ॐ नैकस्मिन्नसम्भवात् ॐ
अथ नैकस्मिन्नधिकरणम्
ॐ नैकस्मिन्नसम्भवात् ॐ
अनेकदेशवर्तिद्रव्येऽस्तिकायशब्दवृत्तेरित्यत्र न तावद्योगेन तत्रास्तिकायशब्दप्रवृत्तिर् योगादर्शनात् । नापि रूढ्या । प्रयोगबाहुल्यं हि रूढिः । व्याकरणादिष्वतच्छब्दप्रयोगस्याप्यभावात् । अन्ततो भगवन्मतानुवर्तिना अमरसिंहकारेणाप्यस्य शब्दस्य क्वाप्यननुशासनात् । अतस्स्वकपोलकल्पनामात्रमेतदिति दूषणं द्रष्टव्यम् । सदसद्द्वयमद्वयमिति मूलस्याद्वयं द्वयोस्सदसतोः स्पर्शेनैव विधुरं केवलमव्यक्तमिति यावत् । द्वयं सदवक्तव्याख्यद्वितीयसम्बन्धि । यद्यपि पूर्वमपि द्वयमुक्तम् । तत्सदसदद्वयाख्यविरुद्धकोटिसम्बन्धि । इदं तु विजातीयकोटिघटितमिति भेदः । अव्यवहितपूर्वोक्तद्वयाद्विलक्षणम् । असदव्यक्तमिति पक्षः पूर्वोक्तपञ्चकोटिष्वनुस्यूतत्वात्सदसत्सर्वमित्युच्यते । अतत्त्वेनापि वक्तुं शक्यत इति मिलितत्वादसदिति सदसदवक्तव्याख्यकोटिर्गृहीता ।
न ह्येवं वादिनो वादिन इत्यत्र सदसदाख्यभङ्गिद्वयाङ्गीकारिणां सत्वेऽपि त्वदुक्तसप्तभङ्गिनां मध्ये एकैकभङ्ग्यङ्गीकारिणां वादिनां दर्शनषट्केऽप्यनुपलम्भादित्यर्थः । यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तमित्युक्ते ममापि नानाशरीरेष्वसाधारणलक्षणभूतचैतन्यनाशो नास्तीति परेण सन्तोष्टव्यम् । पृथिव्यादीनामनित्यत्वाय यादृशतादृशान्यथाभावस्यैवानित्यत्वप्रयोजकतया परेणाङ्गीकारात् । नहि पृथिव्यादावसाधारणगन्धस्यैवान्यथाभावोऽस्ति । किंतु समीकरणविषमीकरणघनघननिपातनादिनैवान्यथाभावः । अतो जीवे च यादृशतादृशान्यथाभावेऽपि स्यादेवानित्यता । गजादिस्थूलशरीरगतसुखदुःखाद्यनुभवाय सूक्ष्मचैतन्यं नालमिति तदेव चैतन्यं स्थूलाकारेण परिणतमिति परेषां प्रक्रिया । तस्यैव पिपीलिकायोनौ प्रवेशः न मन्त्रशक्तया । नाप्यष्टैश्वर्यशक्तया । किंतु परशुना वृक्षमिव स्थूलाकारं विच्छिद्य सूक्ष्मीकरणादिति वक्तव्यम् । एवं च स्थूलदेशस्थसुखदुःखाद्यनुभावकासाधारणलक्षणीभूतचैतन्यस्यैव बहुलं नाशात्कथं नासाधारणलक्षणस्यैव नाशः । अस्माकं त्वणोर्जीवस्य प्रभयैव यावद्देहप्रवर्तिसुखानुभवं वदतां स्थूलदेहेषु प्रतिबन्धाभावात्स्थूलदेहे दीपप्रभाया इव तावद्य्वापित्वम् । स्थूलदेहे तेनैव निरोधात्तन्मात्रवर्तित्वम् । दीपस्य दीपप्रभायास्तत्प्रकाशनशक्तेश्च क्वाप्यविनाशवज्जीवस्य जीवप्रभाया अर्थोल्लेखित्वलक्षणचैतन्यस्वभावस्य च न क्वापि विनाशः । तव तु पिपीलिकायौनौ प्रवेशे स्थूलतरदेहस्थसुखदुःखादिप्रकाशकचैतन्यस्वभावस्यैव बहुलं नाशात्कथं नात्मविनाशः । नहि घटस्य बहुलावयवाद्विच्छिद्य सूक्ष्मकपालमात्रावशेषणेऽविनाशं कोऽपि ब्रूते । अतो नास्मत्प्रतिबन्दी परस्य । इदं तु वस्तुतत्त्वकथनायाचार्यैरुक्तम् । वस्तुतस्तु तद्दुःखे सति जीवस्य नीचता नाम चैतन्यपरिमाणस्यैव विच्छेदः । निर्विकारत्वाङ्गीकारात् । किंत्वौत्तरतात्कालिकस्वाङ्गचेष्टादि व्यापाराननुगुणत्वमेव । एवं सुखे सत्युच्चत्वमपि तदनुगुणत्वमेव । एवं च चैतन्यपरिणामस्य न क्वापि व्यत्यास इति ज्ञेयम् । कोरकवत्त्वमित्यस्य कुड्मलवत्त्वमित्यर्थः ॥ २२१० ॥