ॐ नासतोऽदृष्टत्वात् ॐ
अथ असदधिकरणम्
ॐ नासतोऽदृष्टत्वात् ॐ
विमोक्षस्तस्य तायिन इत्यत्र तायिनो ज्ञानिन इत्यर्थः । प्रथमसूत्रोक्तरीत्येत्यत्र ‘‘न विलक्षणत्वादस्य तथात्वं च शब्दादि’’त्येतदध्यायप्रथमपादसूत्रोक्तरीत्येत्यर्थः । आर्द्रकवणिजो वहित्रचिन्तयेत्यत्र वहित्रं नौः । ‘‘जगद्बीजवहित्रधृगि’’ति मत्स्यनामसुश्रवणात् । विशेषनिष्ठैव व्याप्तिरभिधातव्येत्यत्र यत्स्वरूपमात्रप्रतीतौ यत्सर्वथा प्रतीयत इति व्याप्तिरभिधातव्येत्यर्थः । तथा चोत्तरकाले स्वस्मात्स्वयं भिन्न इत्यत्र घटपटयोर्भेदग्रहाभावेऽभेदग्रहस्यावश्यकत्वेन पटाद्घटो भिन्न इतिवद्घटाद्धटो भिन्न इत्यपि प्रतीतिस्स्यादित्यर्थः । उपलक्षणं चैतद् भेदग्रहाभावे एकस्य प्रतियोगितयाऽपरस्य धर्मितया च प्रतीतिर्न स्यादित्यपि द्रष्टव्यम् । तद्भावोऽपरो भिन्नभेदवादिभिर्नेष्यत इत्यत्र धर्मित्वप्रतियोगित्वविशेषणत्वादीनां पदार्थस्वरूपत्वाङ्गीकारादित्यर्थः । भेदपार्थक्यमन्तरेण विशेषप्रतीतावित्यत्र भेदपार्थक्यमेकं विहाय विशेषप्रतीतौ विशिष्य भेदप्रतीतावयमेतत्सदृशः परिहार इति निर्विकल्पकप्रतीत्या प्राक् प्रतीतित्वं स तु वदति । अनिरूपितप्रतियोगिविशेषसामान्यप्रतीत्या विशेषप्रतीतिरित्यस्माभिरुच्यत इति भावः ।
किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छतीति मूलश्लोकस्येयं योजना । भेदः कथं ग्राह्यः न कथञ्चिदिति यः परिपृच्छत्यस्मान् प्रति प्रत्यवस्थानं करोति भेदप्रतीतेर्दुर्वचनात् । सांवृतो भेदो न परमार्थत इति यो वक्ति तेन प्रतीत्ययोगेन भेदमेवापेक्षता धर्म्यादिभेदग्रहणाद्धर्म्यादिसापेक्षभेदग्रहणादुक्तोऽन्योन्यसंश्रयः कथं न कथञ्चित् । असौ वादी पूर्वोत्तरविरुद्धभाषीति । एतदेव स्पष्टयति । आद्ये कारणस्यासत्त्वमित्यत्र कारणं सत्तावदिति विशेषणविशेष्यतया व्यवहारकारणपदार्थभूतं कारणमसदेवेति प्राप्तमित्यर्थः । सत्वाधारतया प्रागुच्यमानकारणमसदेवेति प्राप्तमित्यर्थः ।
सूत्रे हेतुविशेषस्यानुपादानादित्यस्य सूत्रे ‘‘वैधर्म्यादि’’ति सत्यत्वसाधकप्रमाणमेवोक्तम् । जगन्मिथ्यात्वे हेतुविशेषस्य कस्याप्यनुक्तेः । दूषयितुमप्यननुवादात् । ‘‘स्वप्नादिवदि’’ति तदुदितदृष्टान्त एव दूषितः । नतु तदुदितमिथ्यात्वसाधकप्रमाणस्य । न शङ्का नापि समाधानम् । किंतूपेक्षैव कृता । तेन ज्ञायते मिथ्यात्वे किमपि प्रमाणं नास्तीति सूत्रकृतो भाव इति । प्रमाणविरोधस्य तु चशब्देनैव सूचनम् । अनन्तजीवेष्वनन्ता विज्ञानसन्ततयस्तत एकैकस्यामपि सन्ततौ घटज्ञानं पटज्ञानमित्याद्याकारेण ज्ञानभेदस्य च विद्यमानत्वादित्यर्थः । तत्र सन्ततिभेदश्चेति मूलश्लोकस्येयं योजना । तत्र ज्ञानज्ञेययोर्भेदः परस्परं भेदः ज्ञानसन्ततीनामेव परस्परं भेदः । एकस्यामपि सन्ततौ घटज्ञानं पटज्ञानमिति त्रिविधा अपि भेदाः कल्पिता एवावभासन्त इति ॥ २२८ ॥