११ उत्पत्यधिकरणम्

ॐ उत्पत्यसम्भवात् ॐ

अथ उत्पत्यधिकरणम्

ॐ उत्पत्यसम्भवात् ॐ

नहि लोककर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृष्टमित्ययुक्तम् । कुठारेण वृक्षच्छेत्तुः कारोरेव कुठारजन्मनोऽपि दर्शनात् । तदा कर्मेति चेत् किमेतावता छिदिक्रियायां तस्यैव करणत्वात् । कथं स्वत एव स्वस्योत्पत्तिः सम्भवेदित्यप्ययुक्तम् । मूलरूपादवताररूपाणामभिव्यक्तिदर्शनात् । तद्-व्यूहानामनन्तत्वाभ्युपगमादित्यपि चिन्त्यम् । वासुदेवादिमूर्तिचतुष्टयव्यूहस्य प्राथमिकत्वात् । ‘‘व्यूढश्चतुर्धे’’ति वृद्धानुशासनात् । पाञ्चरात्रिकैरभिधीयत इत्यत्र ‘‘चतुष्पञ्चनवव्यूहदशद्वादशमूर्तये । अनेकमूर्तयेतुभ्यममूर्तायैकमूर्तय’’ इत्यादिपञ्चरात्रवेदिभिरित्यर्थः ॥ २२१२ ॥

इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां द्वितीयाध्यास्य द्वितीयः पादः ॥