ॐ पत्युरसामञ्जस्यात् ॐ अथ पत्युरधिकरणम् ॐ पत्युरसामञ्जस्यात् ॐ एषस्य इच्छारूपस्येत्यत्र ‘‘इषु इच्छाया’’मिति धातोः पचाद्यचि कृते सार्वधातुकार्धधातुकयोरिति च गुणे च कृते एष इति शब्दनिष्पत्तिर्मवति । एतच्छब्दरूपत्वे त्वेतस्येति स्यात् ॥ २२११ ॥