०६ समुदायाधिकरणम्

ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ

अथ समुदायाधिकरणम्

ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ

घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेत्यत्र परमते कपाला अपि घटात्सूक्ष्मतमा अविकृतपरमाणुपुञ्जा एवा येन मुद्गरप्रहारात्स्थूलकार्यासमवायिकारणकपालसंयोगनाशे तन्मात्रा एवावशिष्येरन् । अविकृतपरमाणुपुञ्जवादे तु व्रणस्थमशकसमुदायस्येव वातोद्धूतरथ्यारेणुसमुदायस्येव च प्रत्येकं प्रत्येकमपसरणं स्यात् । नतु सूक्ष्मसमुदायरूपेण । न चैवमेवास्त्विति वाच्यम् । जर्खरीभूतकपालखण्डानां प्रत्यक्षत एवावगमेन तदपलापायोगात् । प्रागविरलानां घटाकारपरमाणूनां मुद्गरप्रहारे सति तेनैवाकारेण विरलावस्था जायत इत्यत्रापि न किञ्चिन्मानम् । भोजकादृष्टरूपं कर्मापि जलाहरणयोग्यप्राक्तनावस्थायामेव बीजं नोत्तराया इत्यादिदूषणं द्रष्टव्यम् । तत्समुदायस्य प्रत्यक्षादि युज्यत इत्यत्र दूरतोऽदृश्यानां समीपस्थेन दृश्यानां महतामेव तिलतण्डुलकेशादीनां पुञ्जीकरणे सति तत्तन्निष्ठमहत्त्वानामन्योन्यसहकारितया दूरतश्चक्षुषा दर्शनसम्भवेऽपि प्रागप्यतीन्द्रियाणां पिशाचानां शतशः पुञ्जीकरणेऽपि प्रत्यक्षयोग्यताया अदर्शनेनातीन्द्रियपरमाणूनामत एव प्रत्यक्षयोग्यतावच्छेदकमहत्वरहितानां समवायेऽपि प्रत्यक्षयोग्यता कथं स्यादिति दूषणमवगन्तव्यम् । कर्मादिवशादेव तथातथा सन्निकृष्टाः परमाणवो जायन्त इत्यत्र कालकर्मादिवशात्परमाणव एव गोगवयाद्याकारेण पुञ्जीभवन्तीति वादे कुतो गोपरम्पराया नियमेन मातृभूतगोयोन्यनुसरणम् । कुतो वा घटपरम्पराजननाय मृत्पिण्डपरम्परानुसरणम् । गवामुदरस्था एव परमाणव एव तदुदरे वत्सीभवन्तीति तु आदिसृष्टावभावाद्रृषभसङ्गमस्याप्रयोजकत्वाच्चानुपपन्नम् । किं च करेणास्पृश्यानां नयनैरदृश्यानां च परमाणूनां कुलालतः प्रयोजनाभावात्स्वस्वभोजकादृष्टवशात्तत्तद्गृहस्थ गृहाङ्कणेष्वेव पुञ्जीभावो युक्तः । नतु गमनवेतनदानाद्यायासदायिन्यां कुलालशालायाम् । एवं व्रीहियवाद्याकारेण शाकाद्याकारेण च तत्र तत्रैव परमाणूनां समुदायो भवेत् । जलाकारपरमाणुसमुदायश्च दिनेदिने गेहस्थघटानामन्तरेव स्यात् । न तु क्षेत्रतटाकादिषु । गवाकारसमुदायश्च प्रागेव स्थूलगवाद्याकारेण स्यान्न तु वत्साद्याकारमन्तर्भाव्य । भोजकादृष्टं हि यथायथा भोजनं सुकरं स्यात्तथैव कुर्यात् । यदि च दृष्टमृत्पिण्डादिकारणत्यागायोगात्कुलालशालादिष्वेव समुदाय इत्यङ्गीक्रियते । तर्हि दृष्टमृत्पिण्ड एव कुलालानुगृहीतो घटाकारेण परिणमताम् । कृषीवलानुगृहीतांकुरादिभ्य एव व्रीह्यादयः परिणमन्ताम् । किमदृष्टायुक्तयुक्तपरमाणुसमुदायकल्पनयेत्यादिदूषणं द्रष्टव्यम् ।

एकस्मात्परमाणोरित्यत्र यद्यपि विरलादेकैकस्मात्तण्डुलसमुदायो भवतीति सर्वजनसम्प्रतिपन्नम् । इदं तु न परेण वक्तुं शक्यम् । अविरलपरमाणूनां सवत्र सत्त्वेन तत्समुदायस्यापि सर्वत्र सम्भवेन घटादिकार्यव्यवहारस्यापि स्थाननियमायोगात् । अतस्तदाकारेण समुदितपरमाणुभ्य एवोत्तरोत्तरक्षणिकाकारपरम्परा जायत इति वक्तव्यम् । कथमन्यथा घटे यावदवस्थानं क्षणिकत्वम् । अत एकस्मादेवेत्यन्यसम्भावितपक्षस्य सम्भावितस्यापि तदनङ्गीकृतपक्षस्य दूषणपिपदेन सूचयित्वा तृतीयपक्षमेव स्वपदेन दूषयति सूत्रकार इति टीकाकृतोऽभिप्रायः । एवमावृतानावृतत्वरक्तारक्तत्वे इत्यत्राऽऽवृतत्वमेकभागस्य हस्तेनावृतत्वम् । एकभागस्यानावृतत्वम् । चित्रपटे एकत्र रक्तत्वमन्यत्रारक्तत्वमित्यर्थः ।

सदातनं त्विममभ्युपगच्छाम इत्यत्र यद्यपि समुदितपरमाणुसत्त्वे तेषां समुदाय इति समुदायसिद्धिः । समुदायसिद्धौ च समुदितपरमाणुसिद्धिरिति स्यादेव स्वप्रतीतावन्योन्याश्रयस् तथाप्युत्पत्तिप्रतिबन्धकत्वाशया पक्षान्तरपरिग्रह इति ज्ञेयम् । न चेतरेतरप्रत्ययोऽविरलेषु परमाणुषु सम्भवतीत्यत्राविरलेषु घटाकारपरमाणुषु घटबुद्धिं विना परमाणुबुद्धेः क्वाप्यदर्शनात् । अयमेकः परमाणुरयमेक इति त्वदभिलषितापेक्षाबुद्धिर्दूरापास्ता । अतो न कुत्रापि परमाणुबुद्धिः परस्येति दूषणं द्रष्टव्यम् ।

अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ।

संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि ॥

इति मूलश्लोकस्येयं योजना । अर्था विरलपरमाणव इन्द्रियाणि अनधिपतीन्द्रियाणि तयोरुभयोरपि संयोगिरूपे कार्यकारणाख्यसम्बन्धयुक्ते रूपेऽर्थे ज्ञानद्वारा कार्यत्वरूपवद्यदविरलपरमाणुसमुदायात्मकघटाद्यर्थस्वरूपं कारणत्वसम्बन्धयुक्ताधिपतीन्द्रियात्मकेन्द्रियस्वरूपं चैतदुभयं प्रति प्रागुक्तविरलपरमाण्वाख्यार्थस्यानधिपतीन्द्रियाख्येन्द्रियस्य च या कारणता सा न स्यात् । समुदायज्ञानवत आत्मनश्च विषये समुदायज्ञानरहितात्मनश्च या कारणता साऽपि न स्यात् । कारणेऽनधिपतीन्द्रिये कार्येऽविरलपरमाणुसमुदाये संयोगिरूपराहित्यात्कार्यकारणभावत्वाख्यसंयोगिरूपराहित्यादर्थे कार्यत्वराहित्यादिन्द्रिये कारणत्वराहित्यादिति यावत् । आत्मकारणीभूतपूर्वात्मनि च तज्ज्ञानराहित्यात्समुदायज्ञानवत्वराहित्यात्समुदायज्ञानवदुत्तरात्मकारणता नैव । कार्यत्रयस्य कारणत्रयस्य च विसदृशत्वान्न कार्यकारणतेति भाव इति । अत्र कार्यग्रहणं परमतानुसारेणेत्यत्र पूर्वात्मानं प्रत्युत्तरात्मनो ऽनधिपतीन्द्रियाणि प्रत्यधिपतीन्द्रियाणां विरलपरमाणून् प्रत्यविरलपरमाणूनां कार्यताया अस्माभिरनङ्गीकारादित्यर्थः । आकपालभावादित्यस्य मुद्गरप्रहारानन्तरं घटस्य यः कपालीभावस्तत्पर्यन्तमित्यर्थः । सर्वमिदं स्वव्याहतमित्यादिना यत्परेणोक्तं तदपि न रमणीयम् । परेण हि पदार्थानां क्षणिकत्वरक्षणाय पूर्वघटात्सामस्त्येन तत्सदृशघटान्तरस्यैकांशेनापि प्रागविद्यमानस्यैव क्षणेक्षणे उत्पत्तिरङ्गीक्रियते । नतु प्राचीनघटस्यैव उपचयाद्यवस्थाविशेषेणोपचरितोत्पत्तिविनाशावङ्गीक्रियेते । इदं तु न केषामपि वादिनामभिमतम् । नापि युक्तम् । क्षणिकवह्निना क्षणिकतण्डुलानां स्थिरसंयोगाभावेन क्षणिकसंयोगस्य चापाचकत्वेनौदनस्यैवासिद्ध्या स्वस्यैव मरणप्राप्तेः । क्षणेक्षणे घटनाशे तदन्तस्थजलानां क्षणे प्रस्रवणेन जलसङ्ग्रहोऽपि न स्यात् । तस्यापि क्षणिकत्वे पर्युषितजले दुर्गन्धादिकं न स्यात् । मातुरुदरे रेतोबिन्दोश्च क्षणिकत्वे घटवत्सामस्त्येन स्वसदृशकार्यमात्रजनकत्वे च दशमे मास्यपि रेतस एव प्रस्रवः स्यात् । न विग्रहवतश्शिशोः । औत्तरघटे दण्डचक्रादेर्नियमभङ्गेन प्राचीनघटेऽपि कारणता न स्यात् । व्यभिचरितं कारणं चेत्यस्य व्याहतत्वात् । क्षीरलेहादिना भर्तृदेहस्योपचये क्षयादिनाऽपचये च तद्भार्यायाः पत्यन्तरपरिग्रहदोषः पतिनाशेन रोदनं च स्यात् । अतो यथादृष्टं यथाश्रुतं जननमरणादिकं कल्पनीयम् । मृत्त्वादिना सदृशं घटत्वकार्यत्वजलाहरणयोग्यत्वादिना विसदृशं च कार्यं मृदादिकं च जनयेत् । अन्वयव्यतिरेकाभ्यां चातिप्रसङ्गः परिहरणीयः । परेण तु नेदमङ्गीकर्तुमुचितम् । पुनःपुनर्घटव्यवहारेण सर्वसादृश्यस्यैव वक्तव्यत्वात् । ईषद्विसदृशकार्यजननाङ्गीकारेऽपि घटात्तादृशघटस्यैव पुनःपुनरुत्पत्त्यसिद्धिप्रसङ्गात् । प्रत्यभिज्ञा च घटपटादिव्यवहारयोग्यबहुतरावयवस्थैर्ये सति स एवायं घटः स एवायं पट इति सावधारण एव जायते । अन्यथा चोरेणापहृतघटपटादौ स्वकीयत्वेन विवाद एव न स्यात् । पितृमरणे सति मुण्डितशिरस्के स्वपतौ स एवायं मम पतिरिति विश्वासस्यासम्भवप्रसङ्गाच्च । पीलुपाकप्रक्रियायामापरमाणुकार्यनाशक्षणानां पुनराघटमुत्पत्तिक्षणानां च बहूनामङ्गीकारात् । पूर्वापरकलाविकलक्षण एवोत्पन्नविनष्टत्वाख्यक्षणिकत्वं न कोऽप्यङ्गीकुरुते । पिठरपाकप्रक्रियायां तु क्षणिकत्वशङ्कैव न अतस्त्वनुपपन्नभाषणे निरुपम एवायमित्यादिदूषणदूषितत्वात् । प्रातर्गजाद्यभावज्ञानं त्वित्यत्र प्रत्येतव्यस्य प्रातःकालीनगजाद्यभावस्येदानीमभावान्न प्रतियोगिघटिताभावप्रत्यक्षमिदानीं शक्यम् । तदा अभावसद्भावेऽपि प्रतियोगिज्ञानाभावान्न प्रतियोगिघटिताभावप्रत्यक्षत्वमित्युभयथापि प्रतियोगिघटिताभावप्रत्यक्षत्वासम्भव इति चोद्यस्यानुमानिकत्वेन परिहारोऽभिधीयत इति भावः । प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धादित्यत्र यद्यपि नञ्वर्जितप्रलयशब्दाज्जायमाना शाब्दी प्रतीतिर्भवति तादृशी । शब्दशक्त्यनुसारित्वात् शाब्द््याः। तत्रापि नेदानीं जगदित्येव प्रतीतिः । एवमिहाप्याकाशशब्दादस्तु तादृशी प्रतीतिः । अभावस्वरूपेणैव प्रतीतौ तु मूर्ताभाव इत्येव प्रतीतिः स्यात् । न च सा कदापीति वदन्तं प्रति दृष्टान्तस्यानानुगुण्यं च द्रष्टव्यम् । तामपीदानीमेव कुर्यादित्यत्र यथा द्वादश्यां करिष्यमाणभोजनक्रियां प्रत्येकादश्यां क्षुत्पीडितत्वात्समर्थोऽपि निषिद्धत्वान्न करोति । यथा वा रात्रौ क्रियमाणस्त्रीसङ्गं प्रत्यह्नि समर्थोऽपि लज्जया न कुरुते । तथा कालान्तरभाविजलाहरणक्रियां प्रतीदानीं समर्थोऽपि घट आहर्तुरभावान्न करोतीति काऽनुपपत्तिरिति द्रष्टव्यम् । यादृशतादृशविरुद्धधर्माध्यासोऽपि न भावभेदकः । किंतु घटपटत्वादिरूप एवेति ज्ञातव्यम् । द्वितीयादिक्षणेऽसत्त्वमवर्जनीयमित्यत्र यथा गृहस्थयोग्यगृहपुत्रदारधनादिकं सम्पाद्यापि वृद्धो गृही सन्नेव तिष्ठति । न त्वसन्नेव भवति । तथा सम्पादितसर्वक्रियोऽपि घटः पश्चादपि तिष्ठतु । असत्ता तु किंनिबन्धना । सकलक्रियोदासीनानां कृतकृत्यानां योगिनामवस्थानदर्शनादिति दूषणं द्रष्टव्यम् ।

मध्येऽनुमानं तु निरसिष्यत इत्यत्र मध्ये ज्ञानाश्रितनीलप्रत्यक्षप्रवृत्त्योर्मध्ये ज्ञानगतनीलाकारमूलीभूतं बाह्यनीलमपि फलबलादनुमीयत इत्यर्थः । तत्रापि कारणत्वानवधारणादित्यत्र बाह्यनीलत्वस्याप्रत्यक्षत्वे तत्र ज्ञानेऽपि कारणत्वानवधारणात् । इतः पूर्वमनिर्णीतत्वादित्यर्थः । पूर्वाकारजन्य इत्यत्र पूर्वाकारः पूर्वज्ञानगतनीलाकारः । किं च वासनादिकमित्यत्र उत्पत्स्यमानपीतज्ञानजनकनीलकारणीभूतकादाचित्कनीलज्ञानादपि प्रागनुभूतपीतवासनादिकमित्यर्थः । स्फुरतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादिति वदता बाह्यस्थिरनीलाज्ज्ञानेऽपि स्थिरमेव नीलमुत्पादनीयम् । न तु कादाचित्कं तत्कारणीभूतकादाचित्कनीलस्य बहिरप्यभावात् । अतस्तस्मिन् ज्ञाने पुनः पीतादेरनवकाशः । किञ्च बाह्यनीलाज्ज्ञाने नीलोत्पादे बाह्यघटगजाद्याकाराज्ज्ञानेऽपि घटगजाद्याकारोत्पत्तिस्स्यात् । स च न बाह्याद्याकारात्सूक्ष्मो वक्तुमुचितः । तत्कारणीभूतसूक्ष्मकारणस्य बहिरभावात् । एवं च घटगजादिज्ञाने हृदयविदारणं स्यात् । किं चैवं सत्यान्तरज्ञानस्य मूलीभूतबाह्यज्ञानमपि कल्पनीयं स्यात् । किञ्च बाह्यवह्नेरौष्ण्याज्ज्ञानेऽप्यौष्ण्यं स्यात् । तथा चान्तरपि दाहप्रसङ्गः । बाह्यकालकूटाज्ञानेऽपि कालकूटं स्यात् । तथाच स्वस्यैव मरणं स्यात् । किञ्च स्वरूपसद्बाह्यं नीलमान्तरनीलोत्पादकं वा ज्ञातं वा । नाद्यः सर्वदा नीलोत्पत्तिप्रसङ्गात् । द्वितीये आन्तरनीललिङ्गकानुमानेनैव बाह्यनीलज्ञानमित्यन्योन्याश्रय इत्यादयोऽपि दोषास्सूचिताः ॥ २२७ ॥