ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ
अन्यत्राभावाधिकरणम्
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ
विषयोत्पत्तावित्यत्र विषयपदमुपलक्षणम् । रूपरसादिपञ्चतन्मात्रकदेहेन्द्रियाद्युत्पत्तावित्यर्थः । अनित्यं घटादिकमनित्यतया नियम्यत इत्यत्र स्वकल्पितप्रध्वंसकालपर्यन्तं परोपद्रवादिना यथा मध्ये नाशो न भवति तथा पालयतीत्यर्थः । अन्यथाऽविशेषाद् बुद्बुद्भवदुत्पत्त्यनन्तरमेव नाशस्स्यात् । इदमेवानित्यस्य पालनं नाम । अचेतनशिलापिण्डं स्वपादस्पर्शमात्रेण चेतनपिण्डीकुर्वन् सदा प्रवहनशीलं यमुनाजलप्रवाहं स्वाज्ञामात्रेण द्वेधा संस्तभ्य मध्येमार्गं स्वपितरं नयन्नगाधगम्भीरोदधिजलोपरि स्वसेतुकरणाय गुरुत्वादधःपतनशीलशिलोच्चयमेव प्लावयन्नत एव कर्तुमकर्तुमन्यथाकर्तुं समर्थोऽपि वेदप्रामाण्यरक्षणाय गगनादिकं न नाशयति । इदमेव नित्यस्य पालनं नामेति युक्तिरप्यनुगन्तव्या
॥ २२२ ॥