०८ समयपादोपसंहारः

अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः

समयपादोपसंहारः

अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः

सुधा

पादार्थमुपसंहरति अतोऽशेषेति ।

अनुव्याख्यानम्

अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ॥

नारायणः श्रुतिगणतात्पर्यादवसीयते ॥

साङ्ख्यादिविरोधिसमयानां निरस्तत्वात्प्रथमाध्याये यत्सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः ।

**परिमल **

स्वपक्षस्यात्र पादेऽसमर्थनात्तदुपसंहारः कथमित्यतोऽभिप्रायमाह साङ्ख्यादीति ॥ लक्षणद्वयमिति । जगज्जन्मादिहेतुत्वगुणपरिपूर्णत्वरूपं जन्मादिसूत्रब्रह्मपदाभ्यामुक्तमित्यर्थः ।