०५ वैशेषिकाधिकरणम्

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ

वैशेषिकाधिकरणम्

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ

एवमात्रेयस्य मतमित्यत्र आत्रेयस्तेष्वेकदेशी । सामान्यवानसमवायिकारणमस्पन्दात्मा गुण इत्यत्रासमवायिकारणं समवायिकारणभिन्नम् । साक्षादसमवायिकारणत्वे तेनैव सामान्यादीनामपि व्यावृत्तेस्सामान्यवानिति पदं व्यर्थं स्यात् । विजातीयपरिमाणत्वाद्य्वतिरेकेण तन्तुपटपरिमाणवदित्यत्र परिमाणजनकपरिमाणवति त्र्यणुकमारभ्यान्त्यावयविकारणपर्यन्तकारणसमूहेऽवयविगतमहत्त्वादप्यवयवगतमहत्त्वस्य सूक्ष्मत्वेन विजातीयत्वाद्धेतोर्व्यभिचारः स्यात् । अणुत्वमहत्त्वाभ्यां वैजात्यस्य विवक्षितत्वे परमाणुपरिमाणस्य द्य्वणुकपरिमाणकारणत्वसम्भवात् । यादृशतादृशवैजात्यस्य त्वयैव वक्ष्यमाणत्वात्सुस्थो व्यभिचार इति पूर्वपक्षाङ्कुरस्यैव मूलच्छेद इति ज्ञेयम् । नित्यपरिमाणत्वस्य परमाणुत्वस्य चेत्यत्र नित्येन परमाणुनाऽनित्यपरमाणुत्वरहितद्-व्यणुकजन्माङ्गीकारे नित्येन परमाणुपरिमाणेनैतादृश द्य्वणुकपरिमाणजन्मापि कुतो नाङ्गीक्रियते । उभयोः कार्यत्वेऽविशेषाद् वैजात्यस्य परपक्षपातायोगाच्च । किञ्च त्वदभिलषितपरमाणुनिष्ठद्वित्वसङ्ख्याया विजातीयद्य्वणुकपरिमाणकारणता कथं स्यात् । एवं द्य्वणुकगतत्रित्वसङ्ख्या च कथं त्र्यणुकगतमहत्त्वस्य कारणं स्यात् । परिमाणकारणगुणगतवैजात्यस्य क्वचिद्दूषणतायाः क्वचिद्भूषणतायाश्चाङ्गीकारे कथं न स्वन्यायविरोधाख्यदूषणेन दुष्टता । परिमाणत्वेन सजातीयकार्यकारणपरिमाणयोर्यादृशतादृशपरिमाणवैजात्यस्य दूषणत्वे सङ्ख्यात्वेन परिमाणत्वेन च साक्षाद्गुणनिष्ठवैजात्यस्य सुतरां दूषणत्वात् । एवं च वृश्चिकभयात्पलायमानस्याशीविषमुखे निपतनमिव महदकौशलमिदं परस्येत्यादिदूषणं स्पष्टत्वात् शिष्यैरेवोह्यतामिति ग्रन्थकृता न ग्रथितम् । इतोऽपि परमतस्य मूले कुठारः । न च विवक्षितासिद्धिरित्यत्रोक्तानुमानैर्द्य्वणुकपरमाणुपरिमाणयोर्ह्रस्वकार्यपरिमाणारम्भकत्वमात्र सिद्धावपि तन्निष्ठपरिमाण्डिल्यह्रस्वत्वाख्यपरिमाणयोः परिमाणारम्भकत्वासिद्धिरिति शङ्कितुरभिप्रायः । यत्र तु नियामकविशेष इत्यत्र यत्र दशहस्तपरिमितत्वेन निर्मातव्यपटादौ सङ्ख्यासाम्येऽपि वितस्तिमात्रायामन्यूनतायां चिकीर्षितपटासिद्धिर्यत्र तत्रेति योजना । द्य्वणुकानुपलम्भो गुणविशेषविपर्ययाधीन इत्यत्र वायाविव रूपाख्यगुणविपर्यासस्य रूपवति द्य्वणुके बाधितत्वेन महत्वविपर्यासेनैव साध्यसिद्धिरित्यनुमातुरभिप्रायः । स्वपरिमाणापेक्षयोत्कृष्टापकृष्टपरिमाणवन्त इत्यत्र परमाण्वादिपदार्थापेक्षयोत्कृष्टपरिमाणानि द्य्वणुकादिपरिमाणानि । अपकृष्टपरिमाणानि चावयवपरिमाणानि । तद्वत्त्वं तदुपेतत्वम् । वस्तुसत्परिमाणवत्त्वे तात्पर्यम् । दृष्टानुगतिर्हि संज्ञाछन्दसोरिष्यत इत्यत्र दृष्टानुगतिः प्रयोगदृष्टानुगतिर् यथाह बहुलं तणीति भाष्यकार इति शेषस् तणि संज्ञा छन्दसि बहुलं स्यादित्यर्थः । ‘‘संज्ञा छन्दसोस्तणीति संज्ञे’’ति वैयाकरणाः ।

तथापकर्षानन्त्यमपीत्यत्र परमाणोर्दशदिक्संयोगात्सन्ति दशांशाः । तेषामप्यंशानां दशदिक्संयोगात्सन्ति दशांशाः । एवमधोऽधोऽपीति परिमाणापकर्षतारतम्यानन्त्यमपि कथं नानुभवसिद्धम् । यद्वा सन्ति परमाणोर्दशांशाः । तेषामपि समर्थेनेश्वरस्य प्रत्येकं द्वैधीकरणे सन्ति ततोऽपकृष्टांशाः । एवमधोऽधोऽपीति सर्वथा सतो वस्तुनोऽनन्तधा द्वैधीकरणेऽप्यत्यन्तासत्वायोगात्कथमपर्यवसितापकृष्टानन्तांशपरम्परा नानुभवसिद्धा । स्फुट एवेति वदता परस्यार्धं परार्धमिति समासे परार्धादपि परसङ्ख्याया अधिकायास्सुप्रसिद्धत्वादिति सूचितम् । को नेत्याहेति वदताऽपर्यवसिताणुतरानन्तभगवन्मूर्तीनामङ्गीकारस्सूचितः ।

कारणाकारणसंयोगजप्रक्रियायामित्यत्र कारणस्य द्य्वणुककारणस्य पार्थिवपरमाणोरकारणेनाऽऽप्यपरमाणुना संयोगे कार्यस्य द्य्वणुकस्याकारणाप्यपरमाणुना संयोग इति न्यायस्य व्याप्तचतुर्विधपरमाणुमेलने सति न्यायप्राप्तत्वादिति भावः । पाषाणादिमध्यवर्तिन इत्यत्र पाषाणादीनां सूक्ष्मतरछिद्रमध्यस्थस्येत्यर्थः । नहि सर्षपादेरवयवपरम्पराविश्रान्त्यभाववादिनाऽनन्तावयवारब्धत्वमङ्गीकृतमित्यस्येदं तात्पर्यम् । सन्त्यतिसूक्ष्मतराः प्रकृतिरूपा मूलावयवाः । ते चापरिमितानन्तसूक्ष्मसूक्ष्मतरांशपरम्परोत्पन्नत्वाद्भवन्ति सर्वेऽपि समपरिमाणाः । अतोऽनन्तांशारब्धत्वे सर्वेषां साम्यं स्यादित्यापादनमिष्टापादानमेव । तदुपरि तैस्समपरिमाणैः प्रकृतिरूपांशैरुत्पन्नोत्तरावयवपरम्परा यत्राल्पसङ्ख्याका साऽल्पपरिमाणा । यत्र बहुसङ्ख्याका सा महापरिमाणा । एवं च मन्दरो यावत्सङ्ख्याकप्रकृत्युत्तरांशपरम्परोत्पन्नः न तावदंशपरम्परोत्पन्नः सर्षप इति कुतस्तयोस्समपरिमाणता । यथा हि समपरिमाणमृत्पिण्डकोटिषु शतमृत्पिण्डोत्पन्नमल्पपरिमाणं सहस्रमृत्पिण्डोत्पन्नं ततोऽपि महत् । एवं तत उत्तरोत्तरबहुसङ्ख्याकमृत्पिण्डोत्पन्नं महत्तरं महत्तमं च । तथा प्रकृतेऽपीति । किञ्चिद्विजातीययोरित्यत्र ‘‘तासां त्रिवृतं त्रिवृतमैकैकामकरोदि’’ति श्रुतेस्सर्वस्यापि कार्यस्य तेजोबन्नात्मकत्वादयमेव पक्षस्साधीयान् । अन्ये तु उद्भटवादा इति ज्ञेयम् । अपेक्षणीयान्तराभावादित्यत्र गन्धस्य गन्धान्तरारम्भकत्वे रूपाद्यनपेक्षत्वादिति भावः । कार्यद्रव्योत्पत्तेरपेक्षणीयत्वादित्यत्रैकैकपरमाणुगतगन्धेन गन्धान्तरोत्पादनं द्य्वणुकाख्यकार्योत्पत्तावेव भवति । तस्यैवोत्पत्स्यमानगन्धसमवायिकारणत्वात् । कार्यं च द्य्वणुकादिकं परमाणुद्वयसापेक्षमिति न गन्धस्यापि सन्ततोत्पत्तिरिति भावः । विजातीयारम्भकत्वस्य साक्ष्यादिप्रमाणसिद्धत्वादित्यत्र मृण्मयस्यापि घटस्याप्सहकारे सत्येव जननदर्शनादिति भावः । द्य्वणुकमहत्त्वात्तदुत्पत्त्युपपत्तेरित्यत्र कपालद्वयमहत्त्वाभ्यां घटे महत्त्वोत्पत्तिवद् द्य्वणुकद्वयमहत्त्वाभ्यां त्र्यणुकेऽपि महत्त्वोत्पत्तिसम्भवादित्यर्थः । व्याप्यबुद्धेर्व्यापकबुद्धिमित्यत्र आत्ममनःसंयोगासमवायिकारणिकायां व्यापकबुद्धौ व्याप्यबुद्धिरनिमित्तमिति परस्य मतम् । तस्या अपि बुद्धेर्व्यापकबुद्धिसमवायिकारणे आत्मनि समवेतत्वादन्यस्य व्याप्यबुध्याऽन्यस्य व्यापकबुध्यनुदयेन स्वसमवायिकारणसमवेतत्वेनैव सामर्थ्यावधारणादिति भावः । एवमुत्तरत्रापि ज्ञातव्यम् ।

प्रदेशभेदान्नेति चेदित्यस्य देहान्तरावच्छिन्नात्मनि व्याप्यबुद्धिस्ततोऽन्यत्र व्यापकबुद्धिरिति प्रदेशभेद इत्यर्थः । एतस्मादेवापरबुद्धेरजनकत्वं न तु समवायिकारणसमवेतत्वाभावापराधेनेति भावः । प्रकृतेऽपि समानमित्यस्योत्तराकाशः प्रथमाकाशजनितशब्दस्य न समवायिकारणम् । तथाप्याकाशत्वोपाधिसाम्याज्जन्यजनकभावो हि तवाभिप्रेतः । एवं प्राचीनव्याप्यबुद्धेरुत्तरात्मा न समवायिकारणम् । आत्मत्वजात्या साम्यमस्तीति तत्रापि कार्यं स्यादिति भावः । वस्तुगत्या प्रदेशभेदात्कार्यकारणभावो नास्तीति वदता एतद्देहावच्छिन्नात्मसमवेतत्वं नास्तीत्येवोक्तं स्यात् । अतोऽपरिहार्यं समवायिकारणसमवेतत्वेन सामर्थ्यावधारणमिति द्रष्टव्यम् ।

सिद्धत्वे पक्षलक्षणाभावादित्यत्र यथा प्रत्यक्षसिद्धं पर्वतं पक्षीकृत्य तदसिद्धमग्न्यादिकं सन्दिग्धत्वात्साध्यते । पर्वतस्यैवास्तित्वं न साध्यं पर्वतसिद्धौ तस्यापि सिद्धत्वेन सन्देहासम्भवात् । एवं परमाणुसिद्धौ तदस्तित्वमपि सिद्धमेवेति सन्देहाभावात्तदेव साधयितुं न शक्यमिति भावः । स्थाण्वस्थाणुसंयोगस्यास्थाणुक्रियाहेतुत्वादित्यत्र क्रियाहेतुर्यस्येति बहुव्रीहिसमासः । अणुत्वेन तस्य समावेशे को विरोध इत्यत्र प्रत्यक्षयोग्यत्वान्महत्त्वमप्यस्तु स्वकार्यापेक्षयाऽणुत्वमप्यस्तु । तन्त्वादौ तथा दर्शनादिति भावः । महद्द्रव्यारम्भकारम्भकत्वेननेत्यत्र पटारम्भकतन्तूपादानकार्पासवदिति दृष्टान्तो दृष्टव्यः । गगनादिपरिमाणोत्कर्षानन्त्यमनभ्युपगच्छतामित्यनेन देशत्वादिना साजात्यं शब्दकारणत्वादिना सादृश्यं च न वक्तुं शक्यम् । ततोऽन्यधर्मेण सादृश्यसाजात्ययोरीश्वरादावपि सम्भवादिति किमेव नेत्यर्थः । पक्षेतरत्वापाधिदुष्टमनुमानमित्यत्र पक्षीकृतमधुररसव्यतिरिक्तपञ्चरसेष्वन्यतमत्वमित्यर्थः । इहेति यतः कार्यकारणयोरित्यस्येह कार्यकारणयोर्मध्ये कार्यस्य पटादेस्तन्त्वादिकारणेष्विह तन्तुषु पट इत्यादिरूपेणेति प्रतीतिर्यतो भवति स समवाय इत्यर्थः । रक्तिमपटयोः परम्परासम्बन्ध एव न समवाय इत्यतः न ययोः कयोश्चिदित्युक्तम् । तस्य च रजकेन प्रक्षालने कृते सत्यपगमान्नायुतसिद्धत्वमिति भावः । विभिन्नवस्त्वभावे स्वल्विहप्रत्यय इत्यत्रेह घटे प्रमेयत्वमित्याद्यभिन्नधर्मव्यवहारे इहप्रत्ययस्य बाधितत्वादित्यर्थः । इन्द्रियार्थसन्निर्कादिनेत्यत्र आधाराधेययोस्सम्बन्धं विना यस्य कस्यचित्सम्बन्धस्य जनकत्वमात्रेणोपयोगकथने सतीत्युपस्कर्तव्यम् । उत्पत्तिज्ञप्तिप्रतिबन्धिकैवानवस्था दूषणम् । समवायश्च नित्यः । नित्ये च समवाये उत्पत्तिप्रतिबन्धकत्वायोगात्प्रतीति प्रतिबन्धकत्वसङ्घटनायैकदेशमतमुपन्यस्यति केचिदिति । सूत्रकारस्य तु सिद्धे वस्तुन्युत्पत्तिज्ञप्तिप्रतिबन्धकानवस्थातोऽपि समवायपरम्परामनङ्गीकुर्वता तार्किकेण औत्तरेहप्रत्ययेषु समवायानङ्गीकारात्तेष्वेवेहप्रत्ययस्य व्यभिचरितत्वेन प्राथमिकेहप्रत्ययेऽपि समवायो न सिद्ध्येत् । एवं च स्वरूपस्यैव विघटिकाऽनवस्था महादूषणमिति भावः । उक्तरीत्या सौत्रानवस्थितेरेव सुवचत्वात् । अपसिद्धान्तवाची व्याख्यायते इत्यभ्युपगमवादोऽयम् ।

यद्वा इह कुण्डे बदराणीत्यादिकमपि सम्बन्धप्रतीतेरेव इहेति प्रतीतौ कारणत्वं वदतां मतानुवादोऽयम् । वस्तुतस्त्विह भूतले घटो नास्तीत्यादीहप्रत्ययेऽपि भूतलघटसम्बन्धादेस्सहैव प्रतीतिर् न तु प्राक् प्रतीतिनियमः । अयं घट इति प्रतीतिरपि हि घटत्ववानयं घट इत्येवमाकारिका । विशेषणज्ञानस्य कारणतां वदन्तोऽपि तार्किकास्संसर्गस्तु संसर्गमर्यादयैव भासते न तु तस्यापि प्राक् ज्ञानमित्याहुः । सौत्र्यनवस्था तूक्तविधया सुस्थैव । एवं च विशेषणस्यापि सहैव प्रतीतिर् न तु प्राक् प्रतीतिरिति वदतामस्माकं नात्र महानाग्रह इति ज्ञेयम् । तथा च वक्ष्यति किं चैवं वदतेति । तदसिद्धौ तत्सम्बन्धत्वस्याप्यसिद्धेरित्युपलक्षणम् । सम्बन्धापेक्षया सम्बन्धिनः प्राधान्येव द्रव्यस्यैव स्वनिर्वाहकत्वसम्भवाच्चेत्यपि द्रष्टव्यम् । अस्माकं तु भेदहीनेऽपरस्मिन् भेदकार्यकरणाय कल्प्यमानो विशेषो भेदहीने भेदकार्यकारित्वस्वभावबलात्परप्रकाशकदीपस्य सुतरां स्वप्रकाशकत्ववदसति भेदे सति च स्वस्मिन् भेदकार्ये तदपि निर्वहेदेव । न तु दीपो दीपान्तरमिव विशेषान्तरमपेक्षते । नहि परेषामन्नदायी स्वान्नार्थमपरं याचमानः क्वापि दृष्ट इति न कश्चित्क्षुद्रोपद्रवः । परस्य तु सम्बन्धहीने सम्बन्धव्यवहाराय न समवायकल्पनम् । येन सम्बन्धान्तरहीने स्वस्मिन् सम्बन्धव्यवहारे सम्बन्धान्तारापेक्षां धिक्कुर्यात् । किंतु सम्प्रतिपन्नसंयोगाख्यसम्बन्धान्तरहीने गुणगुण्यादौ सम्बन्धान्तररूपं स्वात्मानमिव सम्बन्धान्तरहीने स्वस्मिन्नप्यपूर्वं सम्बन्धान्तरमेव घटयेत् । न तु सम्बन्धान्तरमुपेक्ष्य केवलं तद्-व्यवहारसङ्घटनायालम् । एकत्र क्लृप्तस्वभावस्यैवान्यत्रापि कल्पनीयत्वात् । अतो नास्मत्प्रतिबन्दी । समवायनित्यत्वसिद्धेरित्युपलक्षणम् । नित्यस्यापि गगनस्य स्वनिर्वाहकत्वादर्शनेन नित्यत्वेऽपि स्वनिर्वाहकत्वासम्भवस्य साम्यादित्यपि द्रष्टव्यम् । समवायस्य तद्गतत्वं नामेत्यस्य समवायनिष्ठो यस्तद्गतत्वाख्यो धर्मस्तस्य समवायेना सह समवायाख्या वृत्तिर्न हि सम्भवतीत्यर्थः । यथा द्रव्यगुणकर्मस्वित्यत्र तर्हि ममापि सत्ववद्विशेषवच्च समवायोऽपि स्वनिर्वाहकस्स्यादिति परेण न सन्तोष्टव्यम् । प्रागस्माभिरुक्तरीत्या प्रतिबन्द्या मोचितत्वादुपपादकाभावे दृष्टान्तमात्रस्यार्थासाधकत्वाच्चेति ज्ञेयम् । आश्रयासिद्धेरित्युपलक्षणम् । संयोगातिरिक्तसम्बन्ध एव विवदमानं प्रति सम्बन्ध एव साधनीयः । तस्य प्रत्यक्षतासाधनं त्वनुत्पन्नबालस्य नामकरणमिवासङ्गतम् । अन्यथा तस्यैव घटस्य तेनैव सम्बन्धोऽपि कुतो न प्रत्यक्षोऽनुमीयते । किञ्च तन्तुपटयोरत्यन्तभेदवादिनाऽपि ‘‘धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव’’ इत्यादिवचनेष्वेकस्थानगतत्वादिसम्बन्धविशेषस्यैव समवायतया व्यवहरणादिहापि संयोगविशेषस्यैव कुतो नैतत्प्रत्यक्षम् । ‘‘अवश्यमेकमपराश्रितमेवावतिष्ठत’’ इति नियमस्य नियमेन स्तम्भाश्रितगृहेषु जलाश्रितमीनेषु विश्वरूपाख्यभगवन्मूर्तावाश्रितत्रैलोक्ये च समवायाकल्पकत्ववदिहापि तदकल्पकत्वेनार्थान्तरत्वात् । तव मते नित्यानां घटत्वादिजातीनां घटादिव्यक्तावाश्रितत्वनियमाभावेन समवायेऽप्युक्तलक्षणभङ्गाच्चेत्यपि द्रष्टव्यम् ।

सम्बन्धाप्रतीतौ शुक्लः पट इति सामानाधिकरण्यप्रतीतिरित्यत्र सामानाधिकरण्यप्रतीत्याऽपि कृष्ण एव राम इत्यादिवदभेद एवोल्लिख्यते । न तु तयोस्सम्बन्धः । अन्यथा दण्डी देवदत्त इतिवद्दण्डो देवदत्त इत्यपि कुतो न प्रतीतिरित्यर्थः । इह तन्तुषु पट इत्यादिप्रत्यय इत्यत्रैतज्जनकेति विशेषणं दृष्टान्ते साध्यवैकल्यपरिहारार्थम् । तत्र यद्यपि संयोगत्वरहितसम्बन्धो नास्ति । तथाऽप्येतज्जनकसंयोगत्वराहित्यमस्तीति भावः । संयोगत्वं सम्बन्धव्यावृत्तमित्यत्र घटत्वं घटव्यावृत्तं जातित्वात्पटवदित्याभाससमानयोगक्षेमत्वाच्च न युक्तमिति ज्ञातव्यम् । अत्यन्ताभेदेऽपि व्यावृत्तिस्वीकारेणेत्यत्र सामान्यसमवायादिगतप्रमेयत्वास्तित्वादिधर्माणामत्यन्ताभेदो नैयायिकैरङ्गीकृतः । तेषां च धर्मधर्मिभावघटनायान्योन्याभावपृथक्तवातिरिक्तस्वरूपभेदरूपव्यावृत्तिस्वीकारादिति भावः । भगवतस्सार्वज्ञादिगुणानां भगवदवताराणां ‘‘चैकधैवानुद्रष्टव्यम्’’ ‘‘नेह नानास्ति किञ्चने’’त्यादिश्रुतिबलादस्ति तावदत्यन्ताभेदः । एवकारेण किञ्चनेतिशब्देन च भेदमात्रनिषेधात् । अस्ति च गुणगुणिभावोऽवयवावयविभावो मूलरूपस्यैकत्वमवताराणामनन्तत्वं चेति विशेषः । तच्च नौपचारिकम् । ‘‘विश्वतश्चक्षुरुत विश्वतोमुखः’’ ‘‘मय्यनन्तगुणेऽनन्ते’’ इत्यादि श्रुतिस्मृतिषु बहुशः प्रयोगात् । ‘‘वेदैश्च सर्वैरहमेव वेद्य’’ इति भगवद्वाक्यविरोधात् । ‘‘तत्तु समन्वया’’दिति सूत्रकृतोक्तसमन्वयशब्दविरोधादतः श्रुत्यभिमानिनी महालक्ष्मीरुक्तोभयविधव्यवहारनिर्वाहककञ्चनसामर्थ्यविशेषं भगवति सर्वदा पश्यतीति गम्यते । रामः कृष्ण इतिवन्मृद्घटस् तन्तव एव पटः शुक्लः पटो नीलो घट इत्यादि सामानाधिकरण्यव्यवहारमूलीभूता कार्यकारणादीनामभेदप्रतीतिस्तावत्प्रत्यक्षेणैवोत्पन्ना । तथाप्यपर्यायशब्दादिनिर्वाहकविशेषप्रतीतिश्च तत्र ‘‘खण्डिते भेद ऐक्यं चे’’त्यादिवचनादेकसत्त्वेऽप्यपरनाशाख्यभेदकार्यपरामर्शवतां तयोर्भेदश्च प्रतीयते । तस्य भेदासाधारणकार्यत्वात्तस्यापि विशेषेणैव निर्वाहे भेदस्यैव नामान्तरं स्यात् । नतु भेदप्रतिनिधिर्विशेषस्सिध्येत् । कृष्णरामाद्यकार्यद्रव्येषु यावद्द्रव्यभाविपटशौक्ल्यादिषु च केवलाभेद एव च साक्षात्क्रियते नतु भेदः ।

भिन्नाभिन्नेऽपि वस्तुन्यभेदविरुद्धभेदस्यावसरदानाय विशेषोऽप्यङ्गीक्रियते । एवं च कार्यकारणादीनामभेदे विशेषे च प्रत्यक्षस्यैव प्रमाणत्वात्सर्वथा तदुभयमनङ्गीकुर्वन्न लौकिको नाप्यलौकिक इति भावेनाह भगवान् भाष्यकारो ऽभेदेन प्रतीतिश्चेति ।

न चायमाश्रयतो भिन्न एवेत्यत्र सप्तपदार्थ्यामनन्तर्भावेन तत्तद्रूपतायाः परेणैवाङ्गीकर्तव्यत्वादिति हेतुर्द्रष्टव्यः । द्रव्यस्यासमुदितत्वेनत्यत्र असमुदितत्वेनैकस्यैव द्रव्यस्य बहुद्रव्यसमुदायात्मकत्वे सर्वद्रव्यसङ्ग्रहणाय कृत्स्नपदं सार्थकं स्यात् । एकस्मिन् द्रव्ये कृत्स्नपदोपादानं व्यर्थम् । न ह्येकं घटमानयेति वदन्कृत्स्नं घटमानयेति ब्रूते इत्यर्थः । सामान्यं द्विविधं नित्यमनित्यं चेति मते ‘‘नित्यमेकमनेकानुगतं सामान्यमि’’ति सूत्रोक्तलक्षणविरुद्धत्वाद्भावस्य स्वरूपमेवावस्थाभेदेनास्तित्वं ज्ञेयत्वमभिधेयत्वं चोच्यत इति पूर्वाचार्यवाक्यविरोधाच्चाविवेकमूलम् ।

किञ्च नित्यमपि सामान्यं वदन् प्रष्टव्यः । किं तदेकमेवानेकाश्रितमुत प्रत्येकवृत्तीति । नाद्यः । अतीतानागतसकलपदार्थेषु वर्तमानस्यैकैकवस्तुनाशेऽप्यनश्यमानस्य च नित्यत्वापरिहारात् । द्वितीये सामान्यत्वासम्भवः । अनेकेषु पदार्थेषु साधारणं हि सामान्यम् । किञ्च जात्यतिरिक्तं तत्सामान्यं भिन्नमभिन्नं वा । द्वितीयमङ्गीकुर्मः । प्रथमे सम्बन्धो वक्तव्यः । न च संयोगो ऽद्रव्यत्वात् । नापि समवायो ऽवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति पञ्चस्वेव समवायनिरूपणात् । अनित्यस्य समवायश्च न युक्तियुक्तः । पदार्थद्वयसम्बन्धरूपसमवायस्यैकनाशे संयोगवन्नाशावश्यम्भावात् । कथं तर्हि गुणगुणिनोस्समवाय इति चेन्न कथञ्चिदिति ब्रूमः । द्विधर्मिकत्वाभावे न सम्बन्धत्वम् । अतोऽपसिद्धान्तत्वादिदोषग्रस्तत्वान्नेदं मतमाशङ्कितं टीकाकृता । अस्तित्वं न ज्ञेयं नाभिधेयमित्यत्र अस्तित्वं नासदित्यपि ग्राह्यम् । तथाचास्तित्वे असन्न ज्ञेयं न अभिधेयं नेत्यसत्त्वादिधर्मनिषेधं कुर्वताऽसत्वनिषेधापरपर्यायसत्वस्यास्तित्वमविज्ञायास्तित्वमनभिधाय च न ज्ञेयं नाभिधेयमिति च निषेधायोगेनास्तित्वेऽप्यस्तित्वादिधर्माणामङ्गीकार्यत्वादित्यर्थः । विपक्षे बाधकाभावेनाप्रयोजकत्वादित्युपलक्षणम् । गोत्वे सत्ताजातिमङ्गीकुर्वता जातित्वाख्यापरजातेरङ्गीकाराद्धेतोस्स्वरूपासिद्धिश्च । गुणसामान्ययोर् गुणसामान्यप्रतीतिरित्यत्र गुणे गुणप्रतीतिस्सामान्ये सामान्यप्रतीतिरित्यर्थः । यत्रावयवावयव्यादीनां युगपद्विनाश इत्यत्रावयवयैस्सह विनष्टेऽवयविनि प्रतियोगिसमानदेशप्रध्वंसायोगात्सत्यवयवावयवेऽवयवनाशमात्रसम्भवेऽप्यवयविनो नाशायोगेन नष्टघटस्य भूतलेऽभाववदभावस्य वक्तव्यत्वादिति भावः । इदमुक्तं भवतीत्यस्य नाशे एकसत्वेऽप्यपरनाशेऽवयवावयव्यादीनां तथाऽभेदवदभेदोऽपि भवेदित्यनेनेदं वक्ष्यमाणमुक्तमुक्तप्रायं भवतीत्यर्थः । अन्यथा सिद्धो वेत्यत्र घटतदंशयोरभेदेन घटसंयोगत्वसम्भवाद्विवक्षितसाध्यादन्यथैव सिद्धिरित्यर्थः । सूच्यग्रसंयोगः परमाणुप्रमाणघटांशे तिष्ठतीति भावेन शङ्कते एवं तर्हीति ।

कर्मैकार्थासमवेतत्वादित्यत्र कर्मणा सहैकार्थे गगनेऽसमवेतत्वादिति परस्याभिप्रायः । भेर्याकाशसंयोगासमवायिकारणके शब्दासमवायिकारणके च शब्दे कर्मणा सहैकार्थे गगनेऽसमवेतत्वान्न कर्मासमवायिकारणक इति साध्यं चास्तीति परस्य हृदयम् । तत्र दृष्टान्तस्तावद्विषमः । संयोगजनकीभूतभेर्याकाशयोर्द्धयोरपि कर्माभावाद्युक्तस्तत्र कर्मासमवायिकारणत्वाभावः । पक्षे तु तन्त्वाकाशयोर्मध्ये एकस्मिन्नेव कर्मैकार्थासमवेतत्वम् । न तु द्वयोः । तथाचैकार्थे कर्मणा सह समवेतत्वात्कर्मासमवायिकारणकत्वमपि स्यात् । किञ्च सकर्मकाकर्मकस्थाणुश्येनविभागे उक्तविधया कर्मैकार्थासमवायित्वेऽपि कर्मासमवायिकारणकत्वस्य त्वयैवाङ्गीकाराद्य्वभिचारश्चेत्यपि दूषणं ग्राह्यम् ।

सकर्मकस्येवाकर्मकस्यापि कुतो न स्यादित्यत्र सकर्मकस्य विभक्ततन्त्वोरिवाकर्मकस्याविभक्ततन्त्वोरपि गगनविभागो न स्यादित्यर्थः । विभागस्य विभागकारणीभूतविभागस्य असंमृदितावयवजन्यद्रव्यपरिमाणत्वेनेत्यत्र शलाकया विमृद्य सूक्ष्मीकृततन्तुजन्यावयविनि परिमाणोत्कर्षाभावादसम्मृदितेत्युक्तम् । विसदृशपरिमाणत्वस्यानपेक्षाहेतोरित्यत्रानपेक्षाहेतोः कारणपरिमाणानपेक्षाहेतोरित्यर्थः । परमाणोराकाशादिसंयोगाङ्गीकारादित्युपलक्षणम् । कालाकाशादिसंयोगोऽपि ग्राह्यः । नरत्वादिकमप्येवं तत्तद्धर्मतयेयत इत्यत्र कथं तर्हि सामान्यशब्दवाच्यतेति शङ्का नरादिशब्दवाच्यतया समानसकलनरसम्बन्धित्वादिति परिहरणीया । एवं तर्हि रूपादावप्युक्तनिमित्तसद्भावे सामान्यशब्दवाच्यता स्यादिति चेन्न । पङ्कजादिशब्दवद्योगरूढत्वेन तत्परिहारसम्भवात् । प्रयोगबाहुल्यं रूढिः । सा च सामान्य एवास्ति । नान्यत्र । अत एवोक्तमाचार्यैः । ईयत इति । इदमपि ईयत इति पदस्यावृत्त्या तदेव सामान्यपदवदीयते नान्यदिति मूलकारेणैव सूचितम् । तस्य स्वरूपतः प्रमाणत्वेन च सन्दिग्धत्वादित्यस्य तदेवेदं नरत्वमिति प्रत्यभिज्ञास्वरूपस्यैव सन्दिग्धत्वात् । कस्यचिन्मन्दस्यास्ति चेत्त एवेमे कुन्तलकलापा इतिवत्सादृश्यनिबन्धनत्वेनैकत्वे प्रामाण्यस्य सन्दिग्धत्वादित्यर्थः । द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे इत्यत्र ‘‘न हिंस्यात्सर्वा भूतानि’’ ‘‘अग्नीषोमीयं पशुमालभेते’’ति वाक्ययोर्यागीयहिंसामात्रविषयत्वे सैव न कार्या कार्या च स्यात् । विरुद्धयोरुभयोः प्रामाण्ये वस्तुनि विकल्पप्रसङ्गादेकस्याप्रामाण्यं स्यादित्यर्थः । भिन्नविषयत्वेनापवादविषयोऽस्तीत्यत्रायमभिसन्धिः । अत एकवाक्यं हिंसात्वसामान्यमादाय सकलहिंसाविषयम् । अग्नीषोमीयवाक्यं तु क्रतुहिंसाव्यतिरिक्तहिंसास्वेव प्रवर्तत इति हि सामान्यविशेषभावः । स च सर्वानुस्यूतसामान्याभावे कथं स्यादिति । तदा अयं गौरित्यत्र कथं तर्हि तत्र तच्छब्दव्युत्पत्तिरिति चेन्न तत्र गुरूपदेशादेव व्युत्पत्तिर् अन्यत्र तूपदेशाभावात्सादृश्याख्यलिङ्गनिबन्धनेति परिहारात् । दृष्टान्तनियमस्य निरस्तत्वादित्यत्र आगमसिद्धाव्याप्तिके । इयं न पदा स्प्रष्टव्या गोत्वात् । ‘‘गौर्न पदा स्प्रष्टव्ये’’ति श्रुतेरित्येतावतैव व्याप्तिनिश्चयस्य सर्वानुभवसिद्धत्वादिति भावः ।

सादृश्यस्य तु व्यावृत्तत्वेऽपि प्रतियोगिनिरूप्यत्वेनेत्यत्रैकस्मिन्धर्मिणि सप्रतियोगित्वस्वभावं सादृश्यमनुभवन्नेतन्निष्ठसादृश्यप्रतियोगित्वेन तत्सदृशान्सर्वानप्यनुभवति । यमयोरेकस्य दर्शने तन्निष्ठसादृश्यप्रतियोगिनो यमान्तरस्याप्यनुभूतेस्सर्वजनसम्प्रतिपन्नत्वात् । यदाऽल्पसादृश्येऽप्येवं तदा सर्वसादृश्ये किमु वक्तव्यम् । सप्रतियोगिकाभावादिप्रतीतौ प्रतियोगिनोऽपि सहोपलम्भनियमाभावसादृश्याख्यप्रयोजनाभावनिबन्धन इति भावः । न च सा स्वरूपे वर्तत इत्यत्र सा पूर्वं सकलव्यक्तिषु व्यक्तिशब्दव्यवहाराय कल्पिता व्यक्तित्वजातिस्स्वरूपे स्वस्वरूपे न वर्तते किंतु स्वेतरव्यक्तिष्वेव । ततो द्रव्यादित्रये तस्यां चेत्यत्र तस्यां जातित्वजातौ व्यक्तीभूतायां व्यक्तित्वजातावपरं प्राक्कल्पितव्यक्तित्वजातेरन्यद्य्वक्तित्वमित्यर्थः ।

जातित्वमभ्युपगन्तव्यमित्यत्र जातित्वे प्राक्कल्पितजातित्वादन्यज्जातित्वम् । साऽपि तदाश्रयतयेत्यत्र सापि जातित्वजातिरपीतरजातिषु स्वस्यां च जातित्वव्यवहाराय स्वव्यतिरिक्तजातित्वाख्यजात्यन्तरवती वक्तव्या । अनवस्थादिदूषितमिति मूलस्यानवस्थादिदूषितं परमतं स्यात् । अनवस्थादिदूषणं स्यादिति वा योजना । औपाधिकविशिष्टाद्यमपि तद्वस्तु किं तत इति मूलस्यौपाधिकविशिष्टाद्यमपि तद्वस्तूपाध्युपहिततत्सम्बन्धादिवस्तुत्रयं किं वस्तुत्रयेणात्यन्ताभिन्नं वा तत उक्तत्रयादन्यदत्यन्तभिन्नं किमित्यर्थः । उपहितविशेष्यादिभ्यः भिन्नाभिन्नस्य विशिष्टाख्यपदार्थान्तरस्य मृत्तन्त्वादिभ्यो भिन्नाभिन्नघटपटादिकार्यान्तरवान्सहापरिमाणविशिष्टगगनादिवद्वा स्वमतेऽप्यङ्गीकारात् । अत्यन्ताभेदादावुक्तदोषाभावाच्च न तत्प्रत्याख्यातीति भावः । भेदविशेषाभावेऽपीत्यत्र अकृत्रिमत्वविशिष्टभेदविशेषाभावेऽप्यौपाधिकत्वविशिष्टभेदान्तराभ्युपगमापत्तेरित्यर्थः । महारजनरक्तेऽपि पटे प्राग्विद्यमान एव भेद उपाधिना व्यक्तीक्रियते । न तु तस्मिन्नेव पटे भेदस्सम्पद्यते । किंतु स एव पटो रक्तो जायत इति व्यवहरन्ति । न तु स एव पटस्स्वस्माद्भिन्नो जात इति । एवं चोपाधिना तस्मिन्नेव समवाये भेदः कृतः । पुनस्तत्रैव कथमभेदस्स्यादित्याह । तथा चैकत्वोक्तिरयुक्तैवेति । तदा समवाये भेदोऽस्त्येवेत्यत्र सत्येव पटे नीलत्वविधिवत्पीतत्वनिषेधवच्च सत्येव भेदे औपाधिकत्वविशेषणमस्ति । अकृत्रिमत्वविशेषणं नास्तीत्युक्तं स्यादित्यर्थः । पदार्थानां तत्संसर्गाणां चेत्यत्राविशकलीकरणं च समवायेन चेत्सोऽप्येक एवेति तस्यापि सिद्धत्वादिति शेषपूरणं कर्तव्यम् । नहि प्रागसद्विषयो व्यापार इत्यत्र व्यापारः दण्डताडनचक्रभ्रमणादिव्यापारः ।

नष्टानामपि वस्तूनां भेदो नैव विनश्यतीत्यादेरयं भावः । नष्टानामपि वस्तूनां भेदो नैव विनश्यतीति तैत्तिरीयोपनिषद्वाक्यबलादनुभवबलाच्च घटधर्मिकोऽन्योन्याभावः घटे नष्टेऽपि न नश्यतीत्यभ्युपगन्तव्यः । स चान्योन्याभावो घटेन धर्मिणा विनाऽनुपपद्यमानो घटाभिन्नमृत्पिण्डरूपधर्मिणमादाय पर्यवस्यति । घटो जायते इत्यादौ घटस्य कर्तृत्वादिति । भेदस्तु सर्ववस्तूनां स्वरूपमिति प्रतीयते । तच्च घटस्य प्राक् सत्त्वं गमयतीति भावसाधनत्वाङ्गीकारादित्यत्र भेदनं भेद इति भावसाधनत्वाङ्गीकारादित्यर्थः । अतो धर्मभेदवाद इत्यत्र पदार्थस्य धर्मभूतो भेद इति वादे तदाधारसम्बन्धिलगुडमिव स्वयं यत्पदार्थसम्बन्धि तं भिन्द्यात् । पदार्थाभिन्न इति पक्षे पदार्थस्यैव लगुडस्थानीयत्वेन प्रतियोगितया स्वसम्बन्धिपदार्थान्तरमेव भेदयेदिति भावः ।

वस्तुस्वरूपस्यापरनिरूप्यत्वमित्यत्र वस्तुस्वरूपस्य भेदस्यापरनिरूप्यत्वं स्वरूपेणैवापरनिरूप्यत्वम् । एकस्यैव वस्तुन इत्यस्य भेदस्य वस्तुनैक्ये वस्त्वेव प्रतियोगिप्रतीतिसापेक्षं तन्निरपेक्षं च स्यादित्यर्थः । प्रतीतिद्वयमित्यस्यायं घट इत्येका प्रतीतिः पटाद्भिन्नेत्यपरा । इदं च विशेष्यप्रतियोगिघटितभेद प्रतीतिमपेक्ष्योक्तम् । वस्तुगत्या अयं घट इत्येव प्रतीतिस्सर्वतो व्यावृत्तं घटं विषयीकुर्यात् । यतस्सर्वाऽपि प्रतीतिः पदार्थान्तरासङ्कीर्णतत्तत्पदार्थविषयिणीति सिद्धान्तरहस्यम् । किंतु सूक्ष्मतमत्वमेवेत्यत्र विदारणात्मकभेदस्य घटस्वरूपत्वे तदैव कपालद्वयात्मकत्वेनाल्पत्वम् । कपालद्वयस्यापि विदारणात्मकत्वात्तदैव ततोऽप्यल्पत्वं स्यात् । एवं च तदंशपरम्पराया अपि तदैवाल्पतरत्वमल्पतमत्वं च स्यादित्यर्थः । परं पदं मुक्तप्राप्यपरमात्मस्वरूपम् । ‘‘अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णव’’ इत्यादियोजनामभिप्रेत्याह परं पदमुद्दिश्येति । वस्तुगत्या नित्यनपुंसकत्वान्न काप्यनुपपत्तिः । स्वज्ञानाधिगमं विनेति मूलस्य स्वज्ञानेनेश्वरज्ञानेनाधिगम ईश्वरज्ञानस्यैवावगमनमित्यर्थः । यद्यपि वेदान्तिनां मते ब्रह्मज्ञानेनैव ब्रह्मणोऽवगमेऽपि स्वप्रकाशत्वं तस्यैव ज्ञानरूपत्वात् । तार्किकस्य त्वीश्वरविषयत्वेऽपि न स्वप्रकाशत्वम् । किंत्वीश्वरज्ञानेनैवेश्वरज्ञानस्याप्यवगमे सति । अतस्तन्मतानुवादायैवमुक्तिः । अन्यथा स्वाधिगमं विनेत्यवक्ष्यत् । एवमपि स्वेतरं सर्वविषयकस्य तस्यैव ज्ञानस्य स्वाविषयकत्वादसार्वज्ञ्यं तदवस्थमिति भावः । ‘‘योऽशनाया पिपासे चे’’त्यादिना दुःखनिवृत्तिमुक्तवा तन्मध्ये आनन्दश्रुतिं च पठताऽऽचार्येण ‘‘विमुक्तदुःखास्सुखिनो भवन्ती’’त्यादौ दुःखनिवृत्तिरानन्दश्च सहैवोच्यते । तत्र दुःखनिवृत्तिरेव सुखमिति वदतः पौनरुक्तयं च स्यादिति सूचितम् । ननु निमेषादिशब्दा इत्यादिना उत्तरश्लोकसङ्गतिरभ्युपगमेनोक्ता । चक्षुर्निमेषस्य निद्रितजीवेषु प्रलयेऽपि सत्त्वेनादिसृष्टौ तस्यैव जन्मकथनायोगात् । निमिषत्यत्रेति व्युत्पत्त्या निमेषपरिमितः काल एव गृह्यते ‘‘कला मुहूर्ताः काष्ठाश्चे’’त्युत्तरत्र कालावयववाचकशब्दपङ्क्तौ प्रागपि कालस्यैव ग्राह्यत्वाच्च । अहोरात्रपदेन च तत्परिमितस्त्रिंशत्रिंशद्घटिकात्मकः काल एव गृह्यते । अत उक्तार्थे स्मृतिं चाहेत्येव सङ्गतिः । श्रुतिस्मृत्योरैकार्थ्यायोदीरणमपि जन्मैव । स्थितस्य प्रेरणमीरणम् । उत्पाद्य प्रेरणमुदीरणमित्यर्थाभेदाच्च भौतिकत्वेन विशेषणादित्यत्र ‘अल्पशक्तिरसार्वज्ञं देहहानिरपूर्णता । नाशश्चतुर्विधः प्रोक्त’ इति वचनादल्पशक्तयादिचतुर्विधनाशस्योपचितांशनाशस्य च सत्त्वान्मूलप्रकृतौ च न व्यभिचार इत्यपि ग्राह्यम् । अत एव नन्वस्माभिरित्यादिकमप्यभ्युपगमवादोऽयमिति द्रष्टव्यम् । अन्यथा पक्षविशेषपरिग्रहेऽपि भूतसूक्ष्माख्यपरमाणुषु व्यभिचारापरिहारात् ॥ २२६ ॥