ॐ न वियदश्रुतेः ॐ
अथ द्वितीयाध्यायस्य तृतीयः पादः
॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥
॥ अथ वियदधिकरणम् ॥
श्रुतिविरोधपरिहारः
ॐ न वियदश्रुतेः ॐ
सुधा
‘न वियदश्रुतेरि’त्यादि पादप्रतिपाद्यं ससङ्गतिकं दर्शयति अथेति ।
अनुव्याख्यानम्
अथासमाम्नायविरोधापाकृतिं प्रभुः
करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥
प्रभुः सूत्रकारः, अनेन व्याचिख्यासिततया बुद्धिसन्निहितेन तृतीयेन पादेन वैदिकानां वचनानां परस्परम् अविरोधं विरोधाभावं, दर्शयतीति प्रतिपाद्यकथनम् । अस्यान्तर्भावलक्षणां सङ्गतिं दर्शयितुमुक्तम् अशेषेति । अशेषाश्च ते समाम्नायविरोधाश्चेति विग्रहः । करिष्यन् इत्यध्यायोपक्रमसमयापेक्षया । सूत्रकृता खलु सर्वानपि वेदविरोधान्परिहर्तुं द्वितीयोऽयमध्याय आरब्धः । वैदिकानां वचनानां परस्परविरोधोऽपि तदन्तर्भूत एवेत्यतस्तदपाकरणमिह सङ्गतमेवेति । आनन्तर्यलक्षणां सङ्गतिं दर्शयितुमथेत्युक्तम् । अवसरप्राप्तौ प्राधान्याद्युक्तिविरोधपरिहारस्य प्राथम्ये तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां परस्परविरोधपरिहारस्य भवत्ययमवसर इति ।
नन्वेवं तर्ह्यस्य पादस्य चतुर्थपादाद्भेदो न स्यात् । तत्रापि वेदवचसां परस्परविरोधस्य अपाक्रियमाणत्वादित्यत उक्तम् अधिदैवेति । अधिदैवानि अव्यक्ताद्यभिमानिदेवताः । अधिभूतानि कार्यकारणोपेतानि वियदादिभूतानि ।
वाक्यार्थचन्द्रिका
अथेत्यादिभाष्यानर्थक्यमाशङ्क्य पादप्रतिपाद्यसङ्गत्योरन्यतरमात्रप्रदर्शकत्वानुपपत्तेर् उभयोपदर्शकतामाश्रित्य तत्सार्थक्यमाह नेति ॥ पादप्रतिपाद्यमिति । पूर्वोत्तरपादाभ्यां भेदस्य स्वस्मिन्नेकवाक्यत्वस्य सिद्धय इति शेषः ॥ ससङ्गतिकमिति । पादस्याध्यायस्य च या सङ्गतिस्तत्सहितमित्यर्थः । उभयप्रदर्शकत्वमपि न सर्वस्य किन्त्वंशभेदेनेत्यभिप्रेत्य तद्विवरणपूर्वकमंशभेदेन तदाह प्रभुरित्यादिना । तृतीयपादस्य पूर्वत्राप्रकृतत्वात्प्रकृतपरामर्शिना इदंशब्देन तत्परामर्शानुपपत्तिमाशङ्क्य न ग्रन्थप्रकृतत्वमेव प्रकृतत्वं किन्तु बुद्धिप्रकृतत्वमेव । ग्रन्थप्रकृतत्वं तु तल्लिङ्गमेव । ततश्च तृतीयपादस्य बुद्धिप्रकृतत्वाद्युक्तस् तस्येदंशब्देन परामर्श इत्यभिप्रेत्य तदुपपादयति व्याचिख्यासिततयेति । यद्यपि वचनानामित्यस्य न नञर्थेन सम्बन्धो घटते विरोधश्च समासे गुणभूतस्तथाऽपि बुध्द्या विविक्तेन विरोधेन सम्बन्धो नानुपपन्न इत्याशयेनाह वचनानां परस्परमविरोध इति । नञोऽभावाद्यनेकार्थत्वात् तावदर्थतायाश्च प्रकृतेऽयुक्तत्वादभिमतमर्थमाह विरोधाभावमिति । अत्र च नञ्विशिष्टेन विरोधपदेनाभावविस्य लक्षणयोत्तरपदार्थप्रधान्यलाभात्तत्पुरुषत्वोपपत्तिः । यद्यपि क्वचिदुत्तरपदार्थप्राधान्येऽपि तत्पुरुषादर्शनाद् असत्यप्युत्तरपदार्थप्राधान्ये तद्दर्शनात्तस्योत्तरपदार्थप्राधान्यासिध्द्या न लक्षणाश्रयणमर्थवत्तथाऽपि तस्यौत्सर्गिकतया क्वचिद्बाधकेनापवादेऽप्यन्यत्राविकलतया लक्षणाश्रयणस्यावश्यकत्वात् । वस्तुतस्तु तत्पुरुषमात्रस्य तदनियमेऽपि नञ्तत्पुरुषस्योत्तरपदार्थप्रधानताया भाष्यादिसिद्धत्वेनास्य च नञ्तत्पुरषत्वेनोत्तरपदार्थप्राधान्यमावश्यकमेवेति लक्षणाश्रयणमर्थवत् । यदत्र वक्तव्यं तत् ‘अविरोधोऽत्र साध्यत’ इत्येतद्ग्रन्थव्याख्यानावसर एवोक्तमिति तत एव प्रतिपत्तव्यम् ॥
अन्तर्भावेति । अध्यायन्तर्भावेत्यर्थः । अपदस्य समाम्नायविणतायां विरोधे साकल्यालाभेन सकलविरोधपरिहारस्य द्वितीयाध्यायार्थत्वालाभात्तल्लभाय विरोधविणतामाश्रित्य योजयति ॥ अशेषाश्च त इत्यदिना । तर्हि युक्तिसमयविरोधयोः पूर्वमपाकृतत्वेन भविष्यत्त्वासम्भवात्करिष्यन्निति कथमत्रासमाम्नायविरोधापाकृतेर्भविष्यत्वोक्तिरित्यतो भवेदेवं कथञ्चिद्यदि करिष्यन्नितीयं भविष्यत्वोक्तिः पादोपक्रमसमयापेक्षया स्यान्न चैवं किं तर्ह्यध्यायोपक्रमसमयापेक्षयैव । ततश्चाविरोधापाकृतेर् एतत्पादोपक्रमसमयापेक्षया भविष्यत्त्वाभावेऽप्यध्यायोपक्रमसमयापेक्षया भविष्यत्वान्नानुपपत्तिरित्याशयेनाह करिष्यन्नितीति । अन्तर्भावलक्षणां सङ्गतिमित्येतदेव प्रपञ्चयति सूत्रकृतेति ॥ आनन्तर्येति । पादद्वयानन्तर्येत्यर्थः ॥ प्रधान्यादिति । सर्वेषामपि विरोधानां युक्त्युपजीव्यत्वेन तद्विरेधस्य प्रबलत्वात्प्राधान्यमिति भावः ॥ तत्प्रपञ्चात्मकत्वेनेति । ‘इतरेषां चानुपलब्धेरि’ति सामान्यतो निराकरणं समयानां कृतं वितो निराकरोत्यस्मिन्पाद’ इति भाष्योक्तेरिति भावः । अधिदैवेत्यत्र वृत्तिविषये गताद्यर्थे वर्तमानस्याधिशब्दस्य गतित्वाभावेऽपि प्रथमान्तेन दैवशब्देन कुगतिप्रादय इत्यत्र प्रादिग्रहणादधिगतानि दैवान्यधिदैवानीति प्रादिसमासः । योग्यतयाऽव्यक्तादीनां विषयतया सम्बन्धम् इत्यभिप्रेत्य तत्तात्पर्यमाह अव्यक्ताद्यभिमानिदेवता इति । सम्मतश्चात्र प्रादिसमासो ग्रन्थकृतोऽत एव बहुवचनप्रयोगः । अधिभूतेत्यत्रापि अधिगतानि भूतानीति पूर्ववत्प्रादिसमासं योग्यतया कार्यकारणयोर्विषयतया सम्बन्धं चाभिप्रेत्य तत्तात्पर्यमाह कार्यकारणोपेतानि वियदादिभूतानीति ।
परिमल
अथेत्यादेः करिष्यन्नित्यन्तस्य ग्रन्थस्य साफल्यायाह ससङ्गतिकमिति । अविरोधाध्यायेऽन्तर्भावपूर्वपादानन्तर्यरूपाभ्यां सहितमित्यर्थः । अनेनेति व्याख्येयानुवादः । करिष्यन्निति भविष्यदर्थकलृट्प्रयोगस्य साधुत्वायोक्तम् । अध्यायोपक्रमेति । इहेति । अविरोधाध्याये सङ्गतमेवेत्यर्थः । अथपदार्थोऽवसरप्राप्ताविति ॥ तत्प्रपञ्चेति । ‘इतरेषां चानुपलब्धेरि’त्युक्तहेतुविस्तृतिरूपत्वादिति भावः । अधि अधिकृत्य अधिष्ठाय वर्तमानानि दैवानीति विग्रहमुपेत्य किमधिष्ठायेत्याकाङ्क्षायामाह अव्यक्ताद्यभिमानिदेवता इति । एताभिरेवाधिष्ठितानि भूतान्यधिभूतानीति विग्रहमुपेत्याह अधिभूतानिति ॥ कार्यकारणेति । कार्याणि वाय्वग्निप्रभृतीनि वा ‘तासां त्रिवृतमि’त्युक्तत्रिवृद्रूपं वा । कारणम् अव्यक्तादिकम् ।
यादुपत्यम्
अधिदैवानीत्यादि । नन्वत्राव्ययीभावे सति तस्याव्ययीभावश्चेत्यव्ययत्वात् ‘अव्ययादाप्सुप’ इति सुपो लुका भवितव्यम् । तथा च कथमधिदैवानीत्यधिभूतानीति चोपपद्यत इति चेत् । उच्यते । नायमव्ययीभावो येनोक्तदोषः किन्तु कर्मधारय एव । तत्राद्येऽधिरैश्वर्यार्थः । ततश्चाधीश्वराणि च तानि दैवानि चेति विग्रहमभिप्रेत्य तत्तात्पर्यमाह अव्यक्ताद्यभिमानीति । द्वितीये त्वधिक्यार्थः । एवं च अधि अधिकानि तानि भूतानि चेति विग्रहः । भूतनामाधिक्यं च कार्यकारणसाहित्येनेत्यभिप्रेत्य तत्तात्पर्यमाह कार्यकारणोपेतानीति । कार्यमण्डादिकं भौतिकम् । कारणमव्यक्तादिकम् । ताभ्यां सहितानीत्यर्थः । अत्र भूतकारणानमव्यक्तादीनां तत्कार्याणां देवतादिदेहादीनामप्युत्पत्तेः कथनादेवं व्याख्यातमित्यवगन्तव्यम् ।
श्रीनिवासतीर्थीया
ननु पूर्वं पादद्वये विरोधस्य परिहृतत्वादत्र करिष्यन्निति कथमुक्तमित्यत आह करिष्यन्निति । तथा चास्मिन्नध्याये कर्तुं प्रवृत्त इत्यर्थो द्रष्टव्यः । तदुपपादयति सूत्रकृतेति ।
वाक्यार्थरत्नमाला
गुरुराजपदे स्मृत्वा वियत्पादादिसङ्गताम् ।
सेवेऽहं वाक्यार्थचन्द्रिकां तत्कृपाबलात् ।
मात्रप्रदर्शकत्वेति । तदाश्रयणेन सार्थक्यवर्णनानुपपत्तेरित्यर्थः । अंशान्तरवैय्यर्थ्यापातेनेति शेषः । अध्यायपादसङ्गत्योरेकप्रकारता नास्तीति दर्शयितुं विवेकमाह । पादस्येत्यादि । अत्राध्यायेऽन्तर्भावलक्षणासङ्गतिरिति पादेन चानन्तर्यलक्षणासङ्गतिरिति सप्तमीनिर्देशाभ्यां तृतीया सूचितमिति बोध्यम् । न सर्वस्येति । यदंशस्य पादप्रतिपाद्यप्रदर्शकत्वं न तस्य सङ्गतिप्रदर्शकत्वमेवमपरस्यापीत्यर्थः । अनुपपत्तिमाशङ्क्येति । अनुपपत्तिरित्याशङ्क्येत्यर्थः । तेनानुपपत्तिमिति द्वितीयान्तान्वयाभावशङ्कानवकाशः । एवमन्यत्रापि । न ग्रन्थप्रकृतत्वमेवेति । यतोऽनुभवतः सर्वमित्येतज्जिज्ञासाधिकरणानुभाष्यमूले वक्तृश्रोत्रित्यादिना तथैवोक्तत्वादिदमुक्तम् । वचनानामित्यादिविरोधाभावमित्यन्तमवतारयति । यद्यपि वचनानामिति । विरोधश्च समासे गुणेति । तथैव तेन त्यक्तेन भुंजीथा इत्यत्र कृष्णस्य सूत्रानुव्याख्येत्यादौ च मूलकारीयोक्तेरिति भावः । वचनपदेन विरोधपदस्य सम्बन्धेऽपि नञर्थनिर्णयार्थमवतारमाह । नञ इति । अत एव प्राङ्न नञर्थेनेति सामान्योक्तिः । नञर्थस्य प्राधान्येन पूर्वपदार्थप्रधानतयाऽव्ययीभावत्वेनाव्ययीभावश्चेत्यवतार्यमविरोधमिति नपुंसकशब्दप्रसङ्गभयादाह । अत्र च नञ्विशिष्टेनेत्यादि । एतच्च युक्तिपादीय अविरोधो विरोधाभाव इत्येतद्-व्याख्यानरूपनञो अभावाद्यनेकेत्यादिवाक्यव्याख्यानवसरे प्रागेवास्माभिः प्रपञ्चितं तत एव प्रतिपत्तव्यम् । यद्यपि युक्तिपादेऽविरोधोऽत्रेति पुल्लिङ्गस्यानुव्याख्याने प्रयोगेण पुल्लिङ्गत्वनिर्वाहाय लक्षणाश्रयणस्यार्थवत्वेऽपि प्रकृतेऽविरोधमित्यस्य तत्पुरुषत्व इवाव्ययीभावत्वेऽप्युपपत्या लिङ्गानुपपत्तेरेव तत्पुरुषत्वव्युत्पादनं नार्थवत् । तथापि वस्तुतोऽविरोधोऽत्रेत्यादिवत्प्रकृतेऽप्यविरोधशब्दः पुल्लिङ्ग एव द्वितीयैकवचनान्तःप्रयुक्तः सिद्ध इति भावेन तत्पुरुषत्वव्युत्पादनम् । अत एवाविरोध इति तत्र तत्रोक्तिरिति ध्येयम् ।
क्वचिदिति । अक्षपरिसूपपरीत्यादावित्यर्थः । असत्यपीति । अत्रापि क्वचिदिति वर्तते । तस्य चातिमालो ऽतिसर्व इत्यादावित्यर्थः । कथं भाष्यादिसिद्धत्वमित्यत आह । यदत्र वक्तव्यमिति । पादादिना असम्भवादाह । अध्यायेति । प्रादयो गताद्यर्थे प्रथमयेति प्रक्रियोदाहृतवार्तिकव्याख्यावसरे शेषिकृता वृत्तिविषये गताद्यर्थे वर्तमानाः प्रादयो गतित्वाभावेपि प्रादिग्रहणेन समस्यन्ते प्रथमान्तेनेत्यर्थ इत्युक्तम् । तदनुसारेणाह । वृत्तिविषये गताद्यर्थ इति । गतित्वाभावेपीति । प्रादीनां तथायोगे सत्येव गतिश्चेत्यादिसूत्रैर्गतिसंज्ञाविधानाङ्गीकारादिति भावः । अत एवोर्व्यादयश्चिडाजन्ताश्चेति वाक्यव्याख्यावसरे शेषिकृतैवमेवोक्तम् । उक्तं च कुगतीति सूत्रव्याख्यावसरे । प्रादिग्रहणमगतिसंज्ञार्थम् । गतिग्रहणं च प्रादिभिन्नानामूर्व्यादीनामपि सङ्ग्रहार्थमिति । एवं च प्रादीनामप्यस्ति गतिता यदार्थान्तरपरता । यथा प्रकृत्य प्रकरोतीति । तथापि यदा गताद्यर्थता तदा न गतित्वमिति भावेन गतित्वाभावेऽपीत्युक्तम् । अन्यथा प्रादिग्रहणादित्येवावक्ष्यत् । प्रादिग्रहणादिति । तस्यागतिसंज्ञकत्वादित्यर्थः । दैवमधिकृत्य वर्तमानमधिदैवमित्येवमधिहरीत्यादिवदव्ययीभाव एव किं न स्यादित्यतोऽव्ययीभावत्वे बहुवचनैकवचनयोरविशेषेणाधिदैवमित्येवापत्याऽधिदैवानीति बहुवचनानुपपत्तिप्रसङ्गात् । ग्रन्थकृदभिप्रायानुसारेण तत्पुरुष एव स्वीकार्य इत्याशयेनाह । संमतश्चेति । गायत्र्यधिकरणीयाध्यात्मगैरधिभूतगैरित्येदनुव्याख्यानसम्बन्धिटीकाप्रपञ्चेऽधिको विचारः प्राक्कृतोऽस्ति सोप्यत्रानुकूलश्चेदनुसरणीयः ।