०३ सकलदोषदुष्टोऽयं जैनवादः

तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता

सकलदोषदुष्टोऽयं जैनवादः

तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मता

सुधा

इदमत्र वक्तव्यम् । सद्वादिमतानुसरणसमयेऽसत्वादिभङ्गीरङ्गीकरोषि (वा) न वेति । एवमसद्वादिचरणशरणप्रवेशवेलायां सत्वादिप्रकारानूरीकरोषि वा न वेति । एवमन्येष्वपि पक्षेषु विकल्पः । यद्याद्यस्तदाऽसौ अचलदर्शनः सदा सकलपक्षाङ्गीकारवान् तैर्दोषैरखिलै(तैरखिलैर्दोषै)र्लिप्यते । तथा हि । सद्वादिनो हि न केवलं सत्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः । किन्त्वसत्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः । एवमसद्वादिनोऽपि नासत्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरताः, किन्नम सत्वादिपक्षेषु दोषानपि उपपादितवन्तः । एवमन्येऽपि । तथा च सकलपक्षकक्षीकारे (तु) तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात् ॥ अथ मन्यसे । न ते दोषाः किन्त्वाभासाः । ते च नानेकान्तवादं बाधन्त इति । तदा कथं तानि प्रमाणानि । अनङ्गीकारे दोषाश्च नाभासाः । (ये नानुस)येनानुसरणीयाः । तस्मात्तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीरङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागोऽपि कार्यः स्यात् । तथा चाङ्गीकारापरित्यागाभ्यामुभयत आकृष्टोऽयं कष्टां दशामाविष्टः स्यात् ॥ नन्वनेकान्तो द्वेधा । क्रमाक्रमभेदात् । तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ । अक्रमानेकान्तेऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यानङ्गीकारान्न विरोधः । तथा च सप्तभङ्ग्यङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्तीति नोक्तदोषः । मैवम् । तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात् । न खलु तत्तत्प्रमाणवादिभिस्तानि तानि प्रमाणादीनि सावकाशान्युपन्यस्तानि । तस्मात्सर्वेष्वपि (वादिषु) वादेषु परमास्तिकस्य कथितैव गतिः ॥ अपि चैवमपि सप्तभङ्ग्यङ्गीकारो निर्मूल एव । न ह्येवंवादिनो वादिनः प्रसिद्धाः । सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्ठा । सम्भावनावका(को)शस्य निःसीमत्वात् ॥ किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात्स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते ।

द्वितीयपक्षे तु चलदर्शन इत्येव दूषणम् । अपसिद्धान्ती स्यादिति ।

तदेवं सप्तभङ्ग्यङ्गीकारः प्रमाणविरुद्धोऽप्रामाणिकश्चेत्युक्तम् ॥ अखिलैर्दोषैर्लिप्यत इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम् ।

शेषवाक्यार्थचन्द्रिका

ननु सत्वपक्षाङ्गीकारसमयेऽसत्वादिपक्षाणामनभ्युपगमान्नायं दोष इत्यतोऽङ्गीकारपक्ष एवायं दोष इत्यतो नानुपपत्तिरित्यभिप्रेत्य सम्भावितपक्षद्वयं विकल्प्य आद्यपक्षदूषणतया ग्रन्थं योजयितुमाह इदमत्रेत्यादिना । ननु तत्तत्पक्षाङ्गीकारमात्रेणैव तत्तदुपन्यस्तप्रमाणानुसरणस्य तत्तद्दूषणाननुषङ्गस्य चोपपन्नत्वात्कथमखिलदोषलिप्तत्वं तस्येत्यतो नात्र दोषशब्देन तत्तदनङ्गीकारे निरूपितदोषोऽभिमतः, येन तदङ्गीकारमात्रेण तन्निवृत्तेः कथं दोषलिप्तता तस्येति शङ्क्येत, किन्नम तदतिरिक्त एवेत्यतो नानुपपत्तिरित्यभिप्रेत्य तदुपपादयितुं प्रतिजानीते तथा हीति ॥ कथितैव गतिरिति । अङ्गीकारपरित्यागाभ्यामुभयत आकृष्टोऽयं कष्टां दशामापन्नः स्यादित्युक्तैव गतिरित्यर्थः ॥ सम्भावनाकोशस्येति । सत्वे सत्यसद्विलक्षणत्वं सत्वे सति सदसद्विलक्षणत्वमसत्वे सति सद्विलक्षणत्वमसत्वे सति सदसद्विलक्षणत्वं, सदसत्वे सति सद्विलक्षणत्वं, सदसत्वे सत्यसद्विलक्षणत्वमित्यादीनामनेकेषां प्रकाराणां सम्भवादिति भावः ॥ स्यादस्ति च नास्ति चेति पक्षादिति । स्यात्सदसदिति पक्षात्स्यात्सत्स्यादसदिति मिलितं पक्षद्वयं न भिद्यत इत्यर्थः । युगपत्सर्वभङ्ग्यङ्गीकारपक्षे स्यात्सदसदिति तृतीयपक्षाङ्गीकारेणैव स्यात्सत्स्यादसदिति आद्यपक्षद्वयाङ्गीकारसिद्धेः पुनस्तत्स्वीकारो व्यर्थः । तत्परित्यागे च सप्तभङ्ग्यङ्गीकारभङ्ग इति भावः ।

द्वितीयेति । सत्वपक्षाङ्गीकारसमयेऽसत्वादिभङ्गानङ्गीकारोऽसत्वाङ्गीकारसमये च सत्वादिप्रकाराणामनङ्गीकार इति प्राग्विकल्पितद्वितीयपक्ष इत्यर्थः ॥ व्याहतिश्चेत्यपीति । ‘व्याहतं सदे’त्युत्तरत्र व्याहतत्वस्यापि कथनादिदमुक्तमित्यवधेयम् ।

**परिमल **

कथं तानि प्रमाणानीति । किन्त्वाभासानीति योज्यम् ॥ अनङ्गीकार इति । तदुक्तप्रमाणानामाभासतानङ्गीकार इत्यर्थः । ये इति विभागः ॥ कष्टां दशामिति । कृच्छ्रावस्थां प्राप्तवान्भवेदित्यर्थः । क्रमानेकान्त इति । इदानीं सत्वं पश्चादसत्वमित्येवं क्रमानेकान्त इत्यर्थः ॥ कथितैव गतिरिति । अङ्गीकारपरित्यागाभ्यामित्यादिनोक्तैव गतिरित्यर्थः ॥ एवमपीति । तत्तद्वाद्युक्तप्रमाणानुसरणाद्यर्थमनेकान्तवादावतारेऽपीत्यर्थः ॥ एवं वादिन इति । सदसदात्मकं सत्वे सति सद्विलक्षणमित्यादिप्रकारं ब्रुवाणा इत्यर्थः ॥ स्यादस्ति च नास्ति चेति पक्षादिति । सदसदात्मकमिति पक्षादित्यर्थः ॥ स्यादस्ति स्यान्नास्तीति पक्षद्वयमिति । सदिति पक्षोऽसदिति पक्षश्चेति पक्षद्वयमित्यर्थः । एकदैवानेकविधाङ्गीकारवादे सदसदात्मकमित्युक्त्यैव (क्तेऽस्यैव)सदिति पक्षस्यासदितिपक्षस्य च प्राप्तेरिति भाव । स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्त(व्यं च)व्यश्च स्यादस्तिचावक्त(व्यं)व्यः स्यान्नास्ति चावक्त(व्यंच)व्यश्च स्यादस्ति च नास्तिचावक्त(व्यंचे)व्यश्चेत्यादिसप्तभङ्गीसङ्ग्राहकपरकीयवाक्यं चन्द्रिकायां स्पष्टं व्याख्यातम् ॥ द्वितीयपक्षे त्विति । अङ्गीकारोऽपि वा न वेति प्राग्विकल्पितद्वितीयपक्षे त्वित्यर्थः ।

यादुपत्यं

कष्टां दशमाविष्ट इति । व्याहतभाषी स्यादित्यर्थः ॥ कथितैव गतिरिति । अङ्गीकारपरित्यागाभ्यामुभयत आकृष्टोऽयमित्यादिना कथितैव गतिरित्यर्थः ॥ स्यादस्ति च नास्ति चेति पक्षादिति । सदसत्स्यादिति पक्षात् सत्स्यादसत्स्यादिति पक्षद्वयं मिलितं न भिद्यत इत्यर्थः । युगपत्सर्वभङ्ग्यङ्गीकारपक्षे यदा सदसदिति पक्षोऽङ्गीकृतः, तदा सदित्यसदिति पक्षद्वयं स्वीकृतमेवेति पुनस्तदङ्गीकारो व्यर्थस्तत्परित्यागे च सप्तभङ्ग्यङ्गीकारभङ्ग इति भावः । ननु सदित्येकः प्रकारोऽसदिति द्वितीयः सदसदात्मक इति तृतीय इति पूर्वमुक्तत्वात्तथैव व्यवहर्तव्यम् । स्यादस्तीत्यादिविलक्षणव्यवहारः कथमिति चेत् । उच्यते । पूर्वं शिष्याणां सुबोधाय तच्छास्त्रीयशब्दानामर्थानुवाद एव कृतः, इदानीं स्वात्मनस्तदभिज्ञत्वद्योतनाय तच्छास्त्रीयशब्दैरेव व्यवहृतमिति न कोऽपि दोषः । ते च शब्दाः स्यादस्ति, स्यान्नास्ति, स्यादवक्तव्यः, स्यादस्ति च नास्ति च, स्यादस्ति चावक्तव्यः, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तभङ्गीप्रतिपादकास्तच्छास्त्रीया ज्ञेयाः । अत्र स्याच्छब्दस्तिङन्तप्रतिरूपको निपातोऽनेकान्तद्योती । यथाऽऽहुर् वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपकः’ इति । तथा च स्यादस्तीत्यादौ वाक्ये स्याच्छब्दात्कथञ्चिदर्थोऽस्तीत्यादिभिरनुक्तः प्रतीयते । तेनानियमरूपोऽनेका(न्तिको)न्तोऽवगम्यत इति ॥ व्याहतिश्चेत्यपीति । व्याहतं सदेत्युत्तरत्रानुवादादिदमुक्तमिति ज्ञातव्यम् ।

**श्रीनिवासतीर्थीया **

येनेति । यदि तानि प्रमाणानि नाभासभूतानि तत्पक्षानङ्गीकारे च तेनोक्ता दोषाश्च यदि नाभासास्तर्ह्येव ते पक्षा अनुसरणीया इत्यर्थः ॥ तदुक्तविपक्षेति । सत्वे प्रमाणमभिधाय तद्विपक्षेऽसत्वपक्षे दूषणमुक्तवन्तः, अतस्तद्दोषानुसारेणासत्वपक्षपरित्यागोऽपि कार्यः स्यादित्यर्थः ॥ कथितैव गतिरिति । अङ्गीकारपरित्यागाभ्यामुभयत आकृष्टोऽयं कष्टां दशामाविष्टः स्यादित्युक्तैव गतिरित्यर्थः । एवं वादिनः विश्वं सदेवेति वादिनः । असदेवेति वादिनः । सदसदेवेति वदिनः । सदसद्विलक्षणमेवेति वादिनः । सत्वे सति सद्विवलक्षणमेवेति वादिनः । असत्वे सत्यसद्विलक्षणमेवेति वादिनः । सदसत्वे सति सदसद्विलक्षणमेवेति वक्तारो वादिनो न हि प्रसिद्धाः, येन तद्वाद्युक्तप्रमाणानुसरणाय सप्तभङ्गिता विश्वस्य त्वयाऽङ्गीकार्या स्यादित्यर्थः ॥