अतः परमशास्त्रोरुद्वेषादुदितमासुरैः
रामानुजाधिकरणशरीरविमर्शः
अतः परमशास्त्रोरुद्वेषादुदितमासुरैः
सुधा
एतेनैतदपि प्रत्युक्तम् । यत्केचिदिदमधिकरणं साङ्ख्यादिवत्पञ्चरात्रस्याप्यप्रामाण्यमाशङ्क्य तन्निरासार्थमिति वर्णयन्ति । तथा हि । उक्तरीत्या ‘उत्पत्त्यसम्भवात्’ ‘न च कर्तुः करणम्’ इति सूत्रद्वयेन पञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा विज्ञानादिभावे वा तदप्रतिषेध इति सिद्धान्तितम् । वाशब्दात्पक्षो विपरिवर्तते । विज्ञानं चादि चेति परम्ब्रह्म विज्ञानादि, सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपाद(कस्य)नस्य शास्त्रस्य प्रामाण्यं न प्रतिषिध्यते । विप्रतिषेधाच्च प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे । यथोक्तं परमसंहितायाम् । ‘अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते । प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । स ह्यनादिरनन्तश्च परमार्थेन निश्चित’ इति ।
पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः सार्थक; स्यात् । न च व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते । न हि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति । अतिप्रसङ्गात् । प्रकरणाननुगुणं चैतत् । परमतनिरासो ह्यत्र प्रकृतो न तु स्वमतसमर्थनम् । कृतं च तत् ‘न विलक्षणत्वादि’त्यादिना । सूत्राक्षराननुरूपं चैतव्द्याख्यानम् । न ह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित्प्रयुक्तम् । तदप्रतिषेध इति च व्यर्थम् । न प्राज्ञत्वादित्येव वक्तव्यम् । लघु चैवं सूत्रं व्यक्तं च स्यात् ॥ तस्मादुक्त एव सूत्रार्थ इति स्थितम् ।
शेषवाक्यार्थचन्द्रिका
उक्तदूषणातिदेशेन रामानुजमतमपि निरस्तमित्याह एतेनेति ॥ तत्प्रतिपादनस्येति । तत्प्रतिपादकस्येत्यर्थः । न च सङ्कर्षणादिषु जीवादिशब्दानामनुपपत्तिः । तेषां जीवाद्यधिष्ठातृत्वेन तदुपपत्तेः ॥ वाशब्दादिति । ‘अपि वा कर्तृसामान्यादि’त्यादौ तद्दर्शनादिति भावः । इतीत्यस्य वर्णयन्तीति पूर्वेणान्वयः । अनभिप्रेतार्थान्तरं कल्पयित्वा छलेन सूत्रे पूर्वपक्षोक्त्ययोगमुपपाद्य परमतनिरासकेऽस्मिन्पादे स्वमतसमर्थनस्यासङ्गतत्वात् । तत्परत्वेऽस्याधिकरणस्य पादान्तर्भावासम्भवात्तदसङ्गतिश्चेत्यत आह प्रकरणेति ॥ कृतं चेति । ततश्च तेन गतार्थत्वमिति भावः । विज्ञानादिशब्देन ब्रह्मोक्तिश्च क्लिष्टेत्याशयेनाह सूत्राक्षरेति ॥ उक्त एवेति । शाक्तमतनिरास एवेत्यर्थः ।
**परिमल **
केचिदिति । रामानुजीयाः ॥ विपरिवर्तत इति । प्राक्सूत्रद्वयोक्तात्पक्षादयं पक्षस्तद्विपरीत इति द्योत्यत इत्यर्थः ॥ विज्ञानं चादि चेतीति । विज्ञानरूपं जगदादिभूतं च भवतीति । परब्रह्मविज्ञानादिशब्देन गृह्यत इत्याह परं ब्रह्मविज्ञानादिति । सूत्रार्थमाह सङ्कर्षणेति ॥ तदिति । तस्य प्रतिपादनं यस्मिन् तस्य शास्त्रस्येत्यर्थः । निश्चित इत्यत्रेतिशब्दद्वयपाठः स्वरसः । तस्य इति केचिद्वर्णयन्तीत्यन्वयः । एतेनेत्युक्तं व्यनक्ति पञ्चरात्रेति । व्यधिकरणानीति । अनभिप्रेतार्थविषयाणीत्यर्थः ॥ अतिप्रसङ्गादिति । पूर्वमतेष्वपि तदनभिप्रेतार्थदूषणोक्तिपराणि तदुद्धारार्थानि कानिचित्कर्तव्यानि स्युरित्येवमतिप्रसङ्गादित्यर्थः । क्वापि पञ्चरात्रप्रामाण्यसमर्थनस्याकृतत्वदिह क्रियत इत्यत आह कृतं च तदिति ।
यादुपत्यं
रामानुजीयानां व्याख्यानमप्यत्र निरस्तमिति दर्शयति एतेनैतदपीति । तत्प्रतिपादनस्येत्यत्र बहुव्रीहिः । अत्रेति । एतन्मीमांसाशास्त्र इत्यर्थः ॥ इत्येव वक्तव्यमिति । प्राज्ञपदं च ‘वदतीति चेत्’ ‘तद्गुणसारत्वादि’त्यत्र ब्रह्मणि प्रयुक्तमित्यर्थः ।
**श्रीनिवासतीर्थीया **
केचिद् रामानुजाः । उक्तरीत्या मायावाद्युक्तरीत्या ॥ पक्ष इति । पक्षः पूर्वपक्षो विपरिवर्तत इत्यर्थः । प्रतिपादनस्य प्रतिपादकस्य ॥ अस्मिन्नपि तन्त्र इति । पञ्चरात्र इत्यर्थः ॥ तथा च वासुदेवादिति वाक्यं यदि जीवोत्पत्त्यभिधायकं स्यात्तदैव परस्परविरुद्धत्वात्पञ्चरात्रमप्रमाणं स्यान्न चैवं, किन्नम तद्वाक्यं विज्ञानादिशब्दवाच्यपरब्रह्मप्रतिपादकमित्यर्थः । सम्बन्धो भवतीति शेषः। स हि पुरुषशब्दवाच्यो जीवः । एतेनेत्युक्तं विशदयति पञ्चरात्राप्रामाण्यशङ्कायामित्यादिना । तच्छङ्कां पञ्चरात्राप्रामाण्यशङ्काम् । एतावदधिकरणम् एतावत्सूत्रोपेताधिकरणम् । एतत् पञ्चरात्रप्रामाण्यसमर्थनम् । अत्र अस्मिन्पादे । न प्राज्ञत्वादिति । वासुदेवादिति पञ्चरात्रवाक्यमप्रमाणं न, कुतः । प्राज्ञत्वात् । प्राज्ञस्य भगवतोऽत्र प्रतिपाद्यतयाऽङ्गीकारादित्येव सूत्र स्यादित्यर्थः । प्राज्ञपदं च ब्रह्मणि अत्र शास्त्रे ‘वदतीति चेन्न प्राज्ञो हि’ ‘तद्गुणसारत्वात्तु तव्द्यपदेशः प्राज्ञवदि’ति प्रयुक्तमस्तीति ‘न प्राज्ञत्वा’दित्युक्ते ‘न ह्यत्रे’त्युक्तदूषणावकाशो नेत्यर्थः ।
**वाक्यार्थरत्नमाला **
अपि वा कर्तृसामान्यादित्यादाविति इति पूर्वमीमांसासूत्र इत्यर्थः ॥
आनन्दाब्धिप्रजातत्रिदशतरुगुरुश्रीनिवासाऽनुजश्री
विद्याधीशाख्यरत्नाद्भुतविदमृतगोः केशवाचार्यवर्यात् ।
रुग्मिण्याय्यां प्रजातस्य विबुधनरसिंहस्य (रुक्मिण्यायी
प्रजातश्रीविबुधनरसिंहीयगुर्वीय) गुर्वीयसौध
व्याख्यापाठादिशोधात्मकविवृत्तिकृतावन्तगः सामयः पात् ॥
इति श्रीमत्सकलविद्वच्चक्रचूडामणिश्रीमद्गुरुराजवर्यविरचितश्रीन्यायसुधाशेषवाक्यार्थचन्द्रिकापाठादिशोधे पाण्डुरङ्गिनरसिंहकृतायां वाक्यार्थरत्नमालायां समयचरणः ॥