०६ अपव्याख्यानिरासोपसंहारः

अतः परमशास्त्रोरुद्वेषादुदितमासुरैः

अपव्याख्यानिरासोपसंहारः

अतः परमशास्त्रोरुद्वेषादुदितमासुरैः

सुधा

अपव्याख्याननिराकरणमुपसंहरति अतः परमेति ।

अनुव्याख्यानम्

अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ॥

दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥

वीक्षायामपि न क्षमं व्यधिकरणमित्यर्थः । तर्हि कस्मादुदितमित्यत उक्तं परमेति । परमशास्त्रं पञ्चरात्रम् । द्वेष एव किं निबन्धन इत्यत उक्तम् आसुरैरिति । भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषोऽसुराणाम् । न तु दोषदर्शननिमित्तः । एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः । आसुरैरेवोक्तं न तु सूत्रकारेणेत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति ।

शेषवाक्यार्थचन्द्रिका

सर्वेषां वृत्तिकाराणामसुरस्वभावत्वरूपासुरत्वानुपपत्तेराह एते चेति । एते च वृत्तिकाराः केचिदसुरसम्बन्धिनः केचित्तत्स्वभावाश्चेति योजना । तत्र सङ्करादयोऽसुरस्वभावा इतरे तत्सम्बन्धिन इति विवेकः ।

**परिमल **

आसुरैरित्यत्राण्प्रत्ययार्थमाह । एते चासुरसम्बन्धिन इति । एते भाष्यकारा भामत्यादय इत्यर्थः । वृत्तिकारैरप्येवमेव वर्णितमिति तदनुसारिभाष्यादिकमित्यत आह तत्स्वभावाश्च वृत्तिकारा इति । यद्वा एते च वृत्तिकाराः सूत्रार्थवर्णनकृतोऽसुरसम्बन्धिनोऽसुरस्वभावाश्चेति समानाधिकरणं व्याख्येयम् ।

यादुपत्यम्

एते चासुरसम्बन्धिन इति । एते च वृत्तिकारा इत्यन्वयः । असुरसम्बन्धिन इत्यादिना तस्येदमित्यर्थे वा तत्र भवतीत्यर्थे वाऽयं तद्धितो व्याख्यात इति ज्ञातव्यम् । सङ्करादीनामसुरस्वभावत्वमितरेषां तत्सम्बन्धित्वमिति विवेकः ।