नानुमा च तदभेदं प्रमापयेत्
अनुमानेनाभेदसमर्थनम्
नानुमा च तदभेदं प्रमापयेत्
सुधा
इदानीं परपक्षं निराकरिष्यन्यदुक्तं श्रुतिभिश्चानुमाबलादिति श्रुतिसाचिव्येन अनुमानम्, तत्तावन्निराकर्तुमुपक्रमते नानुमा चेति ।
अनुव्याख्यानम्
…. नानुमा च तदभेदं प्रमापयेत् ॥
चशब्दः स्वपक्षसाधनपरपक्षनि(रसन)राससमुच्चयार्थः । प्रमापयेत् प्रमितं कुर्यात् । यद्वा जीवेश्वराभेदे परोपन्यस्तसमस्तप्रमाणनिरसनप्रतिज्ञेयम् । तथा च श्रुतिस्मृती चेति चार्थः ।
वाक्यार्थचन्द्रिका
चशब्द इति । स्वपक्षसाधनपरपक्षनिरसनयोर्मिलितयोरेव तत्त्वनिर्णयाङ्गत्वादिति भावः । अनुमा तदभेदं न प्रमापयेच्चेति भिन्नक्रमत्वमाश्रयणीयं भवतीत्यपरितोषाद्यथास्थितान्वयमाश्रित्यापि तदर्थमाह यद्वेति ।
यादुपत्यं
समुच्चयार्थ इति । तत्त्वनिर्णयरूपैकक्रियया सम्बद्धार्थ इत्यर्थः ॥
वाक्यार्थरत्नमाला
न प्रमापयेच्चेति भिन्नक्रमत्वमिति । एतद्विना स्वपक्षसाधनपरपक्षनिरसनयोः समुच्चयायोगेन समुच्चय इत्युक्तया तल्लाभादिति भावः ।