्यात्रासम्भवादिति भावः ।
वाक्यार्थरत्नमाला
मानान्तरत्वसम्भवेऽपीति । अनिर्वचनीयत्वसाधकतया निराकरिष्यमाणप्रत्यक्षादेरिति शेषः । आहेति । ततश्च प्राङ्मिथ्यात्वधर्मतया विकल्पितपक्षेष्वनिर्वचनीयत्वस्य साधकं प्रत्यक्षादिकं मानान्तरं नाम मानवि एव न पुनरन्यन्मानं विवक्षितमिति नानुपपत्तिरित्यर्थः । भेदप्रपंचादिष्विति । पक्षीकृतभेद इति पूर्वमूलवाक्ये यदा भेदमिथ्यात्वस्येत्युत्तरवाक्यानुसारेणोपलक्षणया भेदमिथ्यात्वस्यापि ग्रहणमभिप्रेतमित्यतोऽत्राप्यादिपदेन भेदमिथ्यात्वं ग्राह्यमिति ज्ञेयम् । एतन्मूलटीकयोरर्थः पुनः संशोध्योऽस्ति ।
अनुमानेन चेत्सैव ह्यनवस्था भविष्यति
अनुमानेन चेत्सैव ह्यनवस्था भविष्यति
सुधा
तत्कथमिति चेदित्थम् । कस्यचित्पदार्थस्यानिर्वाच्यत्वे प्रत्यक्षंवा प्रमाणमुच्यते अनुमानं वाऽर्थापत्तिर्वोपमानं वाऽभावो वेति मनसि विकल्पान्निधाय पराङ्गीकारप्राचुर्यानुरोधेनानुमानं तावदपाकरोति अनुमानेन चेदिति ।
अनुव्याख्यानम्
अनुमानेन चेत्सैव ह्यनवस्था भविष्यति ॥
विमतमनिर्वाच्यं बाध्यत्वादित्याद्यनुमानेन शुक्तिरजतादेरनिर्वाच्यत्वं साध्यते चेदनवस्था भविष्यति । कथम् । सैव हि अप्रसिद्धविणतापरिहारार्थानुमानपरम्पराद्वारिका प्रसिद्धैवेत्यर्थः । यदत्र वक्तव्यं तत्प्रथमसूत्र एवास्माभिरभिहितम् ।
वाक्यार्थचन्द्रिका
बाध्यत्वादित्याद्यनुमानेनेति । आदिपदेन भ्रमविषयत्वादित्यादिव्यतिरेक्यन्तरपरिग्रहः । ननु सत्त्वासत्त्वे एकधर्मनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदित्यनिर्धारितधर्मिनिष्ठतया सामान्यतः सिद्धस्य सदसद्वैलक्षण्यस्य केवलव्यतिरेकिणा रजतधर्मिनिष्ठतयोपसंहारान्नाप्रसिद्धविणत्वमित्यत आह यदत्र वक्तव्यमिति ॥ प्रथमसूत्र एवेति । अनिर्वचनीयख्यातिनिरासावसर इति शेषः ।
परिमल
तत्कथमिति । मानान्तरेणानिर्वाच्यत्वसाधनमशक्यमित्येतत्कथमित्यर्थः । सैव हीत्यनुवादः । प्रसिद्धैवेत्यन्तं व्याख्या । ननु सत्वासत्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वाद् रूपरसवदित्यादितोऽप्रसिद्धिपरिहारसम्भवात् । नेदं दूषणमित्यत आह यदत्रेति । जिज्ञासाधिकरणे ‘वैलक्षण्यं सदसतोरप्येतेन निषिध्यते’ । इत्यादिव्याख्यानावसरे प्रमेयत्वादौ व्यभिचारादिदूषणं तस्याप्यनुमानस्योक्तमित्यर्थः । यद्वाऽनिर्वचनीयमित्यस्य सदसद्विलक्षणमित्यर्थः । तत्र च सिद्धसाधनत्वादिदूषणं ‘वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिन’ इत्यदिनोक्तमित्यर्थः ।
यादुपत्यं
नन्वप्रसिद्धिपरिहारार्थं सत्त्वासत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी इत्येव साध्यते न पुनरनिर्वचनीयमित्यतो नानवस्थेत्यत आह यदत्र वक्तव्यमिति । तत्रापि प्रमेयत्वादौ व्यभिचारादिकं दूषणं जिज्ञासाधिकरण उक्तमित्यर्थः ॥