१२ शैवश्रुतयश्च विष्णुवाचकाः

शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः

शैवश्रुतयश्च विष्णुवाचकाः

शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः

सुधा

नन्वेतदस्माकमपि समानम् । तथा हि । यद्यपि पाशुपतादिकमशक्यावधारणप्रमाणभावम् । तथाऽपि ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति ।’ ‘एको रुद्रो न द्वितीयाय तस्थे ।’ ‘स इमान् लोकानीशत ईशनीभिरि’त्याद्याः श्रुतयस्तावच्छिवस्य जगज्जन्मादिहेतुतामाचक्षते । शिवादिनामोपेतत्वात् । न च तथाविधस्यासमञ्जसत्वं सम्भवतीत्युदाहृताः श्रुतयोऽन्यथा योज्याः । अतः सम्बन्धानुपपत्त्यादिकं श्रुतिरेवाभासयिष्यति । तद्घटकं वा किमपि कल्पयिष्यतीत्यत आह शिवादीति ।

अनुव्याख्यानम्

शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥

भवेदेवं यद्येताः श्रुतयः शिवपराः स्युः । न चैवम् । किन्तु शिवादिनामयुक्ता अपि विष्णुविषया एव ।

नन्वेतत्कुतः । एवं सत्यस्माभिरपि वक्तुं शक्यत एव । एको नारायण इत्याद्या अपि श्रुतयः शिवपरा इति । मैवम् । शिवादिनाम्नां विष्णौ शक्तिमत्त्वात् । नारायणादिनाम्नां शिवे शक्त्यभवात् । अत्रापि किं मानमित्यत आह नामानीति ।

अनुव्याख्यानम्

नामानि सर्वाणि च यमेको यो देवनामधाः ॥

विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥

न नारायणनामानि तदन्येष्वपरे हरौ ॥

इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥

अनेन ‘नामानि विश्वाभि न सन्ति लोक’ इत्यादिकां श्रुतिमुपादत्ते । ‘एक’ इत्यनेन । ‘यो देवानां नामधा एक एवेति । नामानि धत्त इति नामधाः । नान्यस्य वाचकानि । न तदन्येषु वर्तन्ते । अपरे शिवादिशब्दाः । उक्तः समन्वयश्च तत्र मानमिति सम्बन्धः । समन्वयग्रहणेनैतदपि परिहृतम् । एता अपि श्रुतीरहं शिवादिवि(ववि)षयतया व्याख्यास्यामीति । उपक्रमादिभिर्लिङ्गादिभिश्च भगवत्परतया निश्चितत्वादिति ।

शेषवाक्यार्थचन्द्रिका

अशक्यावधारणेति । उक्तरीत्याऽन्योन्याश्रयग्रस्तत्वादिति शेषः ॥ तथाविधस्येति । निश्चितप्रमाणभावया श्रुत्या जगत्कारणतयाऽवधारितस्येत्यर्थः । अन्यथा तादृशस्य विष्णोरप्यसामञ्जस्यप्रसङ्गादिति भावः । उदाहृता इति । ‘अस्य देवस्य’ ‘स्तुहि गर्तगमि’त्यादिनेति शेषः । अन्यथा योज्या इति । तद्वाक्यस्थरुद्रादिशब्दानां यत्किञ्चित्क्रूरमात्रपरत्वं न पशुपतिपरत्वमित्यन्यथा योज्या इत्यर्थः । अन्यथा ‘जनितोत विष्णोरित्यस्याप्यन्यथायोज्यत्वं न स्यदिति भावः । ननु शिवादिसर्वनाम्नां विष्णुवाचित्वे कथं ‘यो देवानां नामधा’ इति श्रुतिः प्रमाणम् । तत्र तत्प्रत्यायकाभावात् । नामधा इत्यस्य चाश्वकर्णादिशब्दवत्संज्ञामात्रत्वादित्यतोऽश्वकर्णादिशब्दानां सर्वथा यौगिकत्वासम्भवात्केवलरूढत्वमाश्रीयते इह तु क्लृप्तावयवशक्त्यैव प्रयोगप्रत्यययोरुपपत्तौ समुदायशक्तौ प्रमाणाभावेन रूढेरनौचित्याद्यौगिकत्वमेवेत्यतस्तेनैव विवक्षितलाभात्प्रामाण्योपपत्तिरिति भावेन नामधा इत्येतद्व्युत्पादयति नामानि धत्त इति नामधा इति । अतो मनिन्क्वनिप्वनिपश्चेति चकाराद्विचि नामधा इत्यस्य साधुत्वमिति भावः । केचित्तु नामानि धीयन्ते देवेषु निधीयन्तेऽनेनेति नामधा इति करणसाधनत्वभ्रान्तिं वारयितुं नामानि धत्त इति व्याख्यानमित्याहुः । तन्न । करणे विचोऽननुशासनादेव तथाविधाभ्रान्त्यनुदयात् । अन्ये तु यो देवानां नाम नामानि वेद यश्च धत्त इति धा इत्यन्यथाप्रतीतिनिवारणायेदं व्याख्यानमित्याहुः । गच्छतीत्यादौ धात्वर्थस्य धात्वर्थस्य तदनुकूलव्यापारस्य च देवदत्तगतत्वदर्शनात् कर्तृगतत्वे बाधकसद्भावादेव च छिनत्तीत्यादौ फलस्यान्यगतत्वाभ्युपगमात् । प्रकृते फलीभूतव्यवहारादेः कर्तृगतत्वे बाधकाभावान्न तत्त्याग इत्याशयेनेदं व्याख्यानमित्याहुः ।

**परिमल **

नान्यस्येत्यनुवादेन शेषमाह वाचकानीति । तदन्येष्वित्यनुवादः । वर्तन्त इति शेषोक्तिः ।

**श्रीनिवासतीर्थीया **

तथाविधस्य जगज्जननादिहेतोः । असमञ्जसत्वम् । श्रुतयो ‘अस्य देवस्ये’त्याद्याः ॥ समन्वयेति । उपक्रमादिप्रमाणकशक्तितात्पर्यलक्षणसम्बन्धरूपसमन्वयग्रहणेनेत्यर्थः। एताः ‘नामानी’त्यादिकाः ।