वामैरन्यदुदीर्यते
मध्यमवाममतनिरासः
वामैरन्यदुदीर्यते
सुधा
इदानीमधिकाशङ्कया मतान्तरमुत्थापयति वामैरिति ।
अनुव्याख्यानम्
……. …… वामैरन्यदुदीर्यते ।
मध्यवामैरित्यर्थः । अन्यन् महावामसिद्धान्तात् । किं तदित्यत आह शिवेति ।
अनुव्याख्यानम्
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ।
इति …….. ………
शिव उपसर्जनं यस्याः सा शिवोपसर्जना । इदमित्यस्यैव व्याख्यानं समन्ततो देशे काले च वर्तमानं कार्यमिति । एतदुक्तं भवति । नोत्पत्त्यसम्भवोऽस्मन्मतेऽस्ति । अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रस(भ)वस्याङ्गीकृतत्वात् । न चैवं (त)द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते । शिवस्य शक्तिं प्रत्युपसर्जनत्वाङ्गीकारादिति ॥ एतत्प्रतिषेधति तच्चेति ।
अनुव्याख्यानम्
….. तच्चोपपन्नं न ……..
अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः ।
शेषवाक्यार्थचन्द्रिका
व्याख्यानमिति । ततश्च न समन्तत इत्यस्य वैय्यर्थ्यमिति भावः ।