यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत्
प्रलयेऽवश्यं भूताकाशाभावोऽभ्युपगन्तव्यः
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत्
सुधा
द्वितीयेऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते उतानङ्गीकृत्य । प्रथमे यस्य कस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा सर्वस्य वा विवक्षिता । नाद्यः । तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात् । द्वितीयं दूषयति यदीति ।
अनुव्याख्यानम्
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥
सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्त्यङ्गीकारे प्रलयेऽवश्यं तदभावोऽभ्युपगन्तव्यः स्यात् । अत्यन्तसतो जन्मासम्भवात् । यदि च सृष्टेः पूर्वं प्रलयेऽनाकाशता सर्वस्य मूर्तद्रव्याभावस्याभावो ऽङ्गीक्रियते । तर्हि किं तदा मूर्तनिबिडं जगदङ्गीक्रियते । एतदेव स्पष्टयति मूर्तेति ।
अनुव्याख्यानम्
मूर्तसम्पूर्णता चैव यद्यनाकाशता भवेत् ।
यद्युक्तलक्षणाकाशाभावः प्रलये भवेत्तदा मूर्तसम्पूर्णता भवेदेव । अभावाभावस्य भावानतिरेकात् । तव्द्याप्तत्वाद्वा । चशब्दोऽनुक्तसमुच्चयार्थः । सृष्ट्युत्तरकालं मूर्तमात्रं च न स्यात् । एवं च सर्गप्रलयविपरिवर्तः स्यात् । अधिका च प्रलये मूर्तसम्पूर्तेरापत्तिः । मूर्तद्रव्याभाव एवाकाशो न ततोऽतिरिक्तोऽस्तीति द्वितीयं निराकरोति मूर्तद्रव्याणीति ।
अनुव्याख्यानम्
मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥
तदभावश्चेति चार्थः । यो मूर्तद्रव्याणि तदभावांश्चाङ्गीकरोति तेनावश्यं तदतिरिक्ताकाशोऽङ्गीकर्तव्य एव । यस्मात्तानि सर्वदाऽऽकाशे स्थितानि तेनेति योजना ।
वाक्यार्थचन्द्रिका
द्वितीय इति । मूर्ताभाव एवाकाशपदेन विवक्षित इति द्वितीय इत्यर्थः ॥ किं प्रदेशरूपमाकाशमङ्गीकृत्येत्यादि । अत्र मूर्ताभाव आकाश इत्युक्तेर्निरवधारणत्वाभिप्राये तया मूर्ताभावस्याकाशत्वप्राप्तावपि तदतिरिक्तप्रदेशस्याकाशत्वव्यावृत्तेरप्राप्तत्वादाद्यपक्षलाभः । सावधारणत्वे च प्रदेशस्याकाशत्वव्यावृत्तेर्लाभाद्वितीयपक्षस्य लाभ इति द्रष्टव्यम् । यद्वा स्वमतेनायं वदतीति परस्य परस्मिन्ननाश्वासात्सम्भाविततयाऽऽद्यपक्षस्य पराभ्युपगततया द्वितीयपक्षस्य प्रसक्तिरिति द्रष्टव्यम् ॥ प्रत्यक्षादिसिद्धत्वेनेति । ततश्चाधिकरणारम्भप्रयोजकीभूतसंशयाभावान्न तद्विषयतयैतदधिकरणारम्भ इति भावः ॥ सृष्टाविति । सृष्टिकाल इत्यर्थः । इष्टापत्तिं परिहरति यदि चेति । किं मूर्तनिबिडं जगदित्युक्तस्यैव मूर्तसम्पूर्णतेत्युत्तरवाक्येन प्रतिपादनात्पौनरुक्तयमाशङ्क्य परिहरति एतदेव स्पष्टयतीति । आपाद्यस्वरूपस्य पूर्ववाक्ये निष्कृष्यानुक्तत्वात्किमनेनापादितं भवतीत्याशङ्कापरिहारः स्पष्टनस्य प्रयोजनमिति भावः । प्रलये मूर्तद्रव्याभावाभावसद्भावेऽपि कुतो मूर्तसम्पूर्णताप्राप्तिरित्यतो नेयङुवङ्स्थानाविति निषेधस्यास्त्रीत्यस्य नदीसंज्ञाविधित्वदर्शनाद्दर्शनबलेन निषेधनिषेधस्य भावताया ‘निषेधस्य निषेधोऽपि भाव एव बलाद्भवेदि’त्यादिना तृतीयस्य तृतीये व्यवस्थापितत्वेन मूर्तद्रव्याभावाभावस्य मूर्तद्रव्यत्वप्राप्तेर्युक्ता प्रलये मूर्तसम्पूर्णताप्राप्तिरित्याशयेनाह अभावाभावस्य भावानतिरेकादिति ॥ तव्द्याप्तत्वाद्विति । एतन्मते च तृतीयाभावस्य प्रथमाभावत्वान्नानवस्थेति भावः । अनुक्तसमुच्चयमेव दर्शयति सृष्ट्युत्तरकालं चेति । स्थितिकाल इत्यर्थः । मूर्तद्रव्याभावस्यैव तत्र सत्त्वादिति भावः । प्रागुक्तप्रसङ्गद्वयेऽपीष्टापत्तिं परिहरति एवञ्चेति । विपरिवर्तो व्यत्यासः । सर्गस्य प्रलयत्वं प्रलयस्य सर्गत्वमित्येवंरूप इत्यर्थः । बाधकान्तरं चाह अधिका चेति । सर्गापेक्षयेति शेषः । सर्गे कस्यचिन्मूर्तस्य कस्यचिन्मूर्तभावस्य च सत्त्वेन तत्र मूर्तसम्पूर्तेरभावादिति भावः ।
परिमल
द्वियेपीति । मूर्ताभाव एवाकाश इति पक्षेऽपीत्यर्थः । तस्या इति । घटादिध्वंसरूपाभावोत्पत्तेरित्यर्थः ॥ अधिकरणेति । न वियदश्रुतेरित्याद्यनेकसूत्रात्मकमधिकरणं तदुत्पत्तिप्रतिपादनार्थं नारभ्येत । अप्राप्ते शास्त्रमर्थवदिति न्यायादिति भावः । सृष्टाविति । सृष्टिकाले । मूलं योजयति यदि च सृष्टेरिति । अतिरेकमतेनाह तव्द्याप्तत्वाद्वेति । कुत आपत्तिरित्यत आह मूर्तद्रव्याभाव एवेति । अस्तीतीति शब्दो हेत्वर्थः । द्वितीयमिति । प्रदेशमनङ्गीकृत्येति पक्षमित्यर्थः । यद्वा मूर्ताभाव एवाकाशो न ततोऽतिरिक्तः प्रदेशो नामस्तीति द्वितीयमित्येकं वाक्यम् । हिशब्दार्थमाह यस्मादिति ।
यादुपत्यं
किं प्रदेशरूपमाकाशमङ्गीकृत्येति प्रदेशरूपाकाशो ऽव्याकृताकाशः । अयं विकल्पः ‘किं मूर्तनिबिडं जगदि’ति वक्ष्यमाणदोषे जगच्छब्देन तदाधारस्य प्रदेशस्यैव विवक्षणीयत्वमभिप्रेत्य अन्यथा तद्वाक्यार्थासम्भवादिति ध्येयम् । प्रत्यक्षादिसिद्धत्वेनेति । प्रत्यक्षादिसिद्धे च संशयाद्यसम्भवान्न तद्विषवतयैतदधिकरणारम्भो युज्यत इति भावः । सृष्टाविति । सृष्टिकाल इत्यर्थः ।
श्रीनिवासतीर्थीया
इदमुच्यत इति । प्रदेशरूपमव्याकृताकाशमङ्गीकृत्य मूर्ताभावरूपाकाशस्याभूत्वाभवनरूपजननं श्रुतिसूत्रयोर्वियदादिपदेन विवक्षितमित्युच्यत इत्यर्थः ॥ न ततोऽतिरिक्तोऽस्तीति । प्रदेशरूपव्याकृताकाशमनङ्गीकृत्य मूर्तद्रव्याभाव एवाकाश इत्युच्यत इति द्वितीयं पक्षं निराकरोतीत्यर्थः ।
वाक्यार्थरत्नमाला
परस्य पारस्मिन्निति । वादिनः प्रतिवादिनीत्यर्थः । निषेधस्यास्त्रीत्यस्येति । इयङुवङ्स्थानयोरीदूतोर्नदीसंज्ञायां निषिद्धायां स्त्रीशब्देऽपि तन्निषेधप्राप्तौ तत्परिहारायोच्यते । अस्त्रीति । स्त्रीशब्दे निषेधो नास्ति किं तु नदीसंज्ञा भवतीत्यर्थः । ततश्च अस्त्रीत्यस्य नदीसंज्ञाविधित्वदर्शनादित्यर्थः । एतच्च दृष्टोहि नेयङुवङ्स्थानाविति निषेधस्य अस्त्रीति निषेधो विधिरिति । निषेधस्य निषेधोऽपीति । विधैवेत्युपासनापादीयाधिकरणभाष्यव्याख्यानरूपमूलानुसारेणेति ज्ञेयम् । एतत्प्रपञ्चश्च टीकायां तत्रत्यायामेव ज्ञेयः । ननु अनतिरेकपक्षे अनवस्थाभावेपि व्याप्तत्वपक्षे अनवस्था स्यादेवेत्यत आह । एतन्मते चेति । पराधीनविशेषिता इत्यादिनेति पाठः ।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत्
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत्
सुधा
इदमुक्तं भवति । एकस्मिन् पतत्रिणि पतति द्वितीयेन पतत्रिणा कुत्र पतितव्यमिति वाच्यम् । यत्रासौ नास्ति तत्रेति चेत्तर्हि येनाधिकरणेनैकस्य पतत्रिणोऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमङ्गीकरणीयम् । स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः । किञ्चेह पक्षी नेह पक्षीति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथमपह्नोतुं शक्यते । अपि च किं मूर्तद्रव्यस्य प्रागभाव आकाशः किंवा प्रध्वंसो यद्वाऽत्यन्ताभावो ऽथवाऽन्योन्याभावः । न प्रथमद्वितीयौ । सृष्ट्युत्तरकाले निराकाशत्वप्रसङ्गात् । प्रागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राकाश बुद्धेरन्यत्र तदभावस्य चापत्तेः । न तृतीयः । क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः । न चतुर्थः । घटान्योन्याभावो हि पटस्तन्निष्ठो वेति तत्राकाशबुद्धिप्रसङ्गात् । मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्तर्हि उत्पततः पतत्रिणः केन संसर्गो येन तदभावस्याकाशत्वं स्यादित्यवश्याश्रयणीयः प्रदेश इति । तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरयुक्तेति सिद्धम् ।
वाक्यार्थचन्द्रिका
ननु मूर्तद्रव्याणां तदभावस्य चाकाशाश्रितत्वमेवासिद्धमिति न तेन तदुभयातिरिक्ताकाशस्याङ्गीकर्तव्यतासिद्धिरित्यत आह इदमुक्तं भवतीति ॥ कुत्र पतितव्यमिति । न तावद्यत्रासावस्ति तत्रैव पतनं सम्भवति । मूर्तानां सामानाधिकरण्यस्य बाधितत्वादिति भावः । मूर्ताश्रयतयाऽतिरिक्ताकाशसिद्धिमुपपाद्य मूर्ततदभावाश्रयतयाऽपि तत्सिद्धिमुपपादयति किञ्चेति ॥ कथमिति । तथा सति साक्षिप्रत्यक्षविरोधः स्यादिति भावः ॥ सृष्ट्युत्तरकाल इति । स्थितिकाले मूर्तद्रव्यस्यैव सत्त्वेन तत्प्रागभावप्रध्वंसयोस्तत्रासत्त्वादिति भावः ॥ अत्यन्ताभावानुपपत्तेरिति । सार्वदैशिकसार्वकालिकनिषेधस्यैवात्यन्ताभावत्वादिति भावः ॥ तत्राकाशबुद्धीति । पट आकाशः पटे आकाश इति वा न कस्यचिद्बुद्धिरस्तीति भावः । मूर्तद्रव्यस्य यः केनचित्संसर्गस्तदभाव एवाकाशो न तु तत्प्रागभावादिर्विवक्षित इति नोक्तदोष इति शङ्कते मूर्तद्रव्येति ॥ तर्हीति । अत्र किंशब्द आक्षेपे न केनापीत्यर्थः । तथा च प्रतियोगिनोऽप्रसिद्धत्वेन तदभावस्याप्यप्रसिद्धत्वं स्यादतो मूर्तद्रव्यसंसर्गाभावस्याकाशत्वं वदताऽवश्यं मूर्तद्रव्यस्य केनचित्संसर्गो वाच्यः । न चोत्पततः पतत्रिणो मूर्तेन संसर्गः सम्भवति । तत्र मूर्ताभावात् । अतोऽमूर्तेनैव संसर्गो वाच्यः स एव चास्माकमाकाश इति भावः । यद्वा मूर्तद्रव्यसंसर्गाभावस्यैवाकाशत्वे इह पतत्र्युत्पततीत्येवंरूपेण मूर्तद्रव्यस्योत्पततः पतत्रिणः संसर्गं निरूप्य तदभावस्याकाशत्वं त्वया वाच्यम् । न च तद्युक्तम् । इहपदार्थभूतस्य प्रदेशस्य त्वयाऽनङ्गीकारेणान्यस्य चेहपदार्थस्य तत्रास्भवेन पतत्रिणस्तेन सह संसर्गस्यैव निरूपयितुमशक्यत्वेन तदभावस्याकाशताया निरूपणायोगादिति भावः । केचित्तु किंशब्दः प्रश्ने । किं मूर्तेन किंवा तदितेरणेति । नाद्यः । तथा सति मूर्तस्यैव पतत्र्याधारत्वेन मूर्ताभावस्य तद्विरहात्तस्याकाशत्वासिद्धेः । नान्त्यः । अमूर्तस्यैव तदाधारत्वेन तस्यैवाकाशत्वात् । उक्तं चैतन्‘मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदे’त्याहुः ।
परिमल
सृष्ट्युत्तरकाल इति । स्थितिकाल इत्यर्थः। तदा प्रागभावप्रध्वंसयोरभावादिति भावः ॥
यादुपत्यं
हिशब्दार्थमाह किञ्चेह पक्षीत्यादिना ॥ सृष्ट्युत्तरकाल इति । स्थितिकाल इत्यर्थः । इदं च सर्वदेत्यस्य तात्प्रर्यकथनमित्यवगन्तव्यम् ।
श्रीनिवासतीर्थीया
पतत्रिणोऽभाव इति । यत्रासौ नास्तीत्यनेनोक्त इत्यर्थेः । परस्य च भाव इति । तत्र पतितव्यमित्यनेनोक्त इत्यर्थः । तदिति । भावाभावविणीभूतमधिकरणमित्यर्थः । अतिरिक्तं मूर्तद्रव्याभावातिरिक्तम् ॥ निराकाशत्वेति । सृष्ट्युत्तरकाले मूर्तपदार्थानामेव सत्त्वेन तत्प्रागभावप्रध्वंसयोरभावात्तद्रूपाकाशाभावेन निराकाशत्वप्रसङ्ग इत्यर्थः । मूर्तपदार्थप्रागभावप्रध्वंसयोरेवाकाशत्वे दूषणान्तरमाह प्रागभावेत्यादि । तथा च घटादिमूर्तपदार्थप्रागभावप्रध्वंसयोर्मृदाद्युपादान निष्ठत्वेन तत्रोपादाने आकाशसत्त्वप्राप्त्या मृदाद्युपादाने आकाशमस्तीति बुद्धेरापत्तेः । अन्यत्रानुपादाने आकाशो नास्तीति बुध्द्यभावस्य चापत्तेरित्यर्थः ॥ अत्यन्ताभावेति । त्रैकालिकाभावेत्यर्थः । अन्योन्याभावो धर्मिस्वरूपमित्यस्मन्मतानुसारेण पट इत्युक्तम् । तार्किकादिरीत्या तन्निष्ठो वा इत्युक्तम् ॥ तत्राकाशबुद्धीति । आद्यपक्षे पटेऽयमाकाश इति बुद्धिः स्यात् । द्वितीयपक्षे पटे आकाशोऽस्तीति बुद्धिः स्यदित्यर्थः । विशेषानविवक्षित्वा सामान्यमात्रं विवक्षितमित्याशयेनोत्पत्तिविनाशशीलोऽयं तुरीयाभाव इति पक्षमभिप्रेत्य वा शङ्कते मूर्तद्रव्येति ।
वाक्यार्थरत्नमाला
मूलेतत्रानुद्भूतेति । भूतपिशाचादिशरीरेषु विद्यमानमपि रूपादि नोद्भूतमित्यतो न तस्य चाक्षुषत्वमिति यद्युच्यत इत्यर्थः । अणुत्वं च महत्वंचेत्येतद्भाष्यसम्बन्धिमूलेपि इदमुक्तम् । साक्षिगोचरमित्ये तद्भाष्यप्रयोगः न तच्छब्दगोचर इति प्रयोगवदुपपाद्यः ।