०१ अपव्याख्याप्रत्याख्यानम्

ॐ विप्रतिषेधाच्च ॐ

अपव्याख्याप्रत्याख्यानम्

ॐ विप्रतिषेधाच्च ॐ

सुधा

केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते । तथा हि । पाञ्चरात्रिका वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञकं मनो जायते । प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायत इति प्रक्रियामाहुः ॥ तत्र सूत्रम् उत्पत्त्यसम्भवादिति । वासुदेवात्सङ्कर्षणो नाम जीवो जायत इति तावदयुक्तम् । जीवस्योत्पत्त्यसम्भवात् । उत्पत्तिमतो हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् । ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् । न जायते (न) म्रियत इत्यादिश्रुतिस्मृतिविरोधाच्च ॥

न च कर्तुः करणम् । सङ्कर्षणसंज्ञकाज्जीवात्प्रद्युम्नसंज्ञकस्य मनसो जन्मापि पञ्चरात्रोक्तं नोपपद्यते । न हि लोके कर्तुर्देवदत्तादेः (करणं) परश्वधाद्युत्पद्यमानं करणं दृश्यते । यदा चोत्पद्यते तदा कर्मैव न करणम् । जीवश्च कर्ता मनश्च करणम् । ततस्तन्न ततो जनिमद्भवितुमर्हति । एतस्माञ्जायते प्राणो मनःसर्वेन्द्रियाणि चेतीश्वरादेव मनोजननश्रवणाच्च । एतेन प्रद्युम्नादनिरुद्धसंज्ञकोऽहङ्कारो जायत इत्यपि प्रत्युक्तम् ।

अथापि स्यात् । नैवैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते । किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते । तस्मान्नायं दोष इति ॥ अत्र परिहारं पठति विज्ञानादिभावे वा तदप्रतिषेधः । परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि विज्ञानादिषाड्गुण्यसद्भावे तत एव चेश्वरत्वेऽभ्युपगम्यमानेऽपि तस्योत्पत्त्यसम्भवदोषस्याप्रतिषेधः । प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः । तथा हि । न तावदेते चत्वारः परस्परं भिन्नाः । अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः । अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत् । निरतिशयत्वात् । न चैते भगवद्व्यूहाश्चतुःसङ्ख्यायामेवावतिष्ठेरन् । तद्व्यूहानामनन्तत्वाभ्युपगमात् ॥

विप्रतिषेधाच्च । परस्परविरोधश्च पञ्चरात्रे भवति । ज्ञानैश्वर्यबलवीर्यशक्तितेजांसि भगवतो गुणा इति क्वचिदुच्यते । आत्मान एवैते भगवन्तो वासुदेवा इति क्वचिद्भगवत्स्वरूपत्वमित्यादि । वेदप्रतिषेधश्चात्र भवति । भगवाञ्छाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन्महत्याम्नाये निष्ठामनधिगच्छन्यः सर्वपरो धर्मो यस्मान्न भूयोऽस्ति कथं तं विद्यामित्येवं बलवद्विवेकमातिष्ठमानो बभूव । तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तमिति वेदनिन्दादर्शनात् । तथा चान्यत्र । ‘अधीता भगवन्वेदाः साङ्गोपाङ्गाः सविस्तराः । श्रुतानि च मयाऽङ्गानि वाको वाक्ययुतानि च । न चैतेषु समस्तेषु संशयेन विना क्वचित् । श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यती’ति । तस्मादयुक्तं पञ्चरात्रशास्त्रमिति ।

तामिमामपव्याख्यां प्रत्याख्याति पञ्चरात्रेति ।

अनुव्याख्यानम्

पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ॥

सूत्राण्यतिविरुद्धं तत् ………….

आचक्षते व्याचक्षते । यदित्यस्यार्थे यदिशब्दः । तद्-व्याख्यानमति(अति)शयेन विरुद्धं स्वव्याहतं प्रमाणान्तरप्रतिहतं चेत्यर्थः । तत्कथमित्यतः स्वव्याहतिं तावदुपपादयति यत इति ।

अनुव्याख्यानम्

…….. ….. यत आह स भारते ॥

यस्मात्सूत्रकार एव भारते पञ्चरात्रस्य प्रामाण्यमाह । तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः ।

शेषवाक्यार्थचन्द्रिका

केचिदिति । मायावादिन इत्यर्थः । उत्पत्त्यसम्भवमेव विवृणोति उत्पत्तिमतो हीति । जन्यो भावो विनाशीति व्याप्तेरिति भावः । अस्त्वनित्यत्वमपि तस्येत्यत आह ततश्चेति । मोक्षग्रहणं स्वर्गनरकयोरुपलक्षणम् । अनित्यत्वे जीवस्य परलोकिनोऽभावात्परलोकाभावः स्यात् । ततश्च स्वर्गनरकापवर्गाभावोपत्तेर्नास्तिकमतप्रवेश इति भावः । उत्पत्त्यादिमत्वे दोषान्तरमाह न जायत इत्यादि । ननु च देवदत्तः परशुं कृत्वा तेन पलाशं छिनत्ति । प्रयत्नेनेन्द्रियार्थात्ममनःसन्निकर्षलक्षणज्ञानकरणमुत्पाद्यात्मा अर्थं विजानात्येवेति लोके कर्तुः सकाशात्करणस्योत्पत्तिर्द्दृष्टैवेति कथं तददर्शनमित्यत आह यदा चेति । माऽस्तु करणस्य कर्तुः सकाशादुत्पत्तिर्मनसस्तु जीवादुत्पत्तिः किन्न स्यादित्यतो मनसोऽपि करणत्वाज्जीवस्य च कर्तृत्वान्न तस्य तस्मादुत्पत्तिरित्याह जीवश्चेति ॥ एतेनेति । मनोबुद्धिरहङ्कारश्चित्तं चेतेनेति पञ्चरूपस्यापि मनसो भगवतो जन्मप्रतिपादकोदाहृतप्रमाणेन मनोवृत्तिविशेषस्याहङ्कारस्यापि भगवत एव जन्मनः सिद्धत्वाज्जीवरूपकर्तृजन्यप्रद्युम्नात्तदुत्पत्तेरुक्तश्रुतिविरोधेनैवेत्यर्थः ॥

ज्ञानैश्वर्येति । ज्ञानं चैश्वर्यं चेति तयोः शक्तिरान्तरं सामर्थ्यं, बलं शरीरसामर्थ्यं वीर्यं शौर्यं, तेजः प्रागल्भ्यमिति विवेकः । आद्येऽपि किं ते व्याहतकामाः स्युरुत नेति वाच्यम् । तत्राद्ये कार्यासिद्धिप्रसङ्ग इत्यभिप्रेत्य द्वितीये एकेनैवेश्वरेण तत्कार्यसिद्धेरितरानर्थक्यं भगवानेवैको वासुदेवः परमार्थतत्त्वमिति सिद्धान्तहानिश्चेत्याह अनेकेश्वरेति ॥ निरतिशयत्वादिति । पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिषु ज्ञानैश्वर्यादितारतम्यकृतविशेषस्यानङ्गीकारेण निरतिशयत्वादित्यर्थः । मृद्घटयोरतिशयवतोरेव कार्यकारणभावदर्शनेनातिशयाभावे तदभ्युपगमस्य दृष्टवैलोम्यापादकत्वेनायोगादिति भावः । न चैते भगवद्य्वूहा इत्यत्र व्यूहशब्दो व्यूहिपर इति ध्येयम् ॥ अभ्युपगमादिति । ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्य भगवद्व्यूहत्वाङ्गीकारादित्यर्थः ॥ निष्ठामिति । इदमित्थमेवेति निश्चयमित्यर्थः ॥ शब्दवच्छास्त्रमिति । असन्दिग्धार्थकैरेव शब्दैर्युक्तत्वात् पञ्चरात्रं शब्दवच्छास्त्रमित्यर्थः । यद्वा श्लोकात्मकं शास्त्रमित्यर्थः । तथा चान्यत्रेति । परमसंहितायामित्यर्थः ।

मूलस्य यद्युपबन्धात्तर्कपरत्वेन योजनाया विपर्ययपर्यवसाने बाधप्रसङ्गेन व्याचक्षत इत्यत्र व्याचक्षीरन्निति लकारव्यत्ययस्य, अतिविरोधः स्यादित्येतावतैव पूर्तेरतिविरुद्धमित्यत्र कर्मणि निष्ठाप्रत्ययवैय्यर्थ्यस्य, तदित्यस्य तर्हीत्यर्थत्वस्य अतिविरुद्धमित्यनन्तरं स्यादित्यध्याहारस्य च कल्पनाप्रसङ्गानुपपत्तेस्तर्कपरतां परित्यज्य मूलं व्याख्याति यदित्यस्यार्थ इति ॥ स्वव्याहतमिति । सूत्रकारस्य स्वव्याहतिप्रसञ्जकमित्यर्थः । प्रमाणान्तरप्रतिहतमित्यत्र सूत्रकारस्य प्रमाणान्तरप्रतिहतिप्रसञ्जकमित्यर्थः ।

यादुपत्यम्

एतेन प्रद्युम्नादिति । कर्तृजात्प्रद्युम्नादित्यर्थः । अहङ्कारस्यापि मनोवृत्तिविशेषस्य करणरूपत्वेनेत्यर्थः ॥ निरतिशयत्वादिति । वासुदेवात्सङ्कर्षणस्य, सङ्कर्षणाच्च प्रद्युम्नस्य, प्रद्युम्नाच्चानिरुद्धस्यातिशयाभावात् । भवितव्यं हि कार्यकारणयोरतिशयेन, यथा मृद्घटयोः । न ह्यसत्यतिशये कार्यं कारणमित्येवं कल्प्यत इत्यर्थः । निष्ठाम् इदमित्थमेवेति निश्चयम् ॥ शब्दवदिति । असन्दिग्धार्थकैरेव शब्दैर्युक्तमित्यर्थः । तथा चान्यत्रेति । पञ्चरात्र एव परमसंहितारूपप्रदेशान्तरेऽप्युक्तमित्यर्थः । स्वव्याहतमिति । सूत्रकारस्य स्वव्याहतिप्रसञ्जकमित्यर्थः । एवमग्रेऽपि ।

**श्रीनिवासतीर्थीया **

ॐ विप्रतिषेधाच्च ॐ ॥ वेदस्य विप्रतिषेधो निन्दा अत्र पञ्चरात्रे । बलवद्विवेकं महान्तं विचारम् । अन्यत्र पञ्चरात्र एव स्थलान्तरे । परमसंहितारूपे प्रदेशान्तरे । वेदविप्रतिषेधो भवतीत्यनुवर्तते ॥

**वाक्यार्थरत्नमाला **

नजायत इत्यादीति । नजायते म्रियत इति श्लोकः । काठके गीतायां च किञ्चित्पाठभेदेनास्ति । तदभिप्रायेण श्रुतिस्मृतीति मूले उक्तमिति द्रष्टव्यम् । भामत्यनुसारेण व्याचष्टे । ज्ञानं चैश्वर्यं चेत्यादिना । भाष्यभामत्याद्यनुसारेणाह । आद्येऽपीत्यादिना । मध्ये मध्ये व्याख्येयमस्ति ।