इति मानस्य दूषणम्
अनुमानान्तरनिरासः (अभेदप्रतिपादकानुमानान्तर निराकरणम्)
इति मानस्य दूषणम्
सुधा
जीवो ब्रह्मणो न भिद्यते आत्मत्वाद्ब्रह्मवदित्यादावनुमानान्तरेऽप्येवमेव विकल्प्य दूषणान्तरमभिधातव्यमित्याह इति मानस्येति । यद्वाऽद्वैतवादिप्रयुक्तेषु विरुद्धविषयेषु सर्वेष्वपि अनुमानेष्वेवं साध्यं हेतुं च विकल्प्य दोषो वक्तव्य इत्यतिदिशति इतीति ।
वाक्यार्थचन्द्रिका
एवमेव विकल्प्येति । साध्यं हेतुं चेति शेषः । ब्रह्मभेदाभावः सन् किंवाऽसन् यद्वा सदसन्, आहोस्विद् अनिर्वचनीयः । नाद्यः । अपसिद्धान्तापातात् । न द्वितीयः । जीवब्रह्मभेदाभावस्यासत्त्वे जीवब्रह्मभेदस्य सत्त्वापत्त्याऽपसिद्धान्तापरिहारात् । अत एव न तृतीयः । सत्त्वासत्त्वपक्षोक्तदोषात् । न चतुर्थः । तस्याप्रामाणिकत्वेन प्रकारत्वायोगादिति साध्यं विकल्प्य दूषणम् । आत्मत्वं किं सत्किंवाऽसद्वा सदसदाहोस्विदनिर्वचनीयम् । आद्ये सदद्वैतभङ्गेन वादिमतेऽसिद्धिर्दृष्टान्तस्य साधनवैकल्यं च । द्वितीयतृतीययोर्द्वयोरप्यसिद्धिर्दृष्टान्तस्य साधनवैकल्यं च । चतुर्थे द्वैतवादिनोऽसिद्धिसाधनवैकल्ये स्यातामिति हेतुं विकल्प्य दूषणमभिधातव्यमित्यर्थः ॥ विरुद्धविषयेषु सर्वेष्वप्यनुमानेष्विति । विमतं मिथ्या दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाच्छुक्तिरजतादिवदित्यादिष्वित्यर्थः।
परिमल
विरुद्धविषयेष्विति । सिद्धान्तविरुद्धप्रमेयविषयेष्वित्यर्थः । मानस्येति जात्येकवचनमित्युपेत्योक्तं सर्वेष्विति ॥ दोषो वक्तव्य इतीति । स च विवृतो न्यायामृते ॥