०३ अभ्युपगमाधिकरणम्

ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ

अभ्युपगमाधिकरणम्

ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ

दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचर इति श्लोकस्यास्य शास्त्रप्रणेतुर्गुरोर्मोहनं विना तेन स्वकृतेन दर्शनेनैव कोऽर्थो विषयो लब्ध उपलब्धः । प्रयोजनाख्योऽर्थश्च लब्धः प्राप्तः न कोऽपि । यतस्तन्मते सर्वोऽप्यर्थः प्रत्यक्षगोचरो हि । प्रत्यक्षगोचरस्यैवार्थस्य शास्त्रं प्रतिपादकं चेज् ज्ञातज्ञापकतया व्यर्थं स्यात् । अपूर्वस्तु दर्शनस्य विषयो नास्तीति सूचनाय दर्शनेनैवेत्युक्तम् । नरैश्च विनेयैश्च मोहनं विना शास्त्रादेव किं विषयात्मकं प्रयोजनात्मकं च वस्तु लब्धमुपलब्धं प्राप्तं च न किञ्चिदपि । यतस्सर्वोऽप्यर्थः प्रत्यक्षगोचरो हीति योजना । स्वसम्मत्या वा वस्तुस्थित्या वा यथावस्थितापूर्वार्थप्रतिपादकवाक्यसमूहो हि शास्त्रम् । तदिदं शास्त्रत्वं तस्याप्रमाणत्वे तद्-व्युत्पादनपरे शास्त्रे न स्यात् । अतस्तर्कस्यापि प्रामाण्यं शास्त्रपदेन सूचितमिति भावेनाह शास्त्रत्किमिति वदता सूचितमिति । दर्शनपदं तु दृश्यते स्वतपोबलादिति व्युत्पत्त्या तैस्तैर्वादिभिर् दृष्टसिद्धान्तमात्रे योगरूढं नैतावन्तमर्थमाहेति भावः । तदभावे कथमसाविद्यत्र धर्म्यैक्यारोपाभावे । असौ धर्मारोप इत्यर्थः ॥ २२३,४ ॥