प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः
आकाशादीनामप्युत्पत्तिः
प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः
सुधा
ॐ न वियदश्रुतेः ॐ ॥ अत्राधिकरणेऽनादिर्वाऽयमाकाश इत्यादिश्रुतीनां गौणत्वमात्मन आकाशः सम्भूत इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता । तत्र वियत्पदं नाकाशमात्रपरं किन्नाम । अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थं ज्ञातव्यमित्याशयवानाह प्रकृतिरिति ।
अनुव्याख्यानम्
ॐ न वियदश्रुतेः ॐ ॥
प्रकृतिः पुरुषः कालो वेदास्तदभिमानिनः ।
महदाद्याश्च जायन्ते …….
प्रकृतिर् अचेतना पुरुषो जीवस् तदभिमानिनः प्रकृत्याद्यभिमानिनः । महदाद्या इति महदहङ्कार मनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्राण्युच्यन्ते । प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाह जायन्त इति । अयमभिसन्धिः । न तावत्प्रकृत्यादयो जन्मरहिता एवाभ्युपग(म्यत)ता इति युक्तम् । ‘प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः’ ‘यावद्विकारन्तु विभागो लोकवदि’त्युक्तानां प्रतिज्ञाहान्यादीना मत्रापि साम्यात् । अन्यथा तेषामनैकान्तिकत्वापातात् । नाप्यविगीतजन्मानः । श्रुतिविगानस्य दर्शितत्वात् । न चाधिकरणान्तरं तत्परमस्ति । तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम् । मातरिश्वप्रभृतिषु पुनरधिकाशङ्कानिरासायाधिकरणान्तरारम्भ इति ।
वाक्यार्थचन्द्रिका
ॐ न वियदश्रुतेः ॐ ॥ इत्यादिश्रुतीनामित्यत्रादिशब्देन ‘यावद्ब्रह्म विष्ठितं तावती वागि’त्यादिश्रुतेः परिग्रहः । ननु महदादीनामनित्यतया प्रसिद्धत्वान्नोक्तश्रुतिविगानविषयत्वमभ्युपगन्तुं शक्यमित्यत आह महदाद्या इतीत्यादि । सूक्ष्मशब्दः पूर्वेणोत्तरेण च सम्बध्यते । तथा च महदादिभूतान्तानां यान्युपादानरूपाणि सूक्ष्माणि यानि च सूक्ष्मभूतानि तन्मात्राणि तान्येवात्र महदादिशब्दवाच्यतया विवक्षितानि, तेषां च प्रकृतिशब्दवाच्यत्वादुक्तश्रुतिविगानविषयत्वमुपपन्नमेव । प्रकृत्याद्यभिमानिनामपि श्रौतप्रकृत्यादिपदवाच्यतया विवक्षितत्वादुक्तश्रुतिविगानविषयत्वमेवेत्यवगन्तव्यम् । ननु प्रकृत्यादीनां जन्मराहित्यस्यैव वा जन्मवत्त्वेऽप्यविगीतजन्मत्वस्य वा विगीतजन्मत्वेऽपि वाऽधिकरणान्तरेणैव तेषां भगवज्जन्यत्वसिद्धिसम्भवाद् वियत्पदस्याकाशमात्रपरत्वस्यैवोपपन्नत्वान्न प्रकृत्याद्युपलक्षणत्वमाश्रयितुं युक्तम् । उपलक्षणत्वे च मातरिश्वप्रभृतीनामपीहैवाधिकरणे भगवज्जन्यत्वस्य निश्चितत्वात् ‘एतेन मातरिश्वे’त्यधिकरणान्तरानारम्भः स्यादित्यत आह अयमिति । इतीत्यस्येत्ययमिति पूर्वेण सम्बन्धः ॥
परिमल
ॐ न वियदश्रुतेः ॐ । भाष्यं सङ्गमयितुं प्रतिपाद्यमाह अत्राधिकरण इति । इत्यादिश्रुतीत्यादिपदेनाव्यक्तादिजन्मश्रुतिग्रहः । श्रुतावात्मेति परमात्मोच्यते अत आह परमात्मातिरिक्तानामिति । तस्य श्रुतिविगानविषयत्वेऽपि तन्निर्णयोऽसम्भवस्त्वित्यत्र सेत्स्यतीति भावः । भूतसूक्ष्मेतिसूक्ष्मपदं प्रत्येकमन्वेति । अनुपचितानि महदादीनीत्यर्थः । तन्मात्राणि शब्दस्पर्शादीनि ॥ अत्रापि साम्यादिति । प्रकृत्यादिष्वपीत्यर्थः । प्रकृत्यादेरजन्यत्वे ‘स इदं सर्वमसृजते’तिप्रतिज्ञाहानिः स्यात् । प्रकृत्यादेः सर्वपदनिर्दिष्टवस्त्वनतिरेकात् । न च सङ्कोचः । ‘आत्मा वा इदमेक एवाग्र आसीदि’त्याद्युत्पत्तिश्रुतिबाहुल्यात् । अल्पशक्तित्वाद्घटादिवद्वियदादिकं जायत इति वियदुत्पत्तावुक्तन्यायानां समानत्वादित्यर्थः ॥ तेषामिति । सर्वमसृजतेति सर्वसृष्टिप्रतिज्ञाविषयत्वबहूत्पत्तिश्रुतिविषयत्वाल्पशक्तित्वहेतूनाम् अव्यक्तादेरनुत्पत्तावेतस्मिन्नेवानैकान्त्यापातादित्यर्थः ॥ श्रुतीति । ‘अथ ह वा व नित्यानी’त्यादिश्रुतिविगानस्येत्यर्थः । महदादीनां प्रकृतिशब्दगृहीतत्वं यदि सूक्ष्मरूपे महदादिव्यवहारः स्यात् । किन्तु प्रकृतिरेवोच्यत इति ग्रन्थेन । तर्हि उत्तराधिकरणानां वैय्यर्थ्यमित्यत आह मातरिश्वेति । एतेन ‘ज्ञोऽत एवे’त्यादेरारम्भः समाहितः । तत्राप्यधिकाशङ्का तु चन्द्रिकायां व्यक्ता । इतिशब्दस्यायमभिसन्धिरिति पूर्वेणान्वयः ।
यादुपत्यम्
ॐ न वियदश्रुतेः ॐ । ‘पुरुषः प्रकृतिरात्मा काल’ इति श्रुतौ आत्मा परमात्मा, पुरुषो जीव इति ज्ञातव्यम् । ‘इत्यादिश्रुती’त्यत्रादिपदेन ‘यावद्ब्रद्म विष्ठितं तावती वागि’त्यादिश्रुतिर्ग्राह्या । ननु महदादीनामनित्यतया प्रसिद्धानां कथमुक्तश्रुतिविगानविषयत्वमत्राभिप्रेतमित्यत आह महदाद्या इतीत्यादि । सूक्ष्मशब्दः पूर्वेणोत्तरेण च सम्बध्यते । तथा च महदादिभूतान्तानां यान्युपादान रूपाणि सूक्ष्माणि यानि च सूक्ष्मभूतान्येव तन्मात्राणि तान्येवात्र महदादिशब्दवाच्यतया विवक्षितानि तेषां च प्रकृतिशब्दवाच्यत्वादुक्तश्रुतिविगानविषयत्वमुपपद्यत एवेति भावः । अत एव वक्ष्यति ‘श्रुतिविगानस्य दर्शितत्वादि’ति । प्रकृत्याद्यभिमानिनामपि श्रौतप्रकृत्यादिशब्दवाच्यतया विवक्षितत्वादुक्तश्रुतिविगानविषयत्वमित्यवगन्तव्यम् ।
श्रीनिवासतीर्थीया
ॐ न वियदश्रुतेः ॐ ॥ तेषां विभागादिहेतूनाम् ।
वाक्यार्थरत्नमाला
ॐ नवियदश्रुतेः ॥ एतदधिकरणादावभ्यधिकाशङ्कादिविषयविचारस्तत्रत्यतत्वप्रकाशिकाव्याख्यानेऽस्माभिः कृतो ध्येयः । वेदानादिनित्यत्वप्रतिपादकश्रुतिसङ्ग्राहकत्वेनाप्यादिपदं व्याख्याति । इत्यादीति । महदहङ्कारादीनामप्यनित्यत्वेनन प्रसिद्धत्वात्कथमनेन सूक्ष्मतन्मात्रातिरिक्तस्थले परिहार इत्यतोऽत्र सूक्ष्मपदस्य मध्ये दीपिकान्यायेनोभयत्रान्वयान्नानुपपत्तिरित्याशयेनाह । सूक्ष्मशब्द इति । मूले प्रकृतस्योत्पत्यसम्भवस्येति । पूर्वपादान्त्याधिकरणे उत्पत्यसम्भवः प्रतिपादितोऽत्र नेति प्रतिषेधप्रतियोगितयाऽन्वीयत इति भावः । अत्र वियदनुत्पत्तिमदिति भाष्योक्तार्थलाभोपपादनादिकं तत्वप्रकाशिकाव्याख्यानेऽस्माभिः कृतमस्ति ततः प्रतिपत्तव्यम् । अत्रापि लेख्यम् । आकाशमात्रपरत्वस्यैवोत्पत्तौ नेत्येव स्वरसः पाठः ।