०८ अनुपलब्ध्यधिकरणम्

ॐ न भावोऽनुपलब्धेः ॐ

अथ अनुपलब्ध्यधिकरणम्

ॐ न भावोऽनुपलब्धेः ॐ

प्रकाशमानत्वाद्यनुमानाद्भविष्यतीत्यत्र प्रकाशमानत्वं प्रकाशरूपत्वं विवक्षितमिति चेद्घटादौ नास्ति । प्रकाश्यमानत्वं चेज्ज्ञाने नास्ति । प्रकाशरूपस्यापि तस्य स्वप्रकाशत्वात् । स्वेनैव प्रकाश्यत्वं चेदात्माश्रयोऽधिको दोषः । पराप्रकाश्यत्वमात्रं चेत्पुनर्घटे नास्ति । किञ्च महीमहीधरादयः पुम्भिरनुद्घार्यमहाभारेण युक्ताः । ज्ञानं तु न तथा । महीधरादिष्वविद्यमानमेव गौरवं प्रतीयते चेद्गण्डशैलनिपतनेऽपि स्वस्य मरणं न स्यात् । अतोऽत्यन्तविरुद्धयोरनयोरैक्यं न युक्तिशतेनापि वक्तुं शक्यमित्यादिदूषणं बहिरेवोन्नेयम् ॥ २२९ ॥