स्वरूपनिर्णयायैव वचनानां परस्परम्
तृतीयः पादश्चतुर्थपादाद्भिन्नः
स्वरूपनिर्णयायैव वचनानां परस्परम्
सुधा
इदमुक्तं भवति । यद्यपि पादद्वये वेदवाक्यानां परस्परविरोध एव निरस्यते । तथाऽपि विषयभेदाद्भेदो भविष्यति । इहाधिदैवादिविषयवाक्यानां चतुर्थे त्वध्यात्मविषयाणामिति । न चैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिः । अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेर् इति । अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति ।
ननु च वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः । मिथो विरुद्धानां प्रामाण्यानिश्चयात्तत्प्रामाण्यनिश्चयार्थ इति चेन्न । एवं सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्वव्याघातादिति । उच्यते । ब्रह्मणोऽजगत्कारणत्वनिश्चयो ह्यजगत्स्वरूपनिर्णये तस्य कार्यत्वादिनिर्णये च सति स्यान्नान्यथा । न च तद्विषयाणां वाक्यानां मिथो व्याघाते तत्स्वरूपनिर्णयो भवति । अतोऽधिदैवादिवस्तुतत्वावधारणार्थ एवायं मिथो विरोधपरिहारः । तदिदमप्युक्तं स्वरूपनिर्णयायैवेति ।
अनुव्याख्यानम्
स्वरूपनिर्णयायैव वचनानां परस्परम् ।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥
ननु किं कतिपयवचनानामन्योन्यविरोधः परिह्रियते उत सर्वेषाम् । नाद्यः । वैयर्थ्यात् । तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात् । न द्वितीयः । वेदवाक्यानामनन्तत्वेन ज्ञातुमशक्यत्वादित्यत उक्तम् अमितद्युतिरिति । सर्वज्ञ इत्यर्थः ।
वाक्यार्थचन्द्रिका
नन्वेवमपि न चतुर्थपादाद्भेदसिद्धिः । अधिदैवाद्यनेकविषयत्वेनैकपादत्वानुपपत्तिश्चाधिकेत्यत आह इदमुक्तं भवतीति । विषयभेदमेव दर्शयति इहेति । इतीदमिति पूर्वेणान्वयः । ननु तथाऽप्यादावध्यात्मेतरविचारोऽनन्तरमध्यात्मविचार इति क्रमनियमे हेतोरभावात्पादक्रमो न स्यादित्यत आह अत्रापीति । अध्यात्मेतरविषयश्रुतिविरोधपरिहारज्ञानस्य पूर्वत्वमध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वमिति क्रमनियमेऽध्यात्मेतरविचारस्य बन्धमोक्षयोरन्तरङ्गत्वाभावरूपमध्यात्मविचारस्य तत्रान्तरङ्गत्वरूपं च हेतुं ‘तस्य सन्निहितत्वत’ इत्यदिना तृतीयस्य तृतीये आचार्य एव वक्ष्यतीत्यर्थः ॥ तर्कशास्त्रत्वप्रसङ्गेनेति । ‘प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रत’ इति वचनादिति भावः ।
परिमल
वक्ष्यतीति । ‘तस्य सन्निहितत्वत’ इत्यत्रोपासनापादेऽध्यात्मेतरविचारापेक्षया अध्यात्मविचारस्यान्तरङ्गत्वादित्येवं वक्ष्यतीत्यर्थः । मीमांसात्वव्याघातादिति । ‘प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः । मानन्यायैस्तु तत्सिद्धैर्मीमांसा मेयशोधनम् इति जिज्ञासासूत्रानुव्याख्यानोक्त्या मेयनिर्णायकत्वान्मीमांसाया इति भावः । पूर्वोत्तरपक्षयोर्न्यायविवरणे ग्रन्थकृतैव विवृतत्वादवतारिकामात्रमाह एतत्पादेति ।
यादुपत्यम्
अत्रापि क्रमनियम इति । आदावध्यात्मेतरविचार एव कर्तव्यः पश्चादध्यात्मविचार इति क्रमनियमेऽध्यात्मेतरविचारस्य बन्धमोक्षयोरन्तरङ्गत्वाभावरूपमध्यात्मविचारस्य तु तत्रान्तरङ्गत्वरूपं च हेतुं तस्य सन्निहितत्वत इत्युपासनापादे वक्ष्यतीत्यर्थः ॥ तर्कशास्त्रत्वप्रसङ्गेनेति । ‘प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रत’ इति वचनादिति भावः ।
वाक्यार्थरत्नमाला
शास्त्रत इति वचनादितीति । जिज्ञाधिकरणीयानुव्याख्यानवचनादित्यर्थः ।