०५ पराधीनविशेषावाप्तिरूपोत्पत्तिराकाशस्य

पराधीनविशेषिता

पराधीनविशेषावाप्तिरूपोत्पत्तिराकाशस्य

पराधीनविशेषिता

सुधा

इहाकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमिति केचिदास्थिताः । तन् निराकरिष्यन्स्वमतं तावदाह पराधीनेति ।

अनुव्याख्यानम्

…… पराधीनविशेषिता ।

इंद सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥

‘आत्मन आकाशः सम्भूतः’ ‘स इदं सर्वमसृजते’त्यादिश्रुतिं, विभक्तत्वादियुक्तिं चाश्रित्य यदिहाधिकरणे वियतो जनिमत्त्वमुदितं तत्पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम् । अपूर्वविशेषोपजनने हि विशिष्टाकारोपजनोऽवश्यम्भावी विशिष्टाकारश्च वस्तुस्वरूपाभिन्न इति तस्यैवासावुपजनो भवति । देवदत्तः शरीरी जातो विद्वान् जात इति, घटः संयुक्तो जातो विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण जननव्यवहारो दृश्यत एव ।

ननु परिणामवादे घटादेरप्येषैवोत्पत्तिर्यदवस्थितस्वरूपस्यैव मृदादेरप्याकारान्त(रावाप्तिः) रतापत्तिः । परैरपि परिणामवाद एवाङ्गीकृतो नारम्भवादः । अतो विवादाभावाद्य्वर्थोऽयमारम्भः । यथा न व्यर्थस्तथाऽऽचार्य एव विवादविषयं स्पष्टयिष्यति ।

अत्र ‘इदं सर्वं ससर्जे’ति श्रु(त्याद्युदा)त्युदाहरणं श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम् । यच्च वियत्पदं प्रकृत्याद्युपलक्षणपरमित्यभिप्रेतं तत्रोक्तरीत्योपपत्तिसूचनार्थं चेति ।

वाक्यार्थचन्द्रिका

केचिदिति । मायावादिन इत्यर्थः ॥ स्पष्टयिष्यतीति ‘स्थूलताभवः पूर्वशब्दविलोपश्चे’त्यादिनेति शेषः । अयमर्थः । द्विविधस्तावद्विकारो भवति विशेषावाप्तिर्विशेषिपरिवर्तश्च । तत्र विशेषावाप्तिर्नाम धर्मिणस्तादवस्थ्ये सति धर्ममात्रपरिवर्तः । अत एव न पूर्वशब्दविलोपो नापि शब्दान्तरापत्तिः । यथा श्यामस्य फलस्य पीतत्वापत्तिः । तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वेऽपि फलव्यवहारानिवृत्तेः । श्यामत्वापगमेन सौरातपादिवशात्पीतत्वमुत्पद्यते विशेषिविपरिवर्तस्तु धर्मिस्वरूपस्यैव परिणामः । अत एव पूर्वशब्दविलोपः शब्दान्तरापत्तिश्च । यथा क्षीरस्य दधिभावो ऽत्र हि न धर्मिणस्तादवस्थ्यं दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात्किन्तुधर्मिभूतं क्षीरमेवातञ्चनादिवशाद्दधिभूतम् । अत एव तत्र पूर्वशब्दविलोपः शब्दान्तरापत्तिश्च । तत्र धर्मिणस्तादवस्थ्ये सति धर्ममात्रपरिवर्तरूपविकारस्याकाशेऽस्माभिरङ्गीकृतत्वेऽपि घटादिसाधारणो यो धर्मिस्वरूपस्यैव परिवर्तरूपो विकार आकाशे परेणाभ्युपगम्यते, नासावस्माकं तत्र सम्मत इति स एव विवादविषय इति ॥ उक्तरीत्येति । प्रतिज्ञाहान्यादीनामत्रापि साम्यादित्युक्तरीत्येत्यर्थः ।

परिमल

अपूर्वविशेषोपजनन इति । अपूर्वविशेषोत्पत्तावित्यर्थः ॥ स्पष्टयिष्यतीति । ‘जन्म न स्थूलताभवः । पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यत’इत्यादिना बदरफलादेः पीतत्वापत्तिरूपः परिणाम उपेयते । क्षीरादेर् दधित्वापत्तिरूपपरिणामो ऽपेयते स एव विवादविषय इति स्पष्टयिष्यतीति भावः ॥ उक्तरीत्येति । प्रतिज्ञाहान्यादीनामत्रापि साम्यादित्याद्युक्तरीत्येत्यर्थः ।

यादुपत्यं

केचिदिति । सङ्करादय इत्यर्थः ॥ विवादाभावादिति । आकाशे घटादिसाधारणोत्पत्तेरेव भवद्भिरप्यङ्गीकार्यत्वादिति भावः ॥ स्पष्टयिष्यतीति । ‘स्थूलताभवः । पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यत’ इत्येत्रेति शेषः । द्विविधः परिणामो धर्मिणस्तादवस्थ्ये धर्ममात्रपरिवर्तो धर्मिस्वरूपस्यैव परिवर्तश्चेति । तत्राद्यः श्यामस्य फलस्य पीतत्वापत्तिरूपः । द्वितीयस्तु क्षीरादीनां दधित्वाद्यापत्तिरूपः । तत्राद्यस्य परिणामस्याकाशेऽस्माभिरङ्गीकृतत्वेऽपि घटादिसाधारणो यो द्वितीयः परिणाम आकाशे परेणोच्यते सोऽस्माकं तत्र न सम्मत इति स एव विवादविषय इति स्पष्टनं तत्राभिप्रेतमिति द्रष्टव्यम् ॥ उक्तरीत्येति । प्रतिज्ञाहान्यादीनामत्रापि साम्यादित्याद्युक्तरीत्येत्यर्थः ।

श्रीनिवासतीर्थीया

उपजनो जन्म, तस्यैव वस्तुन एव । असौ विशिष्टाकारस्योपजनः । श्रुत्यादावुक्तं जन्म एवमेव व्याख्येयमित्यन्वयः ।

वाक्यार्थरत्नमाला

पराधीनविशेषाप्तिरनिवर्त्योऽन्यथाभाव इत्येतत्प्रकृत्यधिकरणीयानुव्याख्यान व्याख्यानरूपमूलानुसारेणाह । द्विविधस्तावदित्यादिना । आतंचनादीति पाठः । पराधीनातिशयलाभेति । अनेन विमिता विशेषिता इति विग्रहो दर्शितो भवति । नन्वेवं विग्रहपक्षे विशेषेता इत्यापद्यत इत्याशङ्का तारकादिभ्य इतजित्यनेन सूत्रेणेतच्प्रत्यये तारकितं युषितमित्यादिवद्विशब्दात्तद्धिते इतच्प्रत्यये यस्येति चेत्यकारलोप विशेषिता इति भवति । एतच्च अनारोपितं तत्वमिति तत्वसङ्ख्यानटीकास्थतत्वलक्षणोपपादनावसरे वृत्तमस्माभिः ।