तच्च बहुश्रुतिविरोधतः
बहुश्रुतिविरुद्धत्वान्नोपादेयं पाशुपतम्
तच्च बहुश्रुतिविरोधतः
सुधा
तदेतद्दूषयितुं पत्युरसामञ्जस्यादिति सूत्रतात्पर्यमाह तच्चेति ।
अनुव्याख्यानम्
………….. तच्च बहुश्रुतिविरोधतः ॥
नोपादेयं मतं हि ……………
चशब्दः पूर्वतनैः(मतैः) सह समुच्चयार्थः । हिशब्दो हेतौ । तत् पशुपतेः सर्वजगत्कारणत्वादिकं मतं नोपादेयम् । कुतः । पत्युः पशुपतेः । असामञ्जस्याद् दोषित्वात् । तदनङ्गीकारे च बहुश्रुतिविरोध इति योजना ।
कास्ताः श्रुतय इत्यतस्ता उदाहरति अस्येति ।
अनुव्याख्यानम्
………. अस्य देवस्य स्तुहि गर्तगम् ॥
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ॥
यद्विष्णोरुपमं हन्तुं रूद्रमाकृष्यते मया ॥
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ॥
घ्नञ्च्छिश्नदेवानेकोऽसावासीन्नारायणः परः ॥
तस्मादुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ॥
यज्ञेन यज्ञमयजन्ताबध्नन्पुरुषं पशुम् ॥
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ॥
अनने ‘अस्य देवस्य मी्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावदि’ति (ऋ. ७४०५) श्रुतिमुपादत्ते ।
‘स्तुहि गर्तगमि’त्यनेन ‘स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् । मृा जरित्रे रुद्र स्तवानोऽन्यं ते आस्मन्निवपन्तु सेना’ इति (ऋ. २३३११) । ‘उत्पिपेषे’त्यनेन ‘रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेषे’ति । ‘गृणीष’ इत्यनेन ‘कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् । भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्म’ इति (ऋ. २३३१२) । ‘पदमि’त्यनेन ‘तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनामि’ति (ऋ. ५३३) ।‘हन्तुमि’त्यनेन ‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ’ इति (ऋ. १०१२५६) । ‘यं कामये’ इत्यनेन ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधामि’ति (ऋ. १०१२५५) । ‘मे’त्यनेन ‘मा शिश्नदेवा अपि गुर्ऋतं न’ इति । ‘घ्नन्’इत्यनेन ‘घ्नञ्च्छिश्नदेवा अभिवर्पसा भूदि’ति । ‘एकोसावि’त्यनेन ‘एको नारायण आसीन्न ब्रह्मा न च शङ्कर’ इति । ‘तस्मादि’त्यनेन ‘स रुष्टः स प्रसन्नो यद्रुष्टो यत्प्रसन्नस्तस्माद्रुद्रसम्प्रसादावभूतामि’ति । ‘वैष्णवमि’त्यनेन ‘तेषां मखं वैष्णवं यश आर्छदि’ति । यज्ञेनेति, अबध्नन्निति, यो भूतानामिति प्रसिद्धम् ।
कथमेताभिः श्रुतिभिः पशुपतेर्निर्दोषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाह इत्यादीति ।
अनुव्याख्यानम्
इत्यदिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः ॥
पराधीनपदप्राप्तिरज्ञत्वं प्रलयेऽभवः ॥
प्रतीयन्ते ………….
अभवो ऽभावः । प्रतीयन्ते पशुपतेरिति शेषः ।
शेषवाक्यार्थचन्द्रिका
उक्तप्रतिज्ञायां सूत्र एवासामञ्जस्यदिति हेतूक्तेर्भाष्ये बहुश्रुतिविरोधत इति हेत्वभिधानानर्थक्यमित्याशङ्क्य नेदं प्रकृतप्रतिज्ञायां हेतुकथनपरं भाष्यं, किन्तु सौत्रहेत्वनङ्गीकारे बाधककथनद्वारा तद्धेतूपपादकमेवेति नानर्थक्यमिति भावेन प्रकृतप्रतिज्ञायां सौत्रं हेतुमुपन्यस्य तदुपपादकतया भाष्यं योजयति कुत इत्यादिना ॥ यज्ञेनेति ॥ अबध्नन्निति यो भूतानामिति प्रसिद्धमिति । यद्यप्यत्र ‘अस्य देवस्ये’त्यादाविव यज्ञेनेत्यादिनेदमुपादीयत इत्येव वाच्यम्, तत्प्रसिद्धत्ववचनं त्वनर्थकमेव, अस्य देवस्येत्यादिपूर्वोदाहृतानामपि प्रसिद्धत्वेन व्यावर्त्याभावात् । तथाऽप्यपेक्षितार्थप्रतिपादकस्य समस्तस्य श्रुतिखण्डस्य तत्र तत्रोदाहरणानुदाहरणाभिप्रायेणेयमुक्तिः । न हि ‘यज्ञेन यज्ञमयजन्ते’त्याद्युदाहृतवाक्येनेव ‘अस्य देवस्ये’त्यादावुदाहृतभागेनैव विवक्षितार्थलाभः सम्भावितः । घ्नंश्छिश्नदेवानित्यत्रापि क्रियापदानुपन्यासान्न्यूनत्वमेवेति न ततोऽपि विवक्षितार्थलाभ इति भाव इत्याहुः । वस्तुतस्तु ‘यज्ञेन यज्ञमयजन्ते’ति, ‘अबध्नन्पुरुषं पशुं’ इति समग्रेण पादेन, यो भूतानामधिपती रुद्रस्तन्तिचरो वृषेति’ श्लोकार्धेन यथाश्रुतानुपूर्वीर्विशिष्टश्रुतिपरिग्रहवदस्य देवस्येत्यादावनुव्याख्याने समग्रेण पादेनार्धेन वा यथास्थितानुपूर्वीविशिष्टतत्तच्छत्यपरिग्रहादियं प्रसिद्धत्वाप्रसिद्धत्वोक्तिरिति ध्येयम् । अभवशब्दस्य प्रलयेऽनुत्पत्त्यर्थताभ्रान्तिं निवारयति अभवोऽभाव इति ।
**परिमल **
इति प्रसिद्धमिति । इति वाक्यत्रयं प्रसिद्धमित्यर्थः ।
**वाक्यार्थरत्नमाला **
अभाव इतीति । नाभावोऽभावमात्रे पर्यवसन्न इति भावः ।