०७ पुद्गलस्येव आत्मनोऽनित्यत्वमनिवारितम्

अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः

पुद्गलस्येव आत्मनोऽनित्यत्वमनिवारितम्

अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः

सुधा

अस्त्वात्मन एवान्यथाभावस्ततः को दोष इत्यत आह अन्यथेति ।

अनुव्याख्यानम्

अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ॥

तन्मते …………

स्थितिर् व्याप्तिः । तन्मते जैनदर्शने । अङ्गीकृतेति शेषः । ततोऽपि किमित्यत आह तदिति ।

……. तदनित्यत्वं …..

यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं तत् तस्मादात्मनोऽनित्यत्वमापततीति शेषः । अत्र दृष्टान्तःपुद्गलस्येति ।

………. पुद्गलस्यानिवारितम् ॥

इवशब्दोऽध्याहार्यः । पुद्गलस्य देहस्येवेति । यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्रात्मवाची । (यद्वा) यदि वा स्वमतेनायमात्मनि प्रयुक्तः । यथाऽऽहुः । ‘पुद्गलो निरयं गिरन्नि’ति । नन्ववस्थापर्यायरूपेणा(प्या)त्मनोऽप्यनित्यत्वमङ्गीक्रियत एव । तत्कथमनित्यत्वापादनमित्यतो वा पुद्गलस्य देहस्येवेत्युक्तम् । यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमात्मनोऽप्यापाद्यत इति । ननु अन्यथाभावस्यैवंविधानित्यत्वेन व्याप्तिर्नास्ति परमाण्वादौ व्यभिचारात् । तत्कथमापादनम् । मैवम् । परिमाणव्यत्ययलक्षणस्यान्यथाभवस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतोऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात् । तदिदमुक्तम् अनिवारितमिति ।

शेषवाक्यार्थचन्द्रिका

‘व्याप्त्या तथाऽन्यथाभावादि’त्युत्तरग्रन्थानुरोधेनाह स्थितिर्व्याप्तिरिति ॥ ततोऽपि किमितीति । व्याप्त्यङ्गीकारमात्रस्यादोषत्वादिति भावः । आत्मनोऽन्यथाभवेन देहस्यानित्यत्वप्रसञ्जनं चोरापराधान्माण्डव्यस्य शूलारोपणवदयुक्तम् । देहस्यानित्यत्वाङ्गीकारादिष्टापादनं चेत्यतोऽत्रात्मनोऽनित्यत्वस्यापाद्यमानत्वान्न दोषद्वयमपीत्यभिप्रेत्य तदापादनसिध्द्यर्थमनुरूपं शेषं पूरयति आत्मन इति । अत्रात्मन आपततीत्येतावान् शेषो द्रष्टव्यः । तर्हि तावतैव चारितार्थ्यान्मूले पुद्गलस्येत्यस्यानर्थक्यमित्याशङ्क्य तर्कमूलभूतव्याप्तौ दृष्टान्तोपदर्शनानर्थक्यमित्यभिप्रेत्य तदुपदर्शकतया तद्योजयति अत्र दृष्टान्त इति । पुद्गलस्येत्येतावन्मात्रस्य तदुपदर्शकत्वानुपपत्तेराह इवशब्द इति । अत्र पक्षे आत्मन इति शेषः । इवशब्दाध्याहारश्च कर्तव्यो भवतीत्यपरितोषादाह यद्वेति । अत्रापि जरज्जैनरीत्याश्रयणं कर्तव्यं भवतीत्यपरितोषादाह यदि चेति ॥ तत्कथमापादनमिति । अनिष्टप्रसञ्जनत्वाभवादिति भावः ॥ अतो वेति । अतश्चेत्यर्थः । अनेनात्र पुद्गलस्येत्यावर्तते । तत्र श्रुतस्यात्मार्थत्वमावर्तितस्य देहार्थत्वम् इवशब्दोऽध्याहार्य इत्युक्तं भवति । देहस्येवेत्युक्तमेवोपपादयति यथेति ॥ तथाविधमिति । तथा च तादृशानित्यत्वानभ्युपगमादात्मनो नेष्टापत्तिरिति भावः ॥ परमाण्वादाविति । तत्र प्रदेशविशेषसंयोगादिरूपस्यान्यथाभावस्य सत्त्वेऽपि विवक्षितानित्यत्वाभावादिति भावः ॥ तत्कथमिति । व्याप्तिविकलस्य तर्कस्याभासत्वदिति भावः ॥ परिमाणव्यत्ययेति । नन्वत्र कीदृशश्चान्यथाभाव इत्याद्युत्तरवाक्यपर्यालोचनयाऽन्यथाभावमात्रस्यैवानित्यत्वव्याप्तिसिद्धेः परिमाणव्यत्ययलक्षणस्येति तद्विवरणमनर्थकम् । न च परमाण्वादौ व्यभिचारपरिहारार्थं तत् तन्नित्यत्वासिद्धेः । सिद्धत्वे वा पक्षसमत्वेनैव तत्परिहारसम्भवात् । अवश्यं चैतदेवम् । अन्यथा वक्ष्यमाणव्याप्तावपि तत्र व्यभिचारापातादिति चेन्न । अन्यथा भावमात्रस्यैवानित्यत्वव्याप्तावपि प्रकृते आपादकतया विवक्षितस्य परिमाणान्यथात्वस्याभावेनैव व्यभिचारपरिहारसम्भवे किं पक्षतुल्यत्वाद्याश्रयणेनेति भावेनैतद्ग्रन्थप्रवृत्त्या वक्ष्यमाणविरोधासम्भवात् ।

**परिमल **

यथाहुरिति । विष्णुतत्वनिर्णयकर्तारः । निरयं नरकं गिरन् अनुभवन्ननुभवतीति कृत्वा जीवः पुद्गल इत्युच्यते इत्याहुरित्यर्थः । ‘कर्मानुशयनाच्चैव संसार्यनुशयी स्मृत’ इति वाक्यशेषः ॥ परमाण्वादाविति । तत्रापि चलनसंयोगविभागादिरूपविकारस्य सत्वादिति भावः ।

यादुपत्यम्

ॐ एवं चात्मा कात्स्नर्यम् ॐ ॥ ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॐ ॥ भस्मीभावलक्षणेत्यत्र भस्मीभावपदेनावस्थान्तरापत्तिरुपलक्ष्यते । तेन कपालादिभावलक्षणान्यथाभाववति घटादौ न व्यभिचार इति ध्येयम् ॥ एवं विधानित्यत्वेनेति । आकारनामपरित्यागेनावस्थान्तरापत्तिरूपेत्यर्थः ॥ परमाण्वादाविति । तत्रापि प्रदेशविशेषसंयोगादिरूपस्यान्यथाभावस्य सत्वादिति भावः ॥ परिमाणव्यत्ययलक्षणस्येति । इदं च प्रकृताभिप्रायेणैवोक्तम् । वस्तुतस्तु महती या विकृतिस्तद्रूपान्यथाभावस्यैवोक्तविधानित्यत्वेन व्याप्तिरिति तस्याशय इत्यग्रे ‘अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या’ इत्यत्र विभावयिष्यति ॥ तेन यौवनावस्थदेहे पूर्वपरिमाणव्यत्ययस्य सत्वेऽप्युक्तविधानित्यत्वाभावव्द्यभिचार इति चोद्यानवकाशः । विवक्षितमहा विकृतिरूपान्यथाभावस्य तत्राभिवादिति ज्ञातव्यम् ।

**श्रीनिवासतीर्थीया **

एवं विधेति । यथा देहस्येत्याद्युक्तप्रकारेण स्वरूपनाशरूपेत्यर्थः ॥ अवस्थापर्यायेति । सति धर्मिण्यवस्ताभेदेनेत्यर्थः ॥ व्यभिचारादिति । सर्वेषु परमाणुष्वप्यसंयुक्तेषु संयुक्तत्वरूपस्य पार्थिवेषु तेषु पाकजरूपवत्वादिरूपान्यथाभावस्य च सत्वादित्यर्थः ॥ परिमाणेति । न हि परमाणुषु परिमाणव्यत्ययलक्षणान्यथाभावोऽस्ति, तस्य यावद्द्रव्यभावित्वाङ्गीकारादित्यर्थः ।

**वाक्यार्थरत्नमाला **

तन्नित्यत्वासिद्धेरिति । परमाण्वादीनामपि रूपादिमत्वेनानित्यत्वस्य सिद्धान्तेऽङ्गीकारादिति भावः ।