अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम्
तृतीयपादीयपूर्वपक्षसिद्धान्तयुक्तयः
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम्
सुधा
एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्गृह्याह अनुभूतीति ।
अनुव्याख्यानम्
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।
एतत्सर्वं ततः साम्यं द्वारवैयर्थ्यमेव च ॥
दृष्टयुक्त्यनुसारित्वमुक्तान्यार्थाविरोधतः ।
प्रसिद्धनामस्वीकारो बहुवाक्यानुवर्तिता ॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।
तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥
उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने ।
नानाश्रुतिश्च वैचित्र्यं युक्तयः पूर्वपक्षगाः ॥
व्यवस्थाऽनुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।
अभीष्टासिद्धिसुव्यक्ती शास्त्रसिद्धिर्विपर्ययः ॥
विकारणं चेति सिद्धान्तस्यैव साधिकाः ।
परिमल
ॐ न वियदश्रुतेः ॐ । अनुभूतियुक्तिबहुवाग्वैलोम्यं पूर्वपक्षस्य युक्तिः । व्यवस्था सिद्धान्तस्य । एतेन मातरिश्वा । ततोधिकमेतत्सर्वम् । अनुपपत्तिश् चकाराव्द्यवस्था च । असम्भवस्तु । सतः साम्यं स्वातन्त्र्यम् । तेजोऽतः । ‘द्वारवैयर्थ्यम्’ । अनुसारिता । आपः । दृष्टयुक्त्यनुसारित्वम् । मुख्यता । पृथिव्यधिकारः । उक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारे बहुवाक्यानुवर्तिता । शक्तिमत्त्वम् । चकारादधिकारादीनां निरवकाशत्वं च । तदभिध्यानादेव तु । लोकदृष्ट्यनुसारित्वम् । वैरूप्यम् । विपर्ययेण तु लोकदृष्ट्यनुसारित्वम् । वैरूप्यम् । अन्तरा विज्ञानमनसी । लोकदृष्ट्यनुसारित्वम् । सर्वसङ्ग्रहः । नात्मा श्रुतेः । जीवसाम्यम् । सर्वसङ्ग्रहः । ज्ञोऽत एव । अनादिता । सर्वसङ्ग्रहः । उत्क्रान्तिगत्यागतीनाम् । तत्र तत्र परिज्ञानम् । गत्यादिः । व्यतिरेको गन्धवत् । गुणसाम्यम् । ईशशक्तिः । पृथगुपदेशात् । श्रुतिः । सर्वमानविरोधिता । यावदात्मभावित्वाच्च । उत्पत्तिमत्वम् । अभीष्टासिद्धिः । पुंस्त्वादिवत्वस्य । स्वगुणाननुभूतिः । सुव्यक्तिः । कर्ता शास्त्रार्थवत्वात् । अल्पकर्तृत्वकल्पनम् । शास्त्रसिद्धिः । अंशो नानाव्यपदेशात् । नानाश्रुतिः । विपर्ययः । अदृष्टानियमात् । वैचित्र्यम् । विकारणमिति पूर्वोत्तरपक्षयुक्तीनां विवेको ज्ञेयः ।
वाक्यार्थरत्नमाला
मूलेऽनुभूतियुक्तीत्याद्यनुव्याख्यानव्याख्यानाभावे निमित्तं तु लिङ्गं साधारणं शब्दाविति प्रथमतृतीयपादानुभाष्यमूलस्थैतच्चन्यायेत्येतट्टीकोक्तं ज्ञेयम् । तदनुव्याख्यानव्याख्यानं न्यायविवरणानुसारेण संगृह्य रघूत्तमस्वाभिः सम्बन्धप्रदीपाख्यग्रन्थे कृतमस्ति तत एव प्रतिपत्तव्यम् ।