हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः
हस्त्यादिशरीराणामपि अनात्मत्वापत्तिः स्यात्
हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः
सुधा
तदिदं विकारित्वापत्तिभयात्स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम् । तथा सति हस्त्यादिशरीराणामप्यनात्मत्वस्याङ्गीकार्यत्वप्रसङ्गात् । तत्कथमित्यत आह हस्त्यादीति ।
अनुव्याख्यानम्
… हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभवः ॥
पिपीलिकादिदेहस्थस्य तत्परिमाणस्य हस्त्यादिदेहेषु प्राप्तेष्वन्यथाभावः स्यात् हि तस्माद् इति । अथवा शरीरमात्रस्यानात्म(क)त्वमापाद्य तदुपपादनमिदं क्रियते । हस्त्यादिसर्वदेहेष्वपि आत्मनोऽन्यथाभावः स्यात् । उत्पत्तिसमये देहानां हस्तवित(स्त्यादिमा)स्तिमात्रपरिमाणत्वाद् यौवने तूत्कृष्टपरिमाणत्वादिति । अनेनाविशेषादिति सूत्रखण्डस्यार्थ उक्तो भवति ।
शेषवाक्यार्थचन्द्रिका
ननु हस्त्यादीत्युत्तरवाक्ये हस्त्यादिदेहेष्वप्यात्मनोऽन्यथाभाववर्णनं क्रियते तदनर्थकम् । न च हस्त्यादिदेहानामनात्मत्वोपपादनार्थत्वान्नानर्थक्यमिति वाच्यम् । हस्त्यादिदेहानामनात्मत्वस्याप्रकृतत्वेन तदुपपादनार्थत्वायोगादित्याशङ्क्यात्र मूले हस्त्यादिदेहानामनात्मत्वापादनस्यापि मध्येऽभिप्रेतत्वेन तदुपपादकत्वस्य सम्भवादित्यभिप्रेत्य तदुपपादकतयोत्तरवाक्यं योजयितुमुक्तानुवादपूर्वकं तदुपपत्तिं प्रतिज्ञाय तत्र हेतुतया हस्त्यादिदेहानामनात्मत्वापादनं तावत्पूरयति तदिदमिति ॥ अन्यथाभावः स्याद्धीति । ततश्च विकारित्वादात्मनोऽनित्यता च स्यादित्यर्थः ॥ हस्त्यादिदेहेष्विति । विशिष्याभिधानं देहान्तरव्यावर्तकमित्याश्रित्य देहविशेषस्यानात्मत्वापादनोपपादकतया तद्वाक्यं व्याख्यातम् । इदानीं तु स्वरूपकथनतामाश्रित्य देहमात्रस्यानात्मत्वप्रसङ्गोपपादकतयाऽपि तद्योजयति अथवेति । सर्वदेहेष्वप्यात्मनोऽन्यथाभावमुपपादयति उत्पत्तीति । देहानां हस्तवितस्त्यादिमात्रपरिमाणत्वादित्येव टीकापाठो, न तु देहादीनां हस्तवितस्त्यादिमात्रपरिमाणत्वादिति । मूलकोशेष्वदर्शनात् । ततश्चोत्पत्तिकालावच्छिन्नाल्पपरिमाणदेहस्थस्यात्मनस् तत्परिमाणत्वस्य, यौवनावस्थायामुत्कृष्टपरिमाणदेहस्थस्यात्मनश्चोत्कृष्टपरिमाणत्वस्य प्रसङ्गात्परिमाणतद्वतोश्चात्यन्तभेदानभ्युपगमादात्मनोऽप्यन्यथाभावादिति भावः ॥ अर्थ उक्तो भवतीति । वृक्षादिदेहस्थस्यात्मनोऽन्यथाभाववत् हस्त्यादिदेहस्थस्याप्यात्मनोऽन्यथाभावसत्वादित्यर्थ उक्तो भवतीत्यर्थः ।
**परिमल **
दूषणसौकर्यार्थमित्येतव्द्यञ्जयन्मूलं योजयति तदिदमित्यादिना । हिशब्दानुवादेन तस्यार्थमाह तस्मादिति । । यद्वा हीत्यस्य यस्मादिति व्यक्तं मत्वा तदविनाभावलब्धोक्तिस् तस्मादिति ॥ शरीरमात्रस्येति । विकारित्वभयात् स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम् । तथात्वे देहमात्रस्यानात्मत्वं स्यादित्यापाद्यम् । तत्कथमित्यतो हस्त्यादीत्यादिवाक्यं प्राप्तमित्यर्थः ॥ अनेनेति । हस्त्यादीत्यनेन स्थावराणामिव हस्त्यादिसर्वदेहानां विकारित्वाविशेषादनात्मत्वाविशेषप्रसङ्गादित्यर्थ उक्तो भवतीत्यर्थः ।
**श्रीनिवासतीर्थीया **
आपादनप्रकारं दर्शयति । हस्त्यादिसर्वशरीरेष्विति । उपपादनप्रकारं दर्शयति उत्पत्तीति ॥ सूत्रखण्डस्येति । यथा स्थास्नुष्वात्माङ्गीकारे विकारप्राप्त्या तेषामनात्मकत्वं स्वीकृतम् एवमेव सर्वशरीराणामपि सात्मकत्वाङ्गीकारे तद्विकारेण तत्रत्यात्मनोऽपि विकारप्राप्त्या तेषामपि सात्मकता न स्वीकार्या । कुतः । अविशेषात् । स्थास्नूनामनात्मकत्वे उक्तन्यायस्य हस्त्यादिशरीरानात्मतास्वीकारेऽप्यविशिष्टरत्वात् । अन्यथा तदपि न स्यादित्यर्थो द्रष्टव्यः ।