अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम्
अणुवाममतनिरासः
अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम्
सुधा
मतान्तरमुत्थापयिति अपि हीति ।
अनुव्याख्यानम्
……. अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ।
अणुवामा …….. …….
अन्येऽपीत्यन्वयः । तानेव विशेषनाम्नाऽऽह अणुवामा इति । अस्य मतस्य लोके प्रचुरतां सूचयितुं हिशब्दः । सर्वज्ञमित्युपलक्षणम् । जगत्सृष्ट्याद्युपयुक्तसकलकरणोपेतम् । इदमुक्तं भवति । शिवसहिता शक्तिर्जगज्जननीत्यभ्युपगच्छतो मम नोक्तदोषः । शिवस्य स्वाभाविकसार्वज्ञादिमत्त्वेन देहेन्द्रियानपेक्षणात् । लीलाविग्रहग्रहणेन शक्ति(सम्भोगस्या)साहाय्यकरणस्याप्युपपत्तेरिति । तदिहं दूषयति न तदिति ।
अनुव्याख्यानम्
…… न तद्युक्तम् …….
शेषवाक्यार्थचन्द्रिका
ननु केवलायाः शिवसहिताया वा शक्तेः शिवदेहोत्पादकताया उक्तरीत्याऽनुपपत्त्या सदेहत्वासम्भवेन सदेहस्य शिवस्य सहकारित्वायोगाद्विदेहस्य च तस्येन्द्रियादिविकलत्वेन कर्तृत्वोपयोगिज्ञानाद्यसम्भवेन शक्तिसाहाय्याचरणानुपपत्तिरेवेति कथमनेन पूर्वं प्रसञ्जितदोषपरिहार इत्यत आह इदमुक्तं भवतीति ॥ नोक्तदोष इति । उत्पत्त्यसम्भवादित्युक्तदोषो नेत्यर्थः । पुरुषाननुगृहीतस्त्रीत्वस्य हेतोरसिद्धत्वादिति भावः ॥ अनपेक्षत्वादिति । ज्ञानादिजन्मन्येव शरीरादेरुपयोगदर्शनेन जन्यज्ञानस्यैव देहेन्द्रियाद्यपेक्षत्वसिध्द्या नित्यज्ञानत्वादीश्वरस्य शरीराद्यभावेऽपि तदुपपत्तेरित भावः । तथाऽप्यशरीरस्य शक्तिसम्भोगानुपपत्त्या न शक्तिसाहाय्याचरणमित्यत आह लीलेति । इतीत्यस्येतीदमिति पूर्वेण सम्बन्धः ।
**श्रीनिवासतीर्थीया **
स्वाभाविकेति अजन्येत्यर्थः ।