०७ अव्याकृताकाशो नोत्पत्तिमान्

अव्याकृतं हि गगनं साक्षिगोचरम्

अव्याकृताकाशो नोत्पत्तिमान्

अव्याकृतं हि गगनं साक्षिगोचरम्

सुधा

नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्यात्र पुनस्तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आह अव्याकृतमिति ।

अनुव्याख्यानम्

…….. अव्याकृतं हि गगनं साक्षिगोचरम् ।

यतोऽव्याकृतमेव गगनं नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः । तस्यानुत्पत्तौ हेत्वन्तरमप्याह नित्यं हि तदिति । न चैतदसिद्धम् । विनाशकारणाभावात् । न हि कारणान्तरमनपेक्ष्येश्वरेच्छा विनाशहेतुर्दृष्टा । उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेन्न । तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् । अवश्यं चैतदेवम् । आत्मन आकाशः सम्भूत इत्यादेर्भूतप्रकरणत्वात् । नन्वव्याकृताकाशे प्रमाणमेव नास्ति । कस्यानुत्पत्तिरुच्यत इत्यत उक्तं साक्षीति । तत्कथमित्यत आह प्रदेश इति ।

अनुव्याख्यानम्

***प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् । ***

नन्वेतदेव भूताकाशमिति चेन्न । रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात् । किञ्चोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधोऽप्याकाशद्वैतमवगमयति । व्यवस्थयाऽविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात् । न च प्रदेशस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक् । ननु सूत्रकृतैव गौण्यसम्भवादित्युक्तम् । सत्यम् । व्याख्यातं तद्भाष्यकृता । विवृतं चास्माभिः ।

वाक्यार्थचन्द्रिका

भूततदभिमानिविषयत्वेनेति । न चैवमाकाशपदेन भूताकाशतद्देवता उच्यन्त इति टीकया विरोधः स्यदिति वाच्यम् । तत्र पराधीनविशेषावाप्त्यादिरूपोत्पत्तिसामान्यस्यैवाभिप्रेतत्वेन तथोक्तिसम्भवादत्र त्वभूत्वाभवनरूपोत्पत्तिविस्यैवाभिप्रेतत्वेन द्वयोरेव ग्रहणस्य न्याय्यत्वात् । न चैवमभिमानिनोऽपि ग्रहणं न स्यादभूत्वाभवनरूपोत्पत्तेस्तत्र बाधितत्वादिति वाच्यम् । अभिमानिशब्दने तद्देहस्य विवक्षितत्वादित्याशयात् ॥ रूपित्वारूपित्वेत्यादि । अयं भावः । प्रदेशरूप आकाशो नीरूपः साक्षिसिद्धश्च । अन्यथाऽवकाशवति गेहेऽन्धकारादौ हस्तचलनादिकं न स्यात् । भूताकाशं तु ‘भूतमप्यसितं दिव्यदृष्टिगोचरमेव त्वि’ति श्रुत्या रूपवदप्रत्यक्षं च । एवं भूताकाशं ‘सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः । पञ्चभूतात्मके देह’ इत्यादिस्मृतिभिर्देहाकारेण विकारि । ‘आत्मन आकाशः सम्भूत’ इत्यादिप्रकरणानुगृहीतश्रुतिभि‘स्तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् । शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगमि’त्यादिस्मृतिभिश्च तामसाहङ्कारकार्यत्वाव्द्याकृतम् । अवकाशस्तु कूटस्थनित्यत्वेन साक्षिसिद्धत्वादव्याकृतः । एत्तं ‘एतदण्डं विशेषाख्यं क्रमाद्रृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतमि’त्यादिस्मृतिभिर्भूतं परिच्छिन्नम् । प्रदेशस्तु ‘आकाशवत्सर्वगतश्च नित्यः’ । ‘स यथाऽनन्तोऽयमाकाश’ इत्यदिश्रुतिभिरपरिच्छिन्न इति । उपलक्षणं चैतत् । ‘मृतिकाले जहत्येनं प्राणाभूतानि पञ्च च । भागशो भागशस्त्वेनमनुगच्छन्ति सर्वश’ इत्यादिस्मृतिभिर्भूतं गत्यादियोग्यभागवत् । प्रदेशस्तु न गत्यादियोग्यभागवान् । न हि प्रदेशवि एतद्देशं त्यक्त्वा देशान्तरं गच्छतीत्यतोऽपि वैलक्षण्यं बोध्यम् । श्रुतीनामिति बहुवचनमाद्यर्थे श्रुत्यादीनामित्यर्थः ॥ उत्पत्त्यनुत्पत्तिश्रुत्योरिति । ‘आकाशो नीलिमोदे’‘त्यनादिर्वा अयमाकाश’ इति चाकशोत्पत्त्यनुत्पत्तिश्रुत्योरित्यर्थः । नन्वनादिर्वा अयमाकाश इत्यनुत्पत्तिश्रुतेरनादिरिवेत्यनादिरित्यौपचारिकत्वेनाप्युपपन्नत्वान्न श्रुतिद्वयविरोधेनाकाशद्वैतसिद्धिरित्यित आह व्यवस्थयेति ॥ न चेति । नापीत्यर्थः ॥ प्रागिति । उपादानाभावात्प्रागभावाभावाच्च न प्रदेशस्योत्पत्तिरिति ‘अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथे’त्यादिना प्रागुक्तमित्यर्थः । ननु गौण्यसम्भवादित्यादिना सूत्रकृतैवानादिरिवेत्यनादिरित्यनादित्वश्रुतेर्गौणत्वस्योक्तत्वात्तदनङ्गीकारेण व्यवस्थया श्रुतिद्वयविरोधाभिधाने तत्सूत्रविरोधः स्यादिति शङ्कते नन्विति । ननु भाष्येऽपि गौणीत्येवोक्तत्वान्न विवक्षितसिद्धिरित्यत आह विवृतं चेति । ‘आकाशपदेन भूताकाशतद्देवता उच्यन्ते । तत्र भूतं स्वरूपत एवोत्पद्यते । रूपित्वात् । नीलिमोदेतीति श्रुतेश्च । तदभिमानिनोऽपि शरीरोत्पत्तिद्वराऽस्त्येवोप्तत्तिः । अवकाशतदभिमानिनोरप्यस्ति पराधीनविशेषावाप्तिलक्षणोत्पत्तिरिति सर्वविषयत्वादुत्पत्तिश्रुतिर्मुख्यार्थाऽनादित्वश्रुतिस्तु न सर्वविषयेति भवति गौणी । भूते कथमप्यवृत्तेति’त्यदिना टीकायामसर्वविषयत्वेन गौणत्वस्यैव सूत्रार्थतया विवरणेनानादिरिवानादिरित्येवंरूपानादित्वस्य सूत्रकारानभिप्रेतत्वान्न तद्विरोध इति भावः ।

परिमल

ईश्वरेच्छैव विनाशकारणमस्त्वित्यत आह न हि कारणान्तरेति ॥ तदपीति । ईश्वरेच्छामात्रस्य विनाशहेतुत्वमपीत्यर्थः । तत्र कल्पकोक्तिर् उत्पत्तिश्रुतेरिति । सम्भूतश्रुतिबलादित्यर्थः । नन्वाकाशस्यैकत्वेऽप्युत्पत्तिमुपेत्यानुत्पत्तिश्रुतेश्चिरन्तनत्वाभिप्रायेणौपचारिकत्वं कल्प्यतामित्यत आह व्यवस्थयेति ॥ न च प्रदेशस्योत्पत्तिरिति । उत्पत्तिश्च नोपपद्यत इत्युक्तं ‘कथमुत्पद्यतेऽन्यथे’त्यादावित्यर्थः । ननु सम्भूतादिवाक्यस्थाकाशपदस्य भूताकाशप्रदेशरूपद्विविधाकाशपरत्वं स्वीकृत्योभयोरपि जनिमङ्गीकृत्य अनादिर्वा अयमाकाश’ इति श्रुतिस्थाकाशपदस्यापि तदुभयार्थत्वमुपेत्यानादित्वश्रुतेर् भूते छत्रिवल्लक्षणा वा चिरन्तनत्वेन गौणी वा भूतेतरपरत्वेनामुख्यार्था वेत्युक्तं सूत्रे । इह तूच्यते सम्भूतवाक्यं भूतपरमेव । अनादिवाक्यमवकाशपरमेवेति । तत्कथमिति भावेन शङ्कते ननु सूत्रकृतैवेति । उत्पत्त्यनुत्पत्तिश्रुतिद्वयस्थाकाशशब्दस्योभयाकाशवाचित्वं तदभिमानिवाचित्वं च उत्पत्तिश्रुतेः सर्वविषयत्वेन मुख्यार्थत्वम् । अनुत्पत्तिश्रुतेर् भूतेतरविषयत्वादिरूपेण गौणार्थत्वमित्येकं श्रुतिद्वयविरोधसमाधानम् । सितासिताकाशविषयतया भिन्नविषयत्वेनापरं विरोधसमाधानम् । तदुभयं न्यायविवरणेऽभिहितम् । तत्राद्यं भाष्यटीकयो(र्व्यक्तं)रुक्तम् । अन्त्यं त्वत्र विवृतम् । समाधिद्वयस्य टीकायामनुक्तिबीजादिकं चन्द्रिकायां व्यक्तम् ।

यादुपत्यं

तस्या भूततदभिमानविषयत्वेनेति । न चैवमाकाशपदेन भूताकाशतद्देवता उच्यन्त इति तत्त्वप्रकाशिकया विरोधः । तत्र पराधीनविशेषावाप्त्यादिरूपोत्पत्तिसामान्यस्याभिप्रेतत्वेन तथोक्तिसम्भवात् । अत्र चाभूत्वाभवनरूपोत्पत्तिविस्यैवाभिप्रेतत्वेन द्वयोरेव ग्रहणस्यावश्यकत्वादित्याशयात् । अभिमानिशब्देन तद्देहो विवक्षितः ॥ व्याख्यातं तद्भाष्यकृतेति । न गौणीत्यनेनाऽनादिरिवानादिरित्युपचाररूपाऽमुख्यवृत्तिर्विवक्षिता येन तद्विरोधः । किन्त्वनादित्वश्रुतिरुत्पत्तिश्रुतिवत्सर्वाकाशविषया नेत्येव विवक्षितमिति भाष्यकृता व्याख्यातमित्यर्थः । ननु भाष्येऽपि गौणीत्येवोक्तत्वात्कथमिदं भाष्यकृदभिप्रेतमिति ज्ञेयमित्यत आह विवृतं चास्माभिरिति । सर्वविषयत्वादुत्पत्तिश्रुतिर्मुख्यार्था अनादित्वश्रुतिस्तु न सर्वविषयेति भवति गौणी’ति तत्त्वप्रकाशिकायां विवृतमित्यर्थः । अत्र चशब्दाच्चेत्युत्तरसूत्रे भाष्योदाहृता भागशो ह्युत्पद्यन्त इति श्रुतिरेव मूलमित्यवगन्तव्यम् ।

श्रीनिवासतीर्थीया

ईश्वरेच्छैव विनाशकारणमिति चेत्तत्राह न हीति ॥ तदपीति । उत्पत्तिमतो विनाशनियमाद्विमाशे कारणान्तरमपि कल्पनीयमित्यर्थः ॥ २३१ ॥


तथाऽपि मूर्तसम्बन्धपरतन्त्रवियुक्

तथाऽपि मूर्तसम्बन्धपरतन्त्रवियुक्

सुधा

नन्वव्याकृताकाशस्योत्पत्त्यभावे मा भूदाकाशः सम्भूत इति विरोधः । इदं सर्वमसृजतेत्यादिश्रुतिविरोधस्तु भविष्यतीति चेन्न । तस्याभूत्वाभवनलक्षणोत्पत्त्यसम्भवेऽपि पराधीनविशेषाप्तिरूपोक्तिसद्भावादित्याह तथाऽपीति ।

अनुव्याख्यानम्

तथाऽपि मूर्तसम्बन्धपरतन्त्रवियुक् ।

खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ।

मूर्तसम्बन्धश्चासौ परतन्त्रविश्चेति विग्रहः । यदनादित्वेनोक्तं तदेव खमित्यर्थः । इदं सर्वमसृजतेति श्रुतिवाक्यं श्रुतिशब्दः ।

वाक्यार्थचन्द्रिका

मूले परतन्त्रवियुगित्येतावतैव पूर्तेर्मूर्तसम्बन्धेति विणवैयर्थ्यमित्याशङ्क्य कोऽसौ परतन्त्रो वि इत्याशङ्कापरिहाराय तद्विवरणार्थत्वान्मूर्तसम्बन्धेत्यस्य न वैयर्थ्यमित्यभिप्रेत्य तदनुरूपं विग्रहं दर्शयति मूर्तसम्बन्धश्चासावित्यादिना ।