११ स्थावराणामप्यनात्मत्वं जैनेनोक्तम्

देहमाने विकारः स्यादिति स्थास्नूननात्मनः

स्थावराणामप्यनात्मत्वं जैनेनोक्तं

देहमाने विकारः स्यादिति स्थास्नूननात्मनः

सुधा

क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदति देहेति ।

अनुव्याख्यानम्

देहमाने विकारः स्यादिति स्थास्नूननात्मनः ॥

आह …………………….

देहमाने देहमानत्वे । प्रमितेसतीति शेषः । विकारः स्यात् स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः । इति स मा भूदित्येवमर्थम् । स्थास्नून् वृक्षादीन् । अनात्मन आत्मानधिष्ठितान् । आह क्षपणकः । अत्र क्षपणकः स्थावराननात्मन आहेत्येतावत्येव वक्तव्ये यदात्मनो देहपरिमाणत्वस्य प्रमितत्वाद् वृक्षादीनामपि सात्मकत्वे तत्परिमाणत्वापत्तावङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत तन्मा प्रासाङ्क्षीदित्येतद(प्रसञ्जीत्येवम)र्थमिति हेतुकथनं, तत्पूर्वोक्तप्रमेयदृढीकरणार्थम् । यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात् । तदा विकारित्वेनानित्यत्वप्रसङ्गाद्बिभ्यता स्थावराणामनात्मत्वं यत्तेनाभ्युपगतं तदनुपपन्नं स्यात् । न हि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति । किन्त्वन्यथाभावमात्रमिति । यद्वा दूषणसौकर्यार्थं हेत्वनुवादः ।

शेषवाक्यार्थचन्द्रिका

देहमान इति वाक्ये विकारापत्त्युक्तावपि तस्याः स्थास्नूनामनात्मत्वस्वीकारोपपादकत्वाभावात् तदुपपादिकायाश्चात्मनो विकारापत्तेरत्रानुक्तेस्तथाऽऽत्मनो विकारापादिकायाः स्थावराणां सात्मत्वाङ्गीकृतौ तत्तत्परिमाणत्वापत्तेरप्यनुक्तेस्तदापादिकाया देहमानत्वेन प्रमिततायाश्चानुक्तेः कथमस्य स्थावराणामनात्मत्वस्वीकारसाधकत्वमित्यतो विकारपदस्यावृत्तिं वक्ष्यमाणरीत्या व्यर्थतां चाभिप्रेत्यापेक्षितमर्थं शेषकथनेन पूरयन्व्याख्याति देहमान इत्यदिना । स्थावराणामनात्मत्वस्वीकारस्यात्मनो विकारापत्तिनिवृत्त्यर्थविकारापत्त्यर्थकत्वाभावेनेतिशब्दस्यैतदर्थकत्वासम्भवादाह इति स मा भूदित्येवमर्थमिति । स्थावराणामात्मभिन्नत्वरूपानात्मत्वस्य सिद्धान्तेऽप्यङ्गीकारेण विप्रतिपत्तिविषयसूचकत्वानुपपत्तेस्तदर्थमाह आत्मानधिष्ठितानिति ॥ इत्येव वक्तव्य इति । देहमानत्वस्य प्रागेव निरस्ततयाऽदूष्यत्वेनाननुवाद्यत्वाद्दूष्यतया स्थावराणामनात्मत्वमात्रस्यैव वक्तव्यत्वादिति भावः । देहमानत्वप्रमितत्वादेः प्रयोज्यप्रयोजकभावमुपदर्शयन्नेव हेतुकथनपरवाक्यतात्पर्यमाह यदात्मन इत्यादिना ॥ प्रमितत्वादिति । देवदत्तात्मा, तद्देह एव तत्र सर्वत्रैव वर्तते तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलभ्यमानत्वादित्यनुमानेनेति शेषः ॥ अणुमात्रस्येति । अणुत्वमात्रपरिमाणस्येत्यर्थः ॥ महत इति । महत्वपरिमाणस्यात्मन इति सम्बन्धः ॥ विकारित्वमिति । परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादिति भावः । मूले इतीत्यस्य तात्पर्यं तन्मेत्यादि । किं तत्पूर्वोक्तं प्रमेयं कथं च हेतुकथनस्य तद्दृढीकरणार्थत्वमित्यतस् तदुभयं दर्शयति यदीत्यादिना । अनुपपत्तिमेव प्रथयति न हीति । अयमर्थः । अन्यथाभावमात्रस्य अनित्यताप्रयोजकत्वपक्ष एव स्थावराणामनात्मत्ववर्णनमुपपद्यते । तेषां सात्मकत्वाङ्गीकृतौ आत्मनस्तत्तत्परिमाणत्वप्राप्त्याऽनित्यत्वापादकान्यथाभावसद्भावेन तत्प्रसञ्जनसम्भवात् । न तु यावल्लक्ष्यभाविलक्षणापगमस्यानित्यताप्रयोजकत्वपक्षे । तत्पक्षे स्थावराणां सात्मत्वाङ्गीकृतावात्मनस्तत्परिमाणत्वप्राप्त्याऽन्यथाभावमात्रप्रसक्तावप्यनित्यत्वप्रयोजकीभूतयावल्लक्ष्यभाविलक्षणापगमाप्राप्त्या अनित्यत्वप्रसञ्जनस्यैवासम्भवेन तन्निवृत्त्यर्थत्वानुपपत्तेः स्थावराणामनात्मत्वाभ्युपगमस्यानर्थक्यमिति । ‘स न हि भूसागरादिष्वि’त्यादिनैव विकारितामात्रस्यानित्यत्वप्रयोजकताया जैनेनाभ्युपगन्तव्यत्वस्य समर्थितत्वान्न हेत्वनुवादस्य तदर्थतेति पूर्वत्रारुच्या पक्षान्तरमाह यद्वेति ।

**परिमल **

यदिति । इति यद्धेतुकथनमित्यन्वयः । किं पूर्वोक्तप्रमेयं कथं च तस्य दृढीकरणमित्यत आह यदीत्यादिना ।

यादुपत्यं

ननु स्थावराणां सात्मकत्वे यावल्लक्ष्यभाविलक्षणापगमेनैवानित्यत्वप्रसङ्गभयात्तेषामनात्मकत्वमुच्यत इत्यत आह न हि स्थावराणामिति ।

**श्रीनिवासतीर्थीया **

तत्परिमाणत्वापत्तौ वृक्षपरिमाणत्वापत्तौ सत्याम् इति यद्धेतुकथनं तदित्यन्वयः । तद्विवृणोति यदीत्यादिना ॥ न हीति । यदि स्थावराणां सात्मकताऽङ्गीकारे स्थावरादिविकारेणात्मनोऽपि यावल्लक्ष्यभाविलक्षणापगमः स्यात्तर्ह्येव तस्यानित्यत्वप्राप्त्या तेषामनात्मता स्वीकार्या स्यादित्यर्थः । तथा चाभ्युपगतं परेण स्थावराणामनात्मत्वम् । तेन ज्ञायते विकारत्वमात्रमेवानित्यत्वे प्रयोजकत्वेन जैनेनाङ्गीकरणीयमिति । तत्र च ‘व्याप्त्या तये’त्युक्तं दूषणं युक्तमिति भावः । किन्त्वन्यथाभावमात्रमति पूर्वोक्तप्रमेयदृढीकरणार्थमित्यन्वयः ।

**वाक्यार्थरत्नमाला **

इत्येतदर्थकत्वासम्भवादिति । इतिशब्दस्य इत्यन्त इति वेति प्रकारेणेति वार्थासम्भवादित्यर्थः । अभ्युपगमस्यानर्थक्यमितीत्यत्रत्यस्येतिशब्दस्येत्ययमर्थ इति पूर्वेणान्वयः ॥