०१ रचनानुपपत्यधिकरणम्

ॐ रचनानुपपत्तेश्च नानुमानम् ॐ

श्रीमद्वादिराजपूज्यचरणविरचिता श्रीमन्न्यासुधाटिप्पणी

गुर्वर्थदीपिका

अथ द्वितीयाध्याये द्वितीयः पादः

रचनानुपपत्यधिकरणम्

ॐ रचनानुपपत्तेश्च नानुमानम् ॐ

ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ स्वागमवाक्यानां प्रामाण्यवादिनां समयानां वाक्यैर्भ्रान्तिरूपत्वं दर्शयतीति न युक्तम् । बौद्धाधिकरणान्ते सर्वश्रुतिस्मृतियुक्तिविरुद्धत्वान्नैते पक्षा ग्राह्या इति श्रुत्यादिविरोधेन शास्त्रस्याप्रामाण्यसाधनात्तद्विरोधस्स्यादित्याशङ्क्य परिहरति तथा च बौद्धाधिकरणान्तेन न विरोध इति । त्रैगुण्यविपर्ययाच्चैवेत्यत्र त्रैगुण्यविपर्ययो नाम क्वचित्सत्वगुणप्रचुरत्वं क्वचिद्रजोगुणप्रचुरत्वं क्वचित्तमोगुणप्रचुरत्वमित्यादि । चेतनः सङ्घातपरार्थत्वादिहेतुसिद्ध इत्यत्र सङ्घातस्य पञ्चमहाभूतात्मकदेहस्य परार्थत्वमन्यस्य सुखदुःखसंसारादिहेतुत्वमित्यर्थः । अव्यक्तं च कारणकार्यादिविभागादिहेतुसिद्धमित्यत्र कार्यं घटादि किञ्चित्कारणादुत्पन्नमिति परम्परया महत्तत्वाख्यकार्यमपि किञ्चित्कारणादुत्पन्नम् । तच्च कारणमनवस्थाभियाऽनुत्पन्नमेवेत्यव्यक्तसिद्धिरिति भावः । सूत्रकृता क्रममविवक्षित्वेत्यत्र परपक्षनिरसने सति स्वपक्षसाधनं सुकरमिति भावेन सूर्यवत्परपक्षप्रतिक्षेपे भरवत्तया वेति शेषपूरणं कर्तव्यम् । ईश्वरस्यासङ्ग्रहादिति वदता भाष्यकृता निष्कृष्टार्थस्यैव कथनात् । पातनिकार्थमाहेत्युक्तः पातनिकार्थः फलितार्थ इत्यर्थः । प्रधानमपि प्रतिपादयतीत्युपलक्षणम् । ‘‘बह्वीं प्रजां जनयन्तीं सरूपा’’मिति महत्तत्वस्य च संगृहीतत्वादित्यपि द्रष्टव्यम् । अन्यथा प्रकृतासङ्गतेरपरिहारात् ।

अनेन घटो जायत इत्यत्र अनेन सतः कार्यत्वासम्भवकथनेन । घटो जायत इति व्यवहारेण खलु घटस्य सत्तामङ्गीकुर्वते । सत्त्वे घटस्येदृक् व्यवहार एव न घटत इति भावः । करणत्वकर्मत्वयोर्भेदनियतत्वादित्यत्र उपादीयते अनेनेत्युपादानम् । करणार्थल्युट्प्रत्ययान्तत्वादुपादानस्येति भावः । मायीति साधु इत्यत्र ‘‘अत इनिठना’’वित्यकारान्तादेव पदादिनिठनोर्विधानाद् आकारान्तमायापदात्कथं मायीतीन्नन्तप्रयोग इति शङ्का । ‘‘व्रीह्यादिभ्यश्चे’’ति उत्तरसूत्र एव ईकारान्तव्रीह्यादिपदेभ्योऽपीनो विधानान्न दोष इत्युत्तरम् । सन्दिग्धासिद्धेरित्यत्र यदि बहुत्वमात्रं तर्हि बौद्धशास्त्रादौ व्यभिचारः । यदीयत्तावच्छिन्नं बहुत्वं विवक्षितं तदाऽतीतवर्तमानानागतसाङ्ख्यसमयिषु इयत्ताया निर्णेतुमशक्यत्वात्सन्दिग्धासिद्धिरित्यर्थः । यथा कूर्मशरीरे सन्त्येवेत्यादिना यः कूर्माङ्गदृष्टान्त उक्तः । स तावत्प्रकृतासङ्गत एव । घटादिकार्यं हि मुद्गरप्रहारादिना चूर्णीभवत्प्रत्यक्षेणोपलभ्यते । अतस्तस्य कारणात्मता नाम कारणमृदाकारमात्रस्योर्वरिततैव । न तु घटस्याप्यविनष्टाकारस्यैव तदन्तःप्रवेशोऽपि । एवं पृथिव्या अपि सङ्कर्षणमुखाग्निना दाहेन भस्मीभावे सति तन्मात्रामात्रमुर्वरितं भवति । एवं मूलप्रकृतिपर्यन्तं सर्वस्य कार्यस्य स्वस्वकारणे नाश एव । न त्वविनष्टकार्यरूपस्यैव कारणेषु प्रवेशः । कूर्माङ्गानि तु कूर्मशरीरेणैव सहोत्पन्नानि मध्येमध्येऽनुत्पत्तिमन्त्येव बहिर्निःसरन्ति । पुनरविनष्टान्येव चान्तः प्रविशन्ति । अतः क्वायं दृष्टान्तः क्वच ते दार्ष्टान्तिकम् । सुखदुःखमोहसमन्वितानि हि कार्याणीति यदुक्तं तदपि चिन्त्यम् । देहिनां देहान्तर्वर्तिमनोमात्रस्य दुःखादिरूपत्वसत्वेऽपि महदादिपृथिव्यन्तकार्यराशेस्सुखदुःखादिरूपता न ते मते नाप्यस्मन्मते । अत इदमप्यसिद्धेनैवासिद्धसाधनमिति । क्वाप्येकस्य द्विकर्तृकत्वानुपलम्भादित्यत्र प्रासादादेरंशभेदेन बहुकर्तृकत्वेऽपि स्वस्वांशभागे स्वेकैककर्तृकत्वेन न नियमभङ्ग इति ज्ञेयम् । प्रसवधर्मत्वादित्यस्य उत्पन्नधर्मत्वादित्यर्थः । मे चैतन्यमितिवदिति व्यवहारमात्रत्वादित्यत्राऽत्मनि सर्वथा चैतन्यस्याभावे कुतस्तस्य संसार इति प्रष्टव्यम् । भेदाग्रहादिति चेत्तस्य मुक्तावपि सत्त्वेन संसारित्वप्रसङ्गात् । अगृहीतभेदे मनस्यभिमानात्संसार इति चेत्कोऽयमभिमानो नाम । अहमिदं ममेदमिति वा ज्ञानं चेत् तत्किं मनोनिष्ठमुत आत्मनिष्ठम् । आद्ये पुन आत्मनस्संसारानुपपत्तिरेव । आत्मनश्चेत्कथं न चैतन्यम् । आगन्तुकक्रियानुपपत्तिश्चेत् । अनागन्तुकमेव तदङ्गीकर्तव्यम् । तस्मान्ममेदं मन इत्यनुभवे न काचिदनुपपत्तिः । मानससुखज्ञानादीनामागन्तुकत्वेऽपि सुखमनुभवामि घटमहं जानामि कदलीपक्वमहमिच्छामीत्याद्याकारेण सुखादिस्वामित्वमेवात्मन्यनुभूयते । ‘‘कर्तरि लट्’’ ‘‘स्वतन्त्रः कर्ता’’ इति स्मरणात् । स्वामित्वं च मुख्यं चेतनस्यैव न जडस्य । मुख्ये सम्भवति च नामुख्यग्रहणं युक्तम् । स्वामित्वस्य तदनुभवस्य चात्मनि नित्यत्वान्न काचिदनुपपत्तिः । स्वरूपभूतेच्छादीनां तु नित्यत्वेऽपि विशेषबलात्तद्वत्त्वे तत्स्वामित्वे तदनुभवे च न काचिदनुपपत्तिः ।

यदि चाऽऽस्तिकनास्तिकयोर्वैराग्यरागाभ्यामुपहितचित्तयोरेवायं द्विविधः काम इति मतं तदाप्युत्तरमाह यद्वेति । यदा तु सर्वज्ञेत्यत्र पूर्वं सार्वज्ञस्यैव साधकमनुमानं तद्वाक्यं त्वानुमानिकसार्वज्ञमूलत्वात्तद्वाक्यमप्यनुमानम् । तत्सिद्धत्वात्प्रधानमप्यानुमानिकमित्यौपचारिक वृत्तिमाश्रित्योक्तम् । इदानीं तु साक्षादनुमानसिद्धत्वादेव प्रधानमानुमानिकमिति भेदः । अत्र च सार्वज्ञस्याप्रसङ्गान्नोक्तसाधकत्वेन व्याख्यान्तरस्य सङ्गतिरिति वैचित्रीप्रदर्शनमित्युक्तम् । अचेतनमेव पय इत्यत्र स्ववत्सव्यतिरिक्तवत्सान्तरानयने पयःप्रवृत्त्यदर्शनेन गवाख्यमातृरूपचेतनपे्ररितमेव पयः प्रवर्तते । घननिर्मुक्तं चाम्बु शुष्कजम्बीरादौ रसोदयादर्शनेन विचित्रवृक्षजीवचैतन्यसहकृतमेव प्रवर्तते । अन्यथा तेषुतेषु विचित्ररससम्पत्तेर्निर्निर्बन्धनत्वप्रसङ्गः । गङ्गायाः स्त्रीरूपेण शन्तनुभार्यात्वस्य भीष्ममातृत्वस्य भगीरथानुगमनस्य च प्रसिद्धत्वात् । अस्ति जलान्तः काचन देवता । तन्निदर्शनेन सकलनदीष्वपि चेतनानुप्रवेशस्य सिद्धत्वान्न तन्निदर्शनं परस्य । तृणमपि निर्जीवपशुशरीरे क्षीरपुष्ट्यादेरजननात् सजीवायामपि वन्ध्यायां गवि क्षीरस्यादर्शनाच्च चेतनानुगृहीतमेव कार्यकारि । अयोऽयस्कान्तयोश्चाचेतनस्यैव प्रवृत्तिहेतुत्वेऽयसाऽयस्कान्तप्रवृत्तिरपि स्यात् । अतो विशेषशक्तयाऽऽधात्री तत्रापि काचिद्देवताऽस्तीति सिद्धम् । किं चाचेतनस्य स्वत एव प्रवृतौ नौरेव नदीं कुतो नोत्तरयति । अन एव वनात्कुतो न फलमानयति । घट एव च कुतो न गृहेगृहे जलमाहरति । अतस्स्पष्टदृष्टान्तानुसारेणास्पष्टदृष्टेऽप्यदृष्ट एव कश्चित्कल्पनीयः । श्रुतिस्तु ‘‘न ऋते त्वत्क्रियते किञ्चनारे’’त्याद्या सर्वत्र भगवन्तमेव कर्तारमाह । ईश्वरस्तु सर्वं स्वशक्तयैव प्रेरयितुं शक्तोऽपि निरीश्वरवादिनां मोहाङ्कुरजननाय कतिपयपदार्थानस्पष्टदृष्टकर्तृकतया प्रेरयन् पुनस्तमेवाङ्कुरं बहुतरदवाग्निना दग्धुकामो न तथा करोति । अतो न लौकिकमर्यादया नाप्यलौकिकमर्यादया परस्य निदर्शनानीत्यूह्यम् । एतस्य वा अक्षरस्येति प्रतीकग्रहणेन ‘‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यस्स्यन्दन्ते’’ इत्यादिश्रुतिं गृह्णाति । क्षेत्रोपादानकानामित्यत्र क्षेत्रान्तरुप्तं बीजमुपलक्ष्यते । इदं चोपलक्षणम् । मृत्कनकतन्त्वाद्युपादानकेषु घटकुण्डलपटादिषु घटी कुम्भकारः कुण्डली देवदत्तः पटी तन्तुवाय इति प्रयोगदर्शनान्मृदादिषु तददर्शनाच्च चेतनेष्वेव घटस्वामित्वापरपर्यायं घटित्वकुण्डलित्वादिकम् । उपादाने तु मनोरूपत्वापरपर्याय मनोमयत्वमेव । रजतमहं जानामीति मानसभ्रमेऽपि तत्स्वामित्वादेवाहं शब्दोदिते जीवे एव जानामीति प्रयोगः । न तु मनसि इत्याद्यपि द्रष्टव्यम् । स्वामित्वमात्रेण चेत्यत्र स्वातन्त्र्यापरपर्यायमीशदत्तं स्वामित्वं चेतनस्वरूपमेव । तच्च कदाचिद् व्यज्यते । कदाचिच्छक्तयात्मना तिष्ठति । अतो न तस्योपादानापेक्षेति युक्तिरपि द्रष्टव्या । तस्येच्छोपादानत्वेऽपीत्यत्र चित्संवलनान्मनोमात्रस्यैवेच्छोपादानता दृष्टा । नतु घटपटादौ केवलजडे । अतश् चित्संवलनरहितायाः केवलजडायाः प्रकृतेः कर्तृत्वशङ्कैव । न हि भवति काकस्य कार्ष्ण्याद्धवलः प्रासाद इत्यप्यूह्यम् ॥ २२१ ॥