०१ सर्वम् ईशवशम्

ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ

॥ अथ व्यतिरेकाधिकरणम् ॥

सर्वम् ईशवशम्

ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ

सुधा

ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥ अत्र योगिनां स्वरूपेणैवानेकत्वमुपपाद्यते । तस्य च अविरोधश्चन्दनवदित्युक्तार्थोपपादकतया सङ्गतौ स्थितायाम् असम्भवस्तु सतोऽनुपपत्तेरिति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं तदुपपादकत्वेनापि सङ्गतिं ज्ञापयंस्तथा सूत्रं व्याचष्टे अच्छेद्यस्यापीति ।

अनुव्याख्यानम्

ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥

अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ॥

कृत्वा भोगान्प्रदायैव चैक्यमापादयेत्पुनः ॥

अत ईशवशं सर्वं चेतनाचेतनं जगत् ॥

भोगांश्चेति सम्बन्धः । ऐक्यमेवेत्येवशब्दान्वयः । ऐक्यम् एकरूपत्वम् । स्वरूपैक्यस्य विभागेऽपि सत्त्वात् । सर्वमीशवशम् । तथा च स एव स्वतन्त्र इति वाक्यशेषः ।

वाक्यार्थचन्द्रिका

ॐ व्यतिरेको गन्धवत्तथा हि दर्शयति ॐ ॥ अव्यवहितपूर्वाधिकरणेन सङ्गतिमनभिधाय व्यविहिताधिकरणेन तदभिधानादस्याधिकरणस्याव्यवहिताधिकरणस्य सङ्गत्यभावमाशङ्क्य, भवेदेतदेवं यद्यच्छेद्यस्येत्यादिभाष्यं व्यवहितमात्रसङ्गतिकथनपरं स्यात् । न चैवम् । अव्यवहितपूर्वाधिकरणोक्तार्थोपपादकतया तत्सङ्गतेरपि सद्भावात्किन्तु व्यवहितेनापि सङ्गतिरस्तीत्यभिप्रायकमेव । उभयसङ्गतत्वेऽप्यव्यवहितत्वादेव तदधिकरणसङ्गतेः स्पष्टज्ञानत्वादनुक्तिः । व्यवहितत्वाच्चासम्भवस्त्वित्यधिकरणेन सङ्गतेरस्पष्टज्ञानत्वादुक्तिरित्यतो न कश्चिद्दोष इत्यभिप्रेत्य सङ्गतिजिज्ञासोत्थापनाय एतदधिकरणप्रतिपाद्यं वदन्नेव तस्याव्यवहिताधिकरणसङ्गतिं च दर्शयन्नेव व्यवहितेनापि सङ्गतिरस्तीत्यभिप्रायकत्वं च भाष्यस्य सूचयन्नेव व्यवहितसङ्गत्युपदर्शनपरतया भाष्यं सङ्गमयति अत्रेति । स्वरूपेणैवेति । न त्वौपाधिकभेदेनेत्यर्थः ॥ उक्तार्थोपपादकतयेति । चन्दनदृष्टान्तेन जीवस्यांशतो देहव्याप्तिप्रतिपादनेन यत्तस्यानेकांशत्वं लब्धं तदुपपादकतयेत्यर्थः ॥ भोगांश्चेतीति । अनेन च ‘ऐक्यमापादयेदि’त्यत्रत्यचशब्दस्य न यथाश्रुतसम्बन्धः किन्तु भोगांश्चेत्येवंरूपेण भोगानित्यनेनैवेति न तस्य वैयर्थ्यमिति भावः । प्रदायैवेत्यत्रैवकारस्य वैयर्थ्यादिप्रसङ्गेन यथाश्रुतसम्बन्धानुपपत्तेस्तत्सार्थक्यं सूचयन् अपेक्षितसबन्धं दर्शयति ऐक्यमेवेति । ऐक्यशब्दस्य स्वरूपैक्यार्थताभ्रान्तिपरिहारायार्थमाह ऐक्यमेकरूपत्वमिति । ततश्च तस्यापाद्यत्वानुपपत्तेरतदर्थता ऐक्यशब्दस्येति भावः । भगवतः स्वातन्त्र्यस्यात्रानुक्तेर्न तदुपपादकत्वमस्येत्यतोऽपेक्षितपूरणेन स्वातन्त्र्योपपादकतामुपपादयति तथा चेति ।

परिमल

व्यतिरेको गन्धवत् ॥ योगिनामिति सौभरिप्रभृतीनाम् । स्वरूपेणैव न तूपाधिभेदेनेत्यर्थः । मूलोक्तदिशाऽसम्भवस्त्विति नयानन्तर्यप्रतीतिनिरासायाह उक्तार्थोपपादकतयेति । उत्क्रान्तिगत्यागतीनामिति पूर्वाधिकरणगुणसूत्रे चन्दनबिन्दुदृष्टान्तेन अंशतो व्याप्त्युक्त्या प्राप्तमनेकांशत्वं यत्तदुपपादकतयेत्यर्थः ।

यादुपत्यम्

ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥ स्वरूपेणैवेति । नोपाधिभेदेनेत्यर्थः ॥ उक्तार्थेति । चन्दनदृष्टान्तेन जीवस्यांशतो देहव्याप्त्यभिधाने यत्तस्यानेकांशत्वं लब्धं तदुपपादकमेतदधिकरणमिति सङ्गतौ स्थितायामित्यर्थः ॥ २३१३ ॥

श्रीनिवासतीर्थीया

ॐ व्यतिरेको गन्धवत्तथा च दर्शयति ॐ ॥ व्याख्याने निमित्तमाह स्वरूपैक्यस्येति । तत्रैव अच्छेद्यं छित्वा भोगं प्रदाय पुनरेकतासम्पादन एव ॥ २३१३ ॥

वाक्यार्थरत्नमाला

॥ व्यतिरेको गन्धवत्तथाहि दर्शयति ॥

अव्यवहिताधिकरणस्य सङ्गत्यभावमाशङ्क्येति । अव्यवहिताधिकरणसङ्गत्यनभिधानप्रयुक्तसङ्गत्यभावशङ्कायां तत्परिहारायेत्यर्थः । तेन सङ्गत्यभावमिति द्वितीयोपपत्तिः । इत्याशङ्क्येत्यर्थः । आपाद्यत्वेति । आपादयेदित्युक्तापाद्यत्वेत्यर्थः ।