१४ अधिकरणोपसंहारः

विष्णुरेको गुणार्णवः

अधिकरणोपसंहारः

विष्णुरेको गुणार्णवः

सुधा

अधिकरणार्थमुपसंहरति विष्णुरिति ।

अनुव्याख्यानम्

………… विष्णुरेको गुणार्णवः ॥

तस्मादिति सिद्धमिति शेषः । ननु स्कन्दादिमतान्यप्युक्तार्थविरोधीनि सन्ति तानि कुतोऽत्र न निराक्रियन्त इत्यत आह स्कन्देति ।

अनुव्याख्यानम्

स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ॥

निराकृतानि ….. ………….

अमुतो न्यायतः पाशुपतमतनिराकरणन्यायतः । अतो न निराक्रियन्त इति शेषः । कथमनेन न्यायेन तन्निराकरणमित्यत आह अशेषेणेति ।

…….. अशेषेण सिद्धान्तस्याविशेषतः ॥ २२११ ॥

कार्त्स्न्येन तदीयसिद्धान्तानां पाशुपतसिद्धान्तस्य चाविशेषतः । केवलदेवतान्तरपरिग्रहेणैव सिद्धान्तभेदः । प्रक्रिया तु सर्वत्र समानैव । अतः पूर्वनिराकरणन्यायेनैव तन्निराकरणं युक्तमेवेति भावः ॥ २२११ ॥

**परिमल **

इति शेष इति । आदौ ‘तस्मादि’ति, अन्ते ‘इति सिद्धमि’ति योज्यमित्यर्थः । अमुतो न्यायत इति । पत्युः पदस्थाने स्कन्दस्येत्यादिपदं प्रक्षिप्य सूत्राणि योज्यानि । स्कन्दादेरसामञ्जस्ये प्रमाणानि तत्त्वनिर्णयादावुक्तानि ध्येयानीति भावः ॥ २२११ ॥

॥ इति पत्युरधिकरणम् ॥