१३ शैवपुराणानिच श्रुतियुक्तिभिर्विरुद्धानि

पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा

शैवपुराणानिच श्रुतियुक्तिभिर्विरुद्धानि

पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा

सुधा

मा भूच्छतिभिः शिवस्य जगत्कारणत्वावधारणं शैवपुराणैस्तु भविष्यति । न च तान्यपि विष्णुपराणि । उपक्रमादिबलेन शिवविषयतया निश्चितत्वदित्यत आह पुराणानीति ।

अनुव्याख्यानम्

पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ॥

पुराणाद्यैर् वैष्णवैः । विरुद्धत्वात् प्राक् प्राबल्यचिन्तायाः सत्प्रतिपक्षत्वात् । तदुत्तरं बाधितत्वाच्च । तत् तत्र, शिवस्य जगत्कारणत्वे ।

शेषवाक्यार्थचन्द्रिका

पुराणैस्त्विति । तेषु विष्ण्वादीनामुपसर्जनत्वोपपादनपूर्वकं शिवादीनां जगत्कारणत्वस्याभिहितत्वादिति भावः । उपक्रमादिभिरिति । तात्पर्यलिङ्गविरोधान्न तेषां विष्णुविषयत्वमिति भावः । प्रागिति । शैवपुराणापेक्षया वैष्णवपुराणानां विशेषानिर्धारणायां सत्प्रतिपक्षत्वमित्यर्थः । तदुत्तरं त्विति । श्रुतिसंवादित्वेन वैष्णवपुराणानां प्राबल्यनिर्णयानन्तरमित्यर्थः ।