०१ चतुर्विधाः पाशुपताः

ॐ पत्युरसामञ्जस्यात् ॐ

॥ अथ पत्युरधिकरणम् ॥

चतुर्विधाः पाशुपताः

ॐ पत्युरसामञ्जस्यात् ॐ

सुधा

ॐ पत्युरसामञ्जस्यात् ॐ ॥ इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते । ते चतुर्विधाः शैवाः पाशुपताः कालमुखा महाव्रताश्चेति । तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्यातिविरुद्धत्वादपाकर्तुमनुवदति सर्वज्ञत्वादिकैरिति ।

अनुव्याख्यानम्

॥ ॐ पत्युरसामञ्जस्यात् ॐ ॥

सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ॥

जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ॥

आहुः पाशुपताः …………..

पशुपतेरिमे पाशुपता इति चतुर्विधा अपि गृह्यन्ते । ते सदाशिवं जगद्विचित्ररचनाकर्तारमाहुः । ततो जन्माद्यस्य यत इत्युक्तमसदिति । अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तं दोषवर्जितमिति । सार्वज्ञाद्यभावेऽज्ञानादिवर्जनं चेतनस्य नोपपद्यत इत्यतः सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तमित्युक्तम् । यद्वा सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमिति प्रधानलक्षणविरुद्धार्थोपन्यासः । जगद्विचित्ररचनाकर्तारमिति श्रौतब्रह्मलक्षणविरुद्धार्थोक्तिर् इत्यवगन्तव्यम् ।

शेषवाक्यार्थचन्द्रिका

ॐ पत्युरसामञ्जस्यात् ॐ । अधिकरणप्रतिपाद्यानुक्तेर्मूले न्यूनतामाशङ्क्य पाशुपतपक्षं निराकरोतीति भाष्य एव तदुक्तेर्न तदनुक्तिर्दोषायेत्यभिप्रेत्य तद्भाष्यविवरणपूर्वकं स्वयमधिकरणप्रतिपाद्यमाह इहेति ॥ सत्यप्यवान्तरभेद इति । ईश्वरः कारणं भवति तथाऽपि नोपादानं किन्तु निमित्तमेव । तस्योपादानतायां कार्यगुणदोषैर्लेपः स्यात् । मृदादीनामिव घटादिगुणदोषैस्ततो नोपादानता तस्येत्याद्यानां मतम् । चैतन्यरूपः पशुपतिर्भवत्येव निमित्तकारणमुपादानं चेति द्वितीयानां मतमिति परप्रमेय एवस्ति विप्रतिपत्तिराद्ययोर्द्वयोः । उत्तरयोस्त्ववान्तरप्रमेये ।

‘रुद्राक्षं कङ्कणं हस्ते जटा जैका च मस्तके ।

कपालं भस्मना स्नानं लकुटं कलशार्चनम्’ ॥ इति कालामुखैः ।

‘दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् ।

कापालं व्रतमास्ताय यतिर्भवति मानव’ इति ।

‘मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।

भगासनस्थमात्मानं ज्ञात्वा निर्वाणमृच्छति ।

कर्णिका रुचिकं चैव कुण्डलं च शिखामणिः ।

भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ।

आभिर्मुद्रितदेहस्तु न भूय इह कायभाक्’ ।

इति महाव्रतैश्चाधिकारसाधनयोः सौलभ्यस्य कथनादित्येवं चतुर्णां परापरप्रमेयेऽवान्तरभेदोऽस्तीत्यर्थः ॥ साधारणमेवेति । यद्यपि ‘कार्यकारणयोगविधिदुःखान्ताः पञ्चपदार्थाः पशुपतिना पशुपाशविमोक्षणायोपदिष्टा’ इत्यपि महादेवं पुरस्कृत्य प्रवर्तमानानां साधारणमेव प्रमेयम् । ‘तत्र कार्यं प्राधानिकं महदादि । कारणं महेश्वरः । योगश्च चित्तवृत्तिनिरोध इत्यदिना योगशास्त्रेणोक्तः प्रणवाद्यनुष्ठानरूपो; विधिस्तु नानाविधो भिक्षाटनपात्रधारणादिरूपः कर्तव्यताविशेषः । दुःखान्तो मोक्षः । यत्र स्वातन्त्र्यमेव, न कदाचित्पारतन्त्र्यम् । परतन्त्रस्यैव सर्वाणि दुःखानि भवन्ति न तु स्वतन्त्रस्येश्वरस्य । पशुपतिश्च व्याख्यातः कारणत्वेन । पशवश्च रागद्वेषादिभिर्निबद्धा जीवास् ते च योगविधिभ्यां कार्याद्विलक्षणं पशुपतिमाराध्य दुःखान्तं मोक्षमधिगच्छन्ति । अन्यथा परतन्त्राः सन्तो वाक्तन्त्या नामभिर्दामभिरिव बद्धा रागद्वेषादिभिरनड्वाह इव विख्याताः शुष्कालाम्बुवत्संसारसमुद्रे इतस्ततोभिधावन्तः स्वर्गनरकादिषु बहूनि दुःखानि प्राप्नुवन्ति । ‘अज्ञा अत एव पशवः’ इत्येतत्सर्वेषां साधारणं प्रमेयम् । न तस्य सर्वस्यानुवादेन दूषणमिहास्तीति साधारणं प्रमेयमपाकर्तुमनुवदतीत्ययुक्तमिवाभाति । तथाऽपि साधारणप्रमेये विरुद्धमप्यंशं विहायातिविरुद्धांशस्य दूषणायायमनुवादः । अत एव वेदवादस्यातिविरुद्धत्वादित्युक्तम् । ततश्च वेदवादस्यातिविरुद्धं साधारणं प्रमेयमपाकर्तुमनुवदतीत्यर्थः ॥ पाशुपता इति । चतुर्विधेषु तेष्वेकविधाभूतपाशुपतानां परामर्श इति भ्रान्तिं निवारयति पशुपतेरिति । पशुपतिप्रणीतसिद्धान्तानुगामित्वाच्चतुर्णामपि पाशुपतत्वमिति ध्येयम् । जगद्विचित्ररचनाकर्तारमित्यस्येव सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमिति विशेषणद्वयस्यापि सिद्धान्तविरुद्धार्थोपन्यासत्वस्यैव सम्भवे जगद्विचित्ररचनाकर्तृत्वोपपादकतया तद्योजनं क्लिष्टमिति पूर्वत्रापरितोषादाह यद्वेति ॥ प्रधानेति । मुख्यलक्षणेत्यर्थः । ‘अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नामे’ति भगवत्पादोक्तेरिति भावः । यद्वा साध्यलक्षणेत्यर्थः ॥ ‘जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तमि’ति पूर्वग्रन्थानुरोधादित्यवधेयम् ॥ श्रौतेति । लक्षणसूत्रे जन्मादिकारणत्वस्यानन्तगुणपूर्णत्वस्य च लक्षणतयाऽभिप्रेतत्वेऽपि जन्मादिकारणत्वस्य श्रुतिवृत्त्या प्रतिपादितत्वात् श्रौतत्त्वम् । गुणपूर्णत्वादेश्च हार्दत्वेन श्रुतिवृत्त्याऽप्रतिपाद्यत्वादश्रौतत्वमिति भावः ।

**परिमल **

ॐ पत्युरसामञ्जस्यात् ॐ । चतुर्विधानां ग्रहणायाह महादेवं पुरस्कृत्य प्रवर्तमानानामिति । अपाकरणे बीजोक्तिर् वेदवादस्येत्यादि ॥ पशुपतेरिम इति । तस्येदमिति सम्बन्धमात्रेऽण्प्रत्यय इति भावः ॥ प्रधानलक्षणेति । ‘जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तमि’त्यानन्दमयाधिकरणानुव्याख्यानाद्युक्तदिशा जिज्ञासासूत्रस्थब्रह्मपदोक्तनिषगुणपूर्णत्वरूपप्रधानलक्षणेत्यर्थः ॥ श्रौतेति । ‘यतोवा इमानि भूतानि जायन्ते’ ‘यो नः पिता जनिते’त्यादिश्रुतिसिद्धजगज्जन्मादिहेतुत्वरूपब्रह्मलक्षणेत्यर्थः ।

यादुपत्यम्

ॐ पत्युरसामञ्जस्यात् ॐ ॥ प्रधानलक्षणेति । साध्यलक्षणेत्यर्थः । ‘जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तमि’त्युक्तत्वादिति भावः ।

**वाक्यार्थरत्नमाला **

अवान्तरमतभेदमुपपादयति । ईश्वरः कारणं भवतीत्यादिना । इतरेषां चानुलब्धेरेतेनयोगः प्रत्युक्त इति सूत्रद्वयानुव्याख्यानमूलाद्यनुसारेणावान्तरप्रमेयभेदे नियामकमाह । रुद्राक्षमित्यादिना । माहेश्वरास्तु मन्यन्ते कार्यकारणेत्यादिशाङ्करभाष्यानुसारेण । कारणमीश्वरः कार्यं प्राधानिकं महदादीत्यादिभामत्यनुसारेण । यद्यपि कार्यकारणेत्यादिना अपाकर्तुमनुवदतीत्यर्थ इत्यन्तेन । भगवत्पादोक्तेरिति । अत एव चोपमेत्यधिकरणीयेति शेषः । पूर्वग्रन्थानुरोधादिति । आनन्दमयस्थेति शेषः ।