कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते
मुक्तात्मनोऽप्यनित्यत्वप्रसञ्जनम्
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते
सुधा
नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद्भवदीयः पक्ष इत्युक्तम् । नापि मदीयः पक्षः । तत्कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनोऽनित्यत्वप्रसञ्जनमित्यतो जैनपक्षोऽयमिति समर्थयितुं तावत्पृच्छति कीदृशश्चेति ।
अनुव्याख्यानम्
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ॥
क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यविपर्ययाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम् । द्रव्याकारस्य कदाऽप्यनपायान्नित्यत्वम् । विपर्ययोऽन्यथाभावस् तस्मादनित्यत्वमिति । तत्र वक्तव्यम् । कीदृशोऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते । किं संस्थानादिलक्षणापगमरूपो वा, साधारणो वेति भावः ।
शेषवाक्यार्थचन्द्रिका
अन्यथाभावमात्रमिति । अविशेषितोऽन्यथाभाव इत्यर्थः ॥ उक्तमिति । ‘नानित्यताऽस्मत्पक्षे त्वि’त्यादिनेति शेषः ।
**परिमल **
विकल्पदूषणयोरनुक्तविषयत्वनिरासायाह क्षपणकेन हीति ॥ द्रव्याकारस्येति । विशेष्यस्वरूपस्येत्यर्थः ।
संस्थानापगमश्चेत्
संस्थानापगमश्चेत्
सुधा
आद्यं शङ्कते संस्थानेति ।
अनुव्याख्यानम्
संस्थानापगमश्चेत् ………
संस्थानग्रहणं लक्षणोपलक्षणम् । नाशहेतुतयेष्यत इति सम्बन्धः । प्रतिषेधति स नेति ।
……….. स न हि भूसागरादिषु ॥
वक्तुं शक्यत इति शेषः । कुतो नेत्यत आह स न हीति । यावल्लक्ष्यभाविलक्षणापगमलक्षणोऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु न हीदानीं प्रमितस्ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः । प्रमितत्वे तु तस्यानित्यत्वेऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते ।
शेषवाक्यार्थचन्द्रिका
गुणकर्मादावमूर्ते संस्थानापगमं विनाऽप्यनित्यत्वसद्भावेन न तस्य तत्र प्रयोजकत्वमित्यत आह संस्थानग्रहणमिति । लक्षणोपलक्षणं यावल्लक्ष्यभाविलक्षणोपलक्षणमित्यर्थः । अन्यथा शब्दादिलक्षणापगमाद् गगनादीनामपि महाप्रलये नाशप्रसङ्गात् । अत एव यावल्लक्ष्यभाविलक्षणापगम इत्येवोत्तरत्रानुवाद इत्यवधेयम् । संस्थानापगमः किं पक्षे प्रमितो न वा । आद्ये किं प्रत्यक्षेण उतानुमानागमाभ्यामिति विकल्पान्मनसि निधायाद्यं प्रत्याह न हीदानीं प्रमित इति । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वाद्भूभूधरादिषु चेदानीं संस्थानापगमस्यावर्तमानत्वान्न तस्य प्रत्यक्षेण प्रमितिः सम्भवतीति भावः । नेति पक्षं प्रत्याह तत इति । अनुमानागमप्रमितत्वं प्रत्याह प्रमितत्व इति ॥ अनुमानं व्यर्थमिति । संस्थानापगमसाधकतयाऽवश्यमनुसरणीयादनुमानादागमाद्वा तदनित्यत्वस्यापि निश्चितत्वादिति भावः ।
**परिमल **
द्रव्यभिन्नसंस्थानाभावादाह संस्थानग्रहणमिति । लक्षणं च यावल्लक्ष्यभावीत्यग्रे व्यक्तम् ॥ अनुमानमिति । द्रव्यविपर्ययाभ्यां नित्यत्वमनित्यत्वं चेत्यत्र विपर्ययशब्दितान्यथाभावादनित्यमित्युक्तानुमानमित्यर्थः ।
यादुपत्यम्
ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ ॥ गुणकर्मादावमूर्ते संस्थानापगमं विनाऽप्यनित्यत्वस्य भावात्कथं तेन तत्प्रयोज्यमित्यत आह लक्षणोपलक्षणमिति । यावल्लक्ष्यभाविलक्षणोपलक्षणमित्यर्थः ।
**श्रीनिवासतीर्थीया **
प्रमितत्वे त्विति । यावल्लक्ष्यभाविलक्षणापगमलक्षणान्यथाभावस्येति शेषः । तस्य निरुक्तान्यथाभावरूपहेतुमतो भूसागरादेरित्यर्थः । व्यर्थं सिद्धसाधनत्वादित्यर्थः ।