०२ सप्तभङ्गित्वनिरासः

नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः

सप्तभङ्गित्वनिरासः

नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः

सुधा

अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टे नैतदिति ।

अनुव्याख्यानम्

नैतत्पदार्थ एकस्मिन्युक्तं दृष्टिविरोधतः ॥

एतत्सप्तप्रकारत्वं कुतः । असम्भवात् । सोऽपि कथं ; दृष्टिविरोधतः । सर्वं हि स्वोपाधौ सत् परोपाधावसत् । स्वरूपेण भावोऽन्यात्मत्वादिनाऽभावः । द्रव्यरूपेण नित्यमवस्थाभेदेन अनित्यम् । स्वरूपादिनाऽभिन्नं स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते । नातोऽन्येन प्रकारेण । अतो व्यवस्थया नियमग्राहकप्रत्यक्षादिविरोधेनासम्भवादयुक्तमेवानेकान्तमतमिति ।

शेषवाक्यार्थचन्द्रिका

उक्तप्रतिज्ञायामसम्भवहेतोः सूत्र एवोक्तेर्दृष्टिविरोधत इति भाष्ये तदभिधानमनर्थकमित्याशङ्क्य सौत्रहेतूपपादनार्थत्वेन स्वतन्त्रहेत्वाभिधानत्वाभावान्नानुपपत्तिरित्याशयेन हेत्वाकाङ्क्षोत्थापनपूर्वकं सौत्रहेतुं व्यापार्य तदुपपादकतया तमुपपादयितुं हेत्वाकांक्षामुत्थापयति कुत इतीति ॥ व्यवस्थयेति । अनेनोत्तरग्रन्थानुरोधेन दृष्टिपदं व्यवस्थया नियमग्राहकदृष्टिपरं तच्च प्रमाणमात्रोपलक्षणमित्युक्तं भवति ।

**परिमल **

कुत इत्याकांक्षायां सौत्रं हेतुमाह असम्भवादिति । दृष्टिविरोधत इति ॥ स्वोपाधाविति । अत्रोपाधिशब्द आश्रयपरः । द्रव्यरूपेणेति । विशेष्यरूपेण नित्यं कार्यात्मना त्वनित्यमित्यर्थः । दृष्टिपदं प्रमाणमात्रपरमिति भावेनाह प्रत्यक्षादीति ।

यादुपत्यं

द्रव्यरूपेणेति । विशेष्यरूपेणेत्यर्थः । यद्वा प्रकृतिरूपेणेत्यर्थः । अवस्थाभेदेनेति । कार्यविशेषात्मनेत्यर्थः । स्वरूपेति । घटस्वरूपं पटस्वरूपेणेत्यर्थः ।

**वाक्यार्थरत्नमाला **

कुत इतीति प्रतीकोपादानम् । अपर इति शब्दोधिकः ।


भावाभावतया विश्वं येन रूपेण मीयते

भावाभावतया विश्वं येन रूपेण मीयते

सुधा

नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधोऽसम्भवमवहतीत्यत आह भावेति ।

अनुव्याख्यानम्

भावाभावतया विश्वं येन रूपेण मीयते ॥

तद्रूपमेव तदिति नियमः केन वार्यते ॥

येन रूपेणेत्यस्यैव विवरणं भावाभावतयेति । तच्च व्यवस्थितसदसत्वाद्युपलक्षणं बोद्धव्यम् । यद्वा भावाभावतयाऽन्येन च येन सत्वादि(ना)रूपेणेति योजना । अथवा येन भावाभावतया रूपेणेति सामानाधिकरण्येन योज्यम् । यदि वा भावाभावतयेत्यस्य विशेषणमेतत् । येन व्यवस्थितेन रूपेणेति । केन प्रमाणेनेत्याक्षेपः । भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम् । यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात् । न चैतदस्ति । न च बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तमतिप्रसङ्गादिति ।

शेषवाक्यार्थचन्द्रिका

मूले येन रूपेण मीयत इत्येतावता पूर्तेर्भावाभावतयेत्यस्य वैयर्थ्यमाशङ्क्य परिहरति येन रूपेणेत्यस्यैव विवरणमिति । अल्पविषयकत्वाद्भावाभावावतयेत्यस्य येन रूपेणेति बहुविषयकव्याख्यानत्वमनुपपन्नम् । तथा सति वासः परिधत्ते यत्क्षौममित्यादाविव विशेषविषयव्याख्यानानुसारेण सामान्यविषयस्य व्याख्येयस्यापि विशेषविषयकत्वस्थित्या भावत्वाभावत्वरूपेणानेकान्तवादापेक्षया रीत्यन्तरेणानेकान्तवादाभावप्रसङ्गादित्यतो व्याख्यानस्यापि व्यवस्थित सत्वासत्वाद्युपलक्षणत्वाश्रयणान्नानुपपत्तिरित्याशयेनाह तच्चेति । अत्र पक्षे व्याख्यानव्याख्येयभावो व्याख्यानस्योपलक्षणत्वं चाश्रयणीयं भवतीत्यपरितोषात्पक्षान्तरमाह यद्वेति अस्मिन्नपि व्याख्याने मूले चशब्दस्यान्येनेत्यस्य चाध्याहारकल्पनाप्रसङ्गादपरितुष्यन्नाह अथवेति । अत्रापि येन रूपेणेत्येतावता पूर्तेरितरवैयर्थ्यमित्यपरितोषादाह यदि वेति । किमस्य विशेषणस्य प्रयोजनमित्यतो भावत्वाभावत्वादेः प्रकारस्य स्वरूपेण भावोऽन्यात्मत्वादिनाऽभाव इत्रत प्रागुक्तरीत्या व्यवस्थितत्वोपदर्शनमेव तत्प्रयोजनमिति भावेन तत्तात्पर्यमाह येनेति ॥ आक्षेप इति । न केनापि प्रमाणेनेत्याक्षेप इत्यर्थः । तथाऽप्येकान्तदर्शनस्य भ्रमत्वादिति पूर्वशङ्कायाः कथं परिहार इत्यतो वाक्यतात्पर्यमाह भवेदिति । एकान्तदर्शनं यदि भ्रमः स्यात्तर्हि बाध्येतेत्यभिप्रेते तर्केऽप्रयोजकत्वमाशङ्क्य परिहरति न चेति ॥ अतिप्रसङ्गादिति । शुक्तिरजतप्रत्ययस्येव सत्यरजतप्रत्ययस्यापि भ्रमत्वं स्यादित्यतिप्रसङ्गादित्यर्थः ।

यादुपत्यम्

एकान्तदर्शनस्येति । नियमदर्शनस्येत्यर्थः । असम्भवम् । अनेकान्तवादस्येति शेषः । व्यवस्थितेति । स्वस्वरूपेण भावः, अन्यात्मत्वेन अभाव इत्रत व्यवस्थितेत्यर्थः ।