साध्यधर्मोऽयं सन्नसन्वा न चोभयम्
अभेदानुमाननिराकरणम्
साध्यधर्मोऽयं सन्नसन्वा न चोभयम्
सुधा
दूषयितुं पृच्छति साध्येति ।
अनुव्याख्यानम्
… … साध्यधर्मोऽयं सन्नसन्वा न चोभयम् ॥
अयं जीवब्रह्मभेदस्य मिथ्यात्वलक्षणः । सन्निति स्वमतानुसारेण । ननु मिथ्यात्वं सच्चेत्तद्यस्य तदपि सत्स्यात् । न हि सम्भवति नास्ति धर्मी धर्मश्चास्तीति । तथा च वैपरी(त्यमेव)त्यम् । मैवम् । मिथ्यात्वं खल्वत्यन्ताभावप्रतियोगित्वं तच्च बुद्धिद्वारेणैव । अत्यन्तासतोऽपि प्रतीतिरङ्गीक्रियते । तथा च मिथ्यात्वमस्तीत्यस्य तत्प्रतियोगिकोऽत्यन्ताभावः सन्नित्यर्थः । न चात्र कोऽपि विरोधः ।
असन्वेति माध्यमिकमतानुरोधेन । न हि प्रतिवादिन्याश्वसोऽस्ति । येनासौ स्वमतमतिप(ती)त्य न वदेदिति निश्चिनुमः ।
उभयं न वेति प्रतिवादिमतानुसारेण । सदसद्विलक्षण इत्यर्थः । ननु सदसत्त्वमपि जैनादिरीत्या कुतो न विकल्पितम् । सदादिपक्षदूषणसाम्यादिति ब्रूमः ।
यद्वोभयं (वेति) चेति तृतीयः पक्षः । नेति चतुर्थः । उभयं न वेत्यर्थः ।
वाक्यार्थचन्द्रिका
स्वमतानुसारेणेति । तत्त्ववादिमते मिथ्यात्वस्य सत्त्वादिति भावः । स्वमते मिथ्यात्वस्य सत्त्वे तद्धर्मिणः शुक्तिरजतादेरपि सत्त्वप्रसङ्गान्न मिथ्यात्वस्य सत्यत्वमिति शिष्यः शङ्कते नन्विति । धर्मिणोऽसत्त्वेऽपि मिथ्यात्वस्य सत्त्वं किन्न स्यादित्यप्रयोजकत्वमाशङ्क्य परिहरति न हीति । अस्तु तर्हि तद्धर्मिणः शुक्तिरजतादेरपि सत्त्वमित्यतस्तर्हि सत्यत्वमिथ्यात्वयोरेकत्र विरुद्धत्वात्तन्मिथ्यात्वसिद्धान्तभङ्ग इत्याह तथा चेति । धर्म्यसत्त्वे धर्मासत्त्वनियमस्य धर्मिसत्तासापेक्षधर्मविषयत्वेन मिथ्यात्वस्य च तत्प्रतिकूलत्वेन रूपादिवत्तासत्तासापेक्षत्वाभावाच्छुक्तिरजतादेर्धर्मिणोऽसत्त्वेऽपि तद्धर्मस्य मिथ्यात्वस्य सत्त्वं नानुपपन्नमित्याशयवान्मिथ्यात्वस्य तत्प्रतिकूलतां दर्श(सूच)यितुं तत्स्वरूपमाह मिथ्यात्वं हीति ।
ननु प्रतियोगित्वमभावविरहत्वमभावावधित्वं वान्यस्यानिरूपणात्तदुभयमपि रूपादिवत्तद्धर्मिसत्तासापेक्षमेवेति कथं धर्मिणोऽसत्त्वे तत्सत्त्वमुपपद्यत इत्यतो नाभावविरहत्वं प्रतियोगित्वं सादृश्यपृथक्त्वादिप्रतियोगिन्यव्याप्तेः । नाप्यभावावधित्वं निरवधिकात्यन्ताभावप्रतियोगिन्यव्याप्तेः । किन्तु तज्ज्ञानहेतुज्ञानविविषयत्वम् । न च विषयत्वं तद्धर्मिसत्तासापेक्षमिति न तस्य धर्म्यसत्त्वे सत्त्वानुपपत्तिरित्याशयेनाह तच्च बुद्धिद्वारेणैवेति । नन्वसतोऽप्रतीतेः कथं तस्य तज्ज्ञानहेतुज्ञानविविषयत्वमपीत्यत आह असतोऽपीति । असद्वैलक्षण्यज्ञानानुरोधेनासतोऽपि शशशृङ्गादेः परोक्षज्ञानादिविषयत्वस्य सर्वसम्मतत्वादित्यर्थः ।
ननु नासति शशशृङ्गादौ परोक्षज्ञानादिविषयत्वमभ्युपगम्यते किं तर्ह्यसद्विषयकज्ञाने तद्विषयकत्वस्य सत्त्वमेवेति कथं धर्म्यसत्त्वेऽपि मिथ्यात्वस्य सत्त्वसमर्थामित्यतस्तर्ह्यत्रापि नासति प्रतियोगित्वस्य सत्त्वमस्माकं सम्मतं किन्त्वत्यन्ताभावे तत्प्रतियोगिकत्वमेवेति भावेन मिथ्यात्वस्य सत्त्वोक्तेः पर्यवसितमर्थं दर्शयन्नुक्ताक्षेपपरिहारमुपसंहरति तथा चेति । यद्वा तच्च बुद्धिद्धारेणैवेत्यस्यायमर्थः । न प्रतियोगित्वं घटरूपादिवत्तत्तद्वस्तुहेतुकृतं नापि पाकजरूपादिवद्बुद्धिहेतुभिन्नागन्तुकस्वहेतुकृतमभ्युपगच्छामो येन रूपादिवद्धर्मिसत्तासापेक्षं स्यात् । किन्तु बुद्धिहेतुकृतमेव । तथा च तादृशज्ञानसामग्य्रासादितायामत्यन्ताभावगोचरतत्प्रतियोगिकत्वप्रतीतौ प्रतियोगित्वेनोल्लिखितत्वमेव प्रतियोगित्वमिति न तस्य धर्मिसत्तासापेक्षतेति । प्रतीत्यगोचरस्यासतः कथं तत्प्रतियोगिकत्वप्रतीतौ प्रतियोगित्वेनोल्लिखितत्वमपीत्यत आह असत इति । पर्यवसितं निगमयति तथा चेति ॥ न चात्रेति । धर्मसत्त्वस्य धर्मिसत्तापेक्षकत्ववदत्यन्ताभावसत्त्वस्य प्रतियोगिसत्त्वानपेक्षकत्वादिति भावः । प्रतिवादिमतानुसारेण मायिमतानुसारेण । सम्भावककथनेन विधान्तरस्यापि सम्भाविततामुपदर्शयन्विकल्प्य न्यूनतामाशङ्कते नन्विति । सदसत्पक्षदूषणेनैव दूषितत्वात्पृथगविकल्पनमिति समाधत्ते सदादीति । अङ्गीकृत्य चैतदुक्तं वस्तुतस्तु पृथगविकल्पनमेवासिद्धमिति भावेन तत्सङ्ग्राहकतया विकल्पवाक्यं योजयति यद्वेति ।
परिमल
तथा च वैपरीत्यमेवेति । धर्मसत्वेन धर्मिसत्वस्याऽऽवश्यकत्वे सति भेदमिथ्यात्वस्य सत्वं भेदस्य सत्वमेवापादयेद् अतो मिथ्यात्वं सदिति पक्षोऽनुपपन्न एवेत्यर्थः । इति चेन्नेति शेषः । क्वचित्तु वैपरीत्यं मैवमित्येव पाठः ॥ बुद्धिद्वारेणेति । ज्ञानविषयतासम्बन्धेनासतोस्त्येवेत्यर्थः । नन्वसतो ज्ञानमेव नेत्यत आह अत्यन्तासतोऽपीति ।
यादुपत्यं
स्वमतानुसारेणेति । स्वमते धर्माणां सत्त्वान्मिथ्यात्वस्यापि धर्मत्वादिति भावः ॥ वैपरीत्यमिति । मिथ्यात्वापेक्षया वैपरीत्यं धर्मिभूते भेदे सत्यत्वं प्राप्तम् । ततश्च विरोध इति भावः ॥ बुद्धिद्वारेणेति । वैज्ञानिकसम्बन्धेनैव प्रतियोगित्वं तत्रास्ति, न वस्तुतः । प्रतियोगित्वस्य धर्मिसत्तानिरपेक्षत्वात् । अतो न विरोध इत्यर्थः । एवं प्रतियोगिप्राधान्यविवक्षया प्रयोगे प्रसक्तं विरोधं परिहृत्य निषेधप्राधान्यविवक्षया प्रयोगे विरोधप्रसक्तिरेव नास्तीत्याशयेनाह तथा च मिथ्यात्वमिति । अत्यन्तासतोऽपि प्रतीतिरङ्गीक्रियत इति वाक्यस्य पूर्वोत्तरवाक्याभ्यां सम्बन्धः । तेनात्र तथा चेति श्लिष्टमिति ज्ञातव्यम् । एवमव्याख्यायैकवाक्यतयैव व्याख्याने तच्च बुद्धिद्वारेणैवेत्यस्य न किञ्चित्कृत्यमस्तीति ज्ञातव्यम् ।
श्रीनिवासतीर्थीया
नन्वत्यन्ताभावप्रतियोगिनोऽत्यन्तासत्त्वात्कथं तद्विषयिणी बुद्धिः, असतोऽप्रतीयमानत्वादतो बुद्धिद्वारा प्रतियोगित्वं कथं युक्तं स्यादित्यत आह अत्यन्तासतोऽपीति ॥ अतिपत्य अतिक्रम्य ।
वाक्यार्थरत्नमाला
मिथ्यात्वं खल्वितीति प्रतीकोपादानपाठः । मिथ्यात्वं हीति मूले पाठान्तरात्तदनुसारेण तथैव प्रतीकोपादानमित्यप्याहुः । अनिर्वाच्यत्वसाधकनिषेधप्रतियोगित्वान्यथानुपपत्तिभङ्गीयनचाभावविरहत्वं प्रतियोगित्वमित्यादिन्यायामृतानुसारेणाशङ्क्य निराकरोति । ननु प्रतियोगित्वमित्यादिना । किं तु तद्ज्ञानेति । धर्मिज्ञानानन्तरं यत्र धर्मज्ञानं तत्र धर्मज्ञानहेतुज्ञानविषयत्वं धर्मिणोऽपीति धर्मं प्रति धर्मिणः प्रतियोगित्वापत्तिरित्यत उक्तं ज्ञानविशेषेति । उक्तस्थलीय यदिचतत्रेत्यादि असद्विलक्षणज्ञाने च तद्विषयकत्वमेव सत् । तर्हीहाप्यत्यन्ताभावे तत्प्रतियोगित्वमेवसन्न तु प्रतियोगित्वमित्यस्त्विति न्यायामृतानुसारेणाह । ननु नासतीत्यादिना । असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हीति जिज्ञासाधिकरणीयानुव्याख्याव्याख्यानरूपनन्वसतः कथं भाति भास्यत इत्यादिमूलव्याख्यानरूपबुद्धिहेतुकृतम् । न तु घटत्वादिवदिति टीकानुसारेण प्रकारान्तरमाह । यद्वेति । नहि प्रतिवादिनि प्रतिवादिमतानुसारेणेत्यादिना मूले प्रतिवादिवादिशब्दौ प्रयुक्तौ । यद्यपि मिथ्यैव भेद इत्युक्तानुमानप्रयोक्तुर्वादितया न प्रतिवादिता । प्रत्युत तत्ववादिन एव प्रतिवादित्वम् । तथा च वादिनीत्येव वाच्यमित्याभाति । तथाप्यत्र प्रतिवादित्वं तत्ववादिप्रतिपक्षित्वमेव विवक्षितम् । तच्च भेदमिथ्यात्वाक्षेपकरणादेव सिद्धम् । नत्वत्र मिथ्यात्ववादी वादी । तदुक्तानुमानदूषकश्च प्रतिवादीति प्राप्तं प्रतिवादित्वं विवक्षितम् । तथाविवक्षया प्रतिवादपदप्रयोगे निमित्तं तु वादिन्याश्वासो नास्तीत्येवोक्ते खडिति विरोधो न स्फुरति । प्रतिवादिपदेन तु विरोधः स्फुरतीत्येवंरूपम् । एवमुभयं न वेति प्रतिवादिमतानुसारेणेत्युत्तरवाक्येऽपि तत्ववाद्युक्तभेदसत्यत्वनिराकरणाश्रयप्रवृत्तस्य प्रतिवादित्वं तद्विरोधित्वरूपमेव विवक्षितमिति न दोषः । अत एव द्वयोरपीत्येतन्मूलटीकायां वादिप्रतिवादिनोरिति व्याख्यातम् । मूले द्वैतवादिन इति पूर्वत्रोत्तरत्र च द्वैतवादिन इत्युक्तया तदुभयानुसारेणोक्तक्रमेणोभयनिर्देशस्थले तत्ववादिन एव प्रतिवादित्वेनोक्तिलाभादिति द्रष्टव्यम् । सदसत्पक्षदूषणेनैवेति । सत्पक्षेऽसत्यपक्षे चोक्तं यद्दूषणं तेनैवेत्यर्थः ।
यदि सन्नपसिद्धान्तः
यदि सन्नपसिद्धान्तः
सुधा
आद्यं दूषयति यदीति ।
अनुव्याख्यानम्
यदि सन्नपसिद्धान्तः .. …..
यद्ययं साध्यधर्मः सन्नित्युच्यते तदा मायावादिनोऽपसिद्धान्तः स्यात् । न हि जीवब्रह्मणोर्भेदस्य मिथ्यात्वं ब्रह्म, येन तस्य सत्त्वेऽपि सदद्वैतवादिनो नापसिद्धान्तः स्यात् । ब्रह्मणो निर्विकल्पकत्वात् ।
द्वितीये दोषमाह स एवेति ।
अनुव्याख्यानम्
… ……. स एवासन्नितीरिते ॥
अपसिद्धान्त एव । मिथ्यात्वस्यासत्त्वे (अपि) सत्त्वमेव जीवब्रह्मभेदस्य स्यात् । न चासत् प्रमाणविषय इति तेषां पक्षः । अनेन सदसत्त्वपक्षोऽपि निरस्तो वेदितव्यः । अन्तिममपाकरोति नोभयं चेदिति ।
अनुव्याख्यानम्
नोभयं चेन्न सिद्धं तत् …….
तदुभयविलक्षणत्वं च जीवब्रह्मभेदमिथ्यात्वेऽन्यत्र वा क्वापि न सिद्धम् ।
वाक्यार्थचन्द्रिका
ननु भेदमिथ्यात्वस्य कुतो न ब्रह्मस्वरूपत्वमित्यतस्तस्य सोपाधिकत्वाद् भ्रमकालानिश्चितत्वाद्ब्रह्मणश्च निरुपाधिकत्वाद्भ्रमकालनिश्चितत्वाच्च तयोर्विरुद्धस्वभावत्वान्नाभेदो युक्त इत्याशयवान्विरुद्धस्वभावतामुपदर्शयितुमुपलक्षणत्वेन ब्रह्मणो निरुपाधिकतामाह ब्रह्मण इति ॥ सत्त्वमेव स्यादिति । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात्सत्त्वमिथ्यात्वयोश्च परस्परविरुद्धत्वात्तन्मिथ्यात्वस्यासत्त्वे भेदस्य सत्त्वं स्यात्तथा च सदद्वैतभङ्गो भेदस्य सोपाधिकत्वेन भ्रमकालानिश्चितत्वेन निरुपाधिकभ्रमकालनिश्चितब्रह्ममात्रत्वानुपपत्त्या तदतिरिक्तत्वावश्यम्भावादिति भावः । असतः प्रमाणाविषयत्वस्य त्वत्सिद्धान्तत्वान्मिथ्यात्वस्य प्रमाणविषयत्वेऽसतोऽपि प्रमाणविषयत्वापत्त्याऽपसिद्धान्त इति प्रकारान्तरेणाप्यपसिद्धान्तमुपपादयति न चेति ॥ अनेनेति । सत्त्वासत्त्वपक्षोक्तदूषणेनैवेत्यर्थः । अत एव पृथक् तददूषणमित्याशयः ।
परिमल
ननु मिथ्यात्वस्य सत्यत्वेऽपि तस्य ब्रह्मरूपत्वान्नाद्वैतभङ्ग इत्यत आह न हीति ॥ जीवेति । कुतो नेत्यत आह ब्रह्मणो निर्विकल्पत्वादिति । अखण्डत्वान्निष्प्रतियोगिकत्वादिति यावत् । मिथ्यात्वं सप्रतियोगिकमित्युक्तमेवेति भावः । द्वितीयपक्षेऽपसिद्धनातं द्वेधा व्यनक्ति मिथ्यात्वस्येति । न चासदिति च ॥ अनेनेति । अपसिद्धान्तदोषेणेत्यर्थः ।
यादुपत्यं
निर्विकल्पकत्वादिति । अत्र विकल्पशब्देनोपाधिरुच्यते । विविधकल्पनारूपत्वात् । तथा च ब्रह्म निरुपाधिकं, मिथ्यात्वं तु सोपाधिकमतस्तयोरभेदो न युक्त इत्यर्थः । प्रकारान्तरेणाप्यपसिद्धान्तमुपपादयति न चासदिति ॥ असन् मिथ्यात्वं, प्रमाणम् अनुमानं, अनेन अपसिद्धान्तेन । पक्षे इति । अत्र पक्षपदेन तदेकदेशो धर्मी लक्ष्यते । एवमग्रेऽपि । तथा च साध्यत्वाभावादित्यर्थः । अन्यथेति । व्यापककोटिनिविष्टस्य प्रसिद्धत्वाभावे, तन्निरूपितव्याप्तिग्रहणस्य सन्दिग्धसाध्यवत्वरूपपक्षत्वस्यासम्भवादित्यर्थः ॥
श्रीनिवासतीर्थीया
निर्विकल्पकत्वादिति । निर्धर्मकत्वादित्यर्थः । ब्रह्म निरुपाधिकं, मिथ्यात्वं तु सोपाधिकम् । सोपाधिकनिरुपाधिकयोश्चैक्यं विरुद्धमिति भावः ।
वाक्यार्थरत्नमाला
सामान्यतो मिथ्यात्वभङ्गीयन्यायामृतानुसारेणाह । परस्परविरुद्धयोरित्यादि । सत्वासत्वेति । सत्वपक्षासत्वपक्षोक्तेत्यर्थः ।