ॐ नैकस्मिन्नसम्भवात् ॐ
॥ अथ नैकस्मिन्नधिकरणम् ॥
जैनमतानुवादः
ॐ नैकस्मिन्नसम्भवात् ॐ
सुधा
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ जैनमतमत्र निराक्रियते । निराकार्यांशज्ञापनाय तदुपन्यस्यति आहेति ।
अनुव्याख्यानम्
॥ ॐ नैकस्मिन्नसम्भवात् ॐ ॥
आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ॥
द्वयाद्वयमतत्सर्वं सप्तभङ्गि सदातनम् ॥
द्विविधं तावद्विश्वं, जीवाजीवात्मकं निरीश्वरम् । तत्पुनः षड्द्रव्यात्मकम् । तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशनामानि । तत्र जीवास्त्रिविधाः । बद्धा योगसिद्धा मुक्ताश्चेति । धर्मो गतिहेतुर्जगव्द्यापी । अधर्मः स्थितिहेतुर्व्यापक एव । पुद्गलो रूपरसगन्धस्पर्शवद् द्रव्यम् । तद् द्विविधम् । परमाणुरूपं सङ्घातरूपं च । कालः, अभूद्भवति भविष्यतीति व्यवहारहेतुरप्यणुरूपः । आकाश एकोऽनन्तप्रदेशश्च । स द्विविधो लोकाकाशोऽलोकाकाशश्चेति । (ए)तेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि । अनेकदेशवर्तिनि द्रव्येऽस्तिकायशब्द(प्र)वृत्तेः । ते च जीवास्तिकायो धर्मास्तिकायोऽधर्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च ।
अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः । जीवो ज्ञानदर्शनसुखवीर्यगुणः । अजीवो जीवोपभोग्यं वस्तुजातम् । आस्रवस् तद्भोगोपकरणमिन्द्रियादिकम् । बन्धो द्विविधः । घातिकाघातिकचतुष्टयभेदात् । आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम् । द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् । निर्जरो मोक्षसाधनं तपः । संवर इन्द्रियनिरोधः । मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः । मोक्षग्रहणेनैव मोक्षमार्गोऽपि सङ्गृहीतः । स च सम्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः ।
तदेतद्विश्वं सप्तभङ्गि प्रत्येकं सप्तप्रकारक(माह)मित्याह क्षपणकः । कथम् । सदित्येकप्रकारः । असदिति द्वितीयः । द्वयं सदसदात्मकमिति तृतीयः । अद्वयम् अवक्तव्यमिति चतुर्थः । द्वयाद्वयमिति पञ्चमषष्ठौ तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः । अतत्सर्वमिति सप्तमः । सर्वमिति सदसदात्मकम्, अतदिति अवक्तव्यम् ।
तत्किं कालभेदेन सप्तभङ्गि; नेत्याह सदातनमिति । एतच्चोपलक्षणम् । नित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिरूपेणाप्यनेकान्तवादोऽवगन्तव्यः ।
शेषवाक्यार्थचन्द्रिका
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ स्याद्वादिमतं दूषयतीति भाष्यं मनसि निधायैतदधिकरणप्रतिपाद्यमाह जैनेति । तन्मतोपन्यासवैयर्थ्यं परिहरति निराकार्यांशेति । पञ्चास्तिकायादिसामयिकपदार्थाश्रितन्यायाभाससन्दृब्धे मते बुद्धिस्थे सत्येव तन्निरसनस्य सम्भवादिति भावः । मूले विश्वस्य सप्तभङ्गित्वानुवादः क्रियते । स च पराभिमतविश्वशब्दार्थाज्ञाने दुर्ज्ञानो भवतीत्यतो विश्वशब्दगृहीतानर्थान्दर्शयति द्विविधमिति । सङ्क्षेपत इति शेषः ॥ जीवाजीवात्मकमिति । भोक्तृभोग्यात्मकमित्यर्थः । आस्त्रवादीनाम् अजीवे, मोक्षस्य च पक्षभेदादुभयत्रान्तर्भावाद्युक्तं सङ्क्षेपतो द्वैविध्यमिति भावः । जीवाजीवात्मकत्वस्य सिद्धान्तेऽप्यङ्गीकारात्कथमस्य निरसनीयत्वमित्यतस्तत्प्रयोजकमाह निरीश्वरमिति ॥ योगसिद्धा इति । नित्यसिद्धा इत्यर्थः । तत्रार्हन्मुनिर्नित्यसिद्धः । इतरे केचित्साधनैर्मुक्ता अन्ये बद्धा इति भेदः ॥ धर्मो गतिहेतुरिति । गतिः प्रवृत्तिर् हेतुर्ज्ञापकं प्रमाणमस्य स तथोक्तः । सम्यक्प्रवृत्त्यनुमेय इत्यर्थः । शास्त्रीयबाह्यप्रवृत्त्या ह्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयत इति भावः ॥ अधर्म इति । स्थितिहेतुः स्थित्यनुमेय इत्यर्थः । ऊर्ध्वगमनशीलो हि जीवस् तस्य देहेऽवस्थानेनाधर्मोऽनुमीयत इति भावः ॥ तद्द्विविधमिति । यद्यपि पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति पुद्गलस्य षाड्विध्यमेव परेणोक्तमिति षड्विधमित्येव वक्तुमुचितम् । तथाऽपि कस्यचित्परमाणुरूपेऽन्यस्य च सङ्घातरूपेऽन्तर्भाव इत्यभिप्रायेण द्वैविध्यमेवोक्तमित्यवधेयम् ॥ लोकेति । तत्रोपर्युपर्यवस्थितानां लोकानामन्तर्वर्ती लोकाकाशस्तदुपरि मोक्षस्थानमलोकाकाशस्तत्र लोकानामभावादित्यर्थः । जीवास्तिकाय इत्यादि । ‘कै शब्द’ इति धातोरस्तीति काय्यते शब्द्यत इत्यस्तिकायो, जीवश्चासावस्तिकायश्चेति कर्मधारयः । पूर्यते गिलतीति(?)पुद्गिलः, स चासावस्तिकायश्चेति तथोक्तः ।
जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षा इत्येव मूलपाठः ॥ अस्रव इति । आश्रावयति पुरुषं ज्ञानजननेन विषयेष्विति नानाविधेन्द्रियादिकमास्रव इत्यर्थः ॥ घातिकचतुष्टयभेदेति । अत्र घात्येव घातिकमिति स्वार्थे कः । घातिकं च चतुष्टयं चेति विग्रहः । अत्र घातिकमित्यनेन चतुर्विधमपि घातिकर्म । चतुष्टयमित्यनेन चतुर्विधमप्यघातिकर्म ग्राह्यं तेन घात्यघातिकर्मत्वरूपेण बन्धो द्विविध इत्यर्थः । क्वचित्तु घात्यघातिकर्मचतुष्टयभेदादिति वा पाठः । स तु सुगम एव । पाठद्वयेऽपि बध्नातीति बन्धो बन्धकं कर्म अष्टविधमिति तात्पर्यार्थः । किं तद्घातिककर्मेत्यत आह आद्यमिति । जीवगुणानां प्रतिबन्धकं कर्म घतिकमित्यर्थः । यद्यपि घतिकं कर्म चतुर्विधं ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमान्तरीयमिति । तत्र ‘सम्यग्ज्ञानं न मोक्षहेतुरि’ति विपर्ययो ज्ञानावरणीयं कर्मोच्यते ।
‘आर्हतदर्शनाभ्यासान्न मुक्तिरि’ति विपर्ययो दर्शनावरणीयम् । ‘बहुषु विप्रतिषिद्धेषु तीर्थङ्करैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं’ मोहनीयम् । ‘सन्मोक्षमार्गे प्रवृत्तानां तत्प्रत्यूहकरं विज्ञानम्’ आन्तरीयकम् । एतच्चतुर्विध कर्म श्रेयोहन्तृत्वाद्धातिकर्मोच्यत इति घातिकचतुष्टयस्य श्रेयोहन्तृत्वमिति तत्सिद्धान्तः । तथाऽपि ज्ञानदर्शनसुखवीर्यगुणकस्य जीवस्य ज्ञानादिगुणानां मोक्षदशायामाविर्भविष्यतां संसारदशायां प्रतिघातकानि प्रवाहानादीनि पापरूपाणि चत्वारि घातिकर्माणीति विधान्तरेण चातुर्विध्यपरतदेकदेशिमतमाश्रित्यायं तदनुवद इति द्रष्टव्यम् । अघातिकर्मोदाहरति द्वितीयमिति । यद्यप्यघातिकर्मचतुर्विधं वेदनीयं नामिकं गोत्रिकमायु(मु)ष्कं चेति । तत्र ममेदं ज्ञातव्यमस्मीत्यभिमानो वेदनीयम्, एतन्नामाऽहमस्तीत्यभिमानो नामिकं, विशिष्टवंशे जनितोऽस्मीत्यभिमानो गोत्रिकं, शरीरयात्रानिमित्तं कर्मायु(मु)ष्कमिति वा, सक्रियस्य शरीरस्य पावकपवनवशादीषद्धनीभावो शरीराकारेण परिणामो वेदनीयं, तच्छक्तिमिति तस्मिन् बीजे कललाख्यद्रवावस्थाया बुद्बुदावस्थायाश्चारम्भकक्रियाविशेषो नामिकं, बीजस्य शरीराकारपरिणामशक्तिर्गोत्रिकं, शुक्लशोणितव्यतिकरे जाते मिलितं तदुभयमायु(मु)ष्कं, तदेतच्चतुर्विधं कर्म तत्वज्ञानाविघातकत्वेन निःश्रेयसहेतुपरिपन्थिहेतुत्वाभावादघाति कर्माणीति परसिद्धान्तः । तथाऽपि शरीरसंस्थातदभिमानतत्स्थितितत्प्रयुक्तसुखादिनिमित्तानि पुण्यमिश्रितत्वात्पुण्यरूपाणि चत्वार्यघातिकर्माणीति तदेकदेशिमतानुवादोऽयमित्यविरोध इति द्रष्टव्यम् ॥ निर्जर इति । निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जर इत्यर्थः । तच्च मलिनवीरासनतिष्ठद्भोजनतप्तशिलारोहणकेशोल्लुण्ठनादिरूपमिति द्रष्टव्यम् ॥ संवर इति । आस्त्रवः स्त्रोतोद्वारं संवृणोतीति संवर इत्यर्थः । स च शमादिप्रवृत्तिरूपो द्रष्टव्यः । स्वाभाविकात्मस्वरूपाविर्भाव इति । उपलक्षणं चैतत् । अर्हन्मुनिप्राप्तिः सततोर्ध्वगतिश्चेत्यपि द्रष्टव्यम् । यद्यपि मोक्षो न मोक्षोपयोगीति तदुपयोगिषु तद्गणनमनुचितमित्याभाति तथाऽपि तदुद्देशस्य मोक्षोपयोगित्वाभिप्रायेण तस्य तत्र गणनमित्यवधेयम् । कोऽसौ मोक्षमार्गो यो मोक्षग्रहणेन गृहीत इत्युच्यते इत्यतस्तमुपदर्शयति स चेति । आत्मविविक्तत्वादिरूपेण देहस्य देहादिविविक्तत्वेनात्मनो वा दर्शनमिह सम्यग्ज्ञानमभिमतं पुद्गलदर्शनमिति तृतीये वक्ष्यमाणत्वात् । सम्यक् चारित्र्यं चाहिंसैकस्वरूपो धर्मोऽभिमतः ‘धर्मोऽहिंसापरो नान्यः’ इति तत्रैव वक्ष्यमाणत्वात् । यद्यपि सम्यग्दर्शनं च यद्यपरोक्षज्ञानं तदा सम्यग्ज्ञानग्रहेणैनैव गृहीतम् । यदि च स्वसमथपरिपालनं तदा सम्यक् चारित्र्यग्रहणेनैव गृहीतमिति न पृथग्ग्रहणं युक्तम् । अत एव च मोक्षस्य सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यत्वमेवेति तत्सिद्धान्तः । अत एव तृतीये मोक्षसाधननिराकरणप्रस्तावे ‘अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि चे’ति साधनतया द्वयोरेवानुवादः । तथाऽपि गुणदोषचिन्तामकृत्वा यथास्थिततन्मतानुवादोऽयं कृत इत्यदोषः ।
के ते सप्तप्रकाराः कदा कदा च प्रसरन्तीत्याशयेन पृच्छति कथमिति । ‘तद्विधानविवक्षायां स्यादस्तीति मतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते ॥ क्रमेणोभयवाञ्छायां प्रयोगः समुदायवान् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः ॥ आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते । अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ॥ (स) समुच्चयेन युक्तश्च सप्तमो भङ्ग इष्यते’ ॥ इत्यनन्तवीर्योदीरितसप्तभङ्गप्रकारं मनसि निधाय ‘सदसद्द्वयमद्वयम् । द्वयाद्द्वयमतत्सर्वमि’ति मूलोक्तान् सप्तप्रकारानुपदर्शयति सदित्येकप्रकार इत्यादिना । अत्र सप्तस्वपि भङ्गेषु स्यादिति पदं पूरणीयम् । ततश्च स्यात्सत् । स्यादसत् । स्यात्सदसत् । स्यादवक्तव्यम् । स्यात्सदवक्तव्यं च । स्यादसदवक्तव्यं च । स्यात्सदसदवक्तव्यं चेति सप्तप्रकारं सिध्यति । अवश्यं चैतदेवम् । ‘स्यादस्ति, स्यान्नास्ति, स्यादस्ति नास्ति च स्यादवक्तव्यं, स्यादस्ति चावक्तव्यं च, स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च नास्ति चावक्तव्यं चे’ति क्षपणकोक्तेः । अत्र च स्याच्छब्दस्तिङ्न्तप्रतिरूपकोऽनेकान्तद्योतको निपातः । यथाऽऽहूः । ‘वाक्येष्बनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपकः’ इति । यदि पुनरयमनेकान्तद्योतकः स्याच्छब्दो न भवेत् । स्यादस्तीति वाक्ये स्यात्पदमनर्थकं स्यात् तदिदमुक्तमर्थयोगित्वादिति । अनेकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्पदात्कथञ्चिदर्थोऽस्तीत्यनेनानुक्तः प्रतीयत इति नानर्थक्यम् । एवञ्च सत्वमसत्वं सदसत्वं सदसद्विलीणत्वम् । सत्वे सति तद्विलक्षणत्वम्, असत्वे सति तद्विलक्षणत्वम्, सदसत्वे सति सदसद्विलक्षणत्वमित्याद्यनियतसप्तप्रकारता विश्वस्योक्ता भवतीति द्रष्टव्यम् ॥ एतच्चेति । सदादिप्रकारैः सप्तभङ्गोपदर्शकं सदसदित्यादिभाष्यमित्यर्थः । नित्यत्वानित्यत्वेत्यादि । स्यान्नित्यं, स्यादनित्यं, स्यान्नित्यं चानित्यं च, स्यान्नित्यानित्यविलक्षणं, स्यान्नित्यं च तद्विलक्षणं च, स्यादनित्यं च तद्विलक्षणं च, स्यान्नित्यं चानित्यं च नित्यानित्यविलक्षणं च’ इत्यादिरूपेणानियतसप्तप्रकारतावादोऽवगन्तव्य इत्यर्थः । भिन्नत्वाभिन्नत्वादीत्यादिपदेन भावत्वाभावत्वादिरूपपरिग्रहः ।
**परिमल **
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ सप्तभङ्गित्वाद्यंश एव विवाद इति भ्रमनिरासाय वा शिष्याणां प्रति ज्ञानाय वा विश्वमिति मूलोक्तविश्वरूपं तन्मतेऽनुवदति द्विविधं तावदिति ॥ हेतुरिति । प्रवृत्तिहेतुरित्यर्थः ॥ व्यापीति व्यापक, एवेति अनयोर्व्याप्त इत्यर्थः ॥ रूपरसेति । तेजोजलपृथिवीवायुरूपभूतचतुष्टयमित्यर्थः ॥ एतेष्विति । षड्द्रव्येष्वित्यर्थः ॥ अस्तिकायशब्दानीति । अस्तिकायेतिशब्दो येषां तानीति बहुव्रीहिः । कुत एतच्छब्दत्वमेतेषामित्यत आह अनेकदेशवर्तिनीति । कालस्याणुत्वेन कालास्तिकाय इत्यभावादाह इति पञ्चेति ॥ आद्यमिति । घातकशब्दितबन्धनमित्यर्थः ॥ द्वितीयमिति । चतुष्टयशब्दितमित्यर्थः । शरीसंस्थानं च तदभिमानं च तत्स्थितिश्च तत्प्रयुक्तसुखदुःखे च तेषां चतुर्णां हेतुभूतमित्यर्थः ॥ अतदिति । सदसदात्मकत्वे सति सदसद्विलक्षणमिति सप्तम इत्यर्थः । व्यक्तीकृत एष सप्तभङ्गिप्रकारश्चन्द्रिकायाम् । अनेकान्तवाद इति । अनैयत्यवाद इत्यर्थः ।
यादुपत्यम्
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ मूले विश्वमित्यनूद्य तस्य सप्तभङ्गित्वमाहेत्युच्यते । इदं च तदभिमतविश्वशब्दार्थाज्ञाने सुज्ञानं न भवतीत्याशयेन तन्मते विश्वशब्दगृहीतानर्थान्दर्शयति द्विविधं तावदित्यादिना ॥ रूपरसेति । पृथिव्यादिभूतचतुष्टयं स्थावरं जङ्गमं चेत्यर्थः ॥ लोकाकाश इत्यादि । उपर्युपरि स्थितानां लोकानामन्तर्वर्ती लोकाकाशः । तेषामुपरि मोक्षस्थानमलोकाकाशः । तत्र लोकानामसत्वात् ॥ अनेकदेशवर्तिनीति । अत एवानुभूतकालस्य, नास्तिकायशब्दवाच्यत्वमित्यर्थः । तथा चास्तिकायशब्दोन्यायनये समवायशब्द इव तन्मते पारिभाषिक एव न त्वभिधानादिसिद्ध इति भावः ॥ आस्त्रव इति । आस्त्रावयति पुरुषं विषयेष्वितीन्द्रियादिकमास्त्रवशब्दवाच्यमित्यर्थः । आस्त्रवयतीत्यास्त्रव इत्यन्ये । बन्ध इति । बन्धक इत्यर्थः ॥ घातकचतुष्टयेति । घातकं च चतुष्टयं चेति विग्रहः ॥ प्रतिबन्धकमिति । अज्ञानमिथ्याज्ञानादिकमित्यर्थः । शरीरसंस्थानेति । शरीरसंस्थानं च तदभिमानश्च तत्स्थितिश्च तत्प्रयुक्तसुखदुःखे च तेषां हेतुभूतं कर्मेत्यर्थः । तथा चैतेषां चतुर्णां हेतुभूतं यत्कर्मचतुष्टयं तच्चतुष्टयशब्देन विवक्षितमिति भावः ॥ निर्जरो मोक्षसाधनमिति । निःशेषं जरयति बन्धमिति व्युत्पत्तेरिति भावः । तच्च तपोमलपङ्कधारणास्नानमौनवीरासनतिष्ठद्भोजनतप्तशिलारोहणकेशेन्मूलनादिरूपमिति ज्ञातव्यम् ॥ संवर इति । संवृणोतीन्द्रियद्वारमिति व्युत्पत्तेरिति भावः ॥ मोक्ष इति । फलज्ञानस्यापि प्रवर्तकत्वमभिप्रेत्य मोक्षोपयोगिमध्ये मोक्षोऽपि परिगणित इति ध्येयम् । स च मोक्षमार्गः । सम्यग्दर्शनशब्देन पुद्गलस्य देहस्यात्मविविक्तत्वेन दर्शनं पुद्गलस्यात्मनो देहविविक्तत्वेन वा दर्शनं विवक्षितम् । स्वसमयनियमपरिपालनमेव सम्यग्दर्शनशब्देन विवक्षितमित्यप्याहुः । सम्यक् चारित्र्यं चाहिंसाप्रधानको धर्मः । ‘धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनमि’ति वक्ष्यमाणत्वात् । अद्वयमित्यस्यार्थो ऽवक्तव्यमिति । अनिर्वचनीयं सदसद्विलीणमित्यर्थः । सदवक्तव्यं चेति ।सत्वे सति सद्विलक्षणमित्यर्थः ॥ असदवक्तव्यं चेति । असत्वे सत्यसद्विलक्षणं चेत्यर्थः ॥ अतदित्यवक्तव्यमिति । तथा चातत्सर्वमित्यस्य सदसदात्मकत्वे सति सदसद्विलक्षणमित्यर्थ इति भावः । अनैकान्तवाद इति । अनियमवाद इत्यर्थः ।
**श्रीनिवासतीर्थीया **
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ गतिहेतुर् मोक्षहेतुः । स्थितिहेतुः संसारहेतुः । सङ्घातरूपं(साधनरूपं) कार्यरूपम् । अणुरूपः सूक्ष्मः । अणुव्यतिरिक्तानि कालव्यतिरिक्तानि ॥ ते चेति । अस्तिकाया इत्यर्थः । षण्णां द्रव्याणां मध्ये कालातिरिक्तपञ्चद्रव्याण्यस्तिकायशब्दवाच्यानीत्याह जीवास्तिकाय इत्यादिना ।
**वाक्यार्थरत्नमाला **
पञ्चास्तिकायादीत्यादिबुद्धिस्थमित्यन्तकल्पतर्वनुसारेणारेणाह । पञ्चास्तीति अजीवजीवोपभोग्यमित्येतदनुसारेणाह । भोक्त्रिति । प्रमाणमालातट्टीकयोर्न्यायवाचस्पत्यादौ चायमनुवादः । मोक्षस्य च पक्षभेदादुभयत्रेति । नित्यसिद्धश्चेति भामत्यनुसारेणाह । नित्यसिद्धा इत्यर्थ इति । कल्पतर्वनुसारेणार्थान् दर्शयति । तत्रार्हन्मुनिरिति । प्रवृत्यनुमेय इति भामत्यनुसारेण गतिहेतुपदं तदर्थतया व्याचष्टे । गतिः प्रवृत्तिरित्यादि । सम्यक् प्रवृत्यनुमेय इत्यर्थ इति । कल्पतर्वनुसारेण सम्यक्पदप्रयोगः । तदनुसारेणैवानुमेयत्वमुपपादयति । शास्त्रीयेति । शास्त्रीयतप्तशिलारोहणादिशास्त्रप्रभवया बाह्यया चेष्टया प्रवृत्यर्थ इत्यादि परिमलानुसारेण ज्ञेयम् । स्थित्यनुमेय इति भामत्यनुसारेणाह । स्थित्यनुमेय इति । कल्पतर्वनुसारेण भावमाह । ऊर्ध्वेति । षड्धाविभागकथनपरभामत्यनुनुसारेण शङ्कते । यद्यपीति । कस्यचिदिति पदेनान्यस्य चेति पदेन तत्र तत्रान्तर्भावयोग्यस्यैव ग्रहणम् । तत्रोपर्युपरीत्यादि लोका न सन्तीत्यन्तभामत्यनुसारेण व्याचष्टे । तत्रोपर्युपरीति । अस्तीति काय्यत इति । काय्यत इत्यस्य कथ्यत इत्यर्थः । प्रमाणमालाटीकायामस्तीति काय्यते कथ्यते इत्याद्युक्तेः । शब्दार्थात्कैधातोः कर्मणि घञि आदेचउपदेशेऽशितीत्यात्व आतोयुक् चिण्कृतोरिति युगागमे च सति काय्यत इति रूपं भवतीति भावः । पूर्यते गिलतीति । पुद्गल इति । पृषोदरादित्वेन शब्दसाधुता ज्ञेया । आश्रवेत्यादिस्थाने आश्रवेत्यादिपाठो दृश्यते । अत आह । जीवाजीवेति । भामत्यनुसारेण व्याचष्टे । आश्रावयतीति । कल्पतर्वनुसारेण व्याख्यातं गमयतीति । तत्र घातिकर्मचतुर्विधम् । तथा चत्वार्यघातिकर्माणि इति भामत्यनुसारेणाह । अत्र घात्येवेति । ननु घातिकचतुष्टयस्यैकविधात्वेन विधान्तरस्य वक्तव्यत्वात्तदभावे कथं भेदादित्युक्तमित्यतोऽन्तवदेवं यद्यघातिकचतुष्ठयमिति विशिष्टस्यैकविधत्वमङ्गीक्रियते । नचैवम् । अपि तु घातिकं चतुष्टयं चेति । घातिकचतुष्टययोरेव विधात्वं ततश्च युक्तं तद्भेदेन द्वैविध्यमित्याह । घातिकं चतुष्ठयं चेति । विग्रह इति । तस्य प्रकृतोपयोगिविभागपरत्वं यथास्यात्तथा विवेचयति । अत्रेति । सतु सुगम एवेति । तत्र विधाद्वयस्य स्पष्टत्वादिति भावः ।
बन्धोऽष्ठविध इत्यादि भामत्यनुसारेण तात्पर्यार्थमाह । पाठद्वयेऽपीति । जीवगुणानामिति । ज्ञानदर्शनसुखवीर्यरूपाणामित्यर्थः । घात्यघातिकर्मणोश्चातुर्विध्यं जैनमुख्यमतानुसारेण ताप्तर्यार्थमाह । ज्ञानावरणीयादिभेदेन भामत्यामुक्तम् । तदाशङ्क्य अन्येतु विधान्तरेण तद्विवेकमाहुरिति परिमलानुसारेण मूलोक्तविभागम् उपपादयति । यद्यपि घातिकमित्यादिना अविरोध इति द्रष्टव्यमित्यन्तेन । तत्र मोहनीयमन्तरायमिति पाठो भामत्यनुसारेण ज्ञेयः । यद्वा आन्तरीयकमिति करणे ठक्प्रत्ययान्तःशब्दः । एवं तल्लक्षणकथनदशायामपि लक्ष्यनिर्देशे प्रकारद्वयं ज्ञेयम् । तत्रान्तरीयकमिति ककारस्त्वस्त्येव । श्रेयोहन्तृत्वमिति । ततो जीवगुणप्रतिबन्धकत्वेन घातित्वं न वाच्यमिति भावः । प्रवाहेति । प्रवाहतो अनादीत्यर्थः । मयेदं ज्ञातव्यमस्ति इत्यादिचत्वारिवेदनीयादिलक्षणानि …. नुसारेणाह । भामतिकल्पतरुमनुसृत्यतु सक्रियस्येत्यादीनीति ध्येयम् । अघातिकर्माणीति सिद्धान्त इति । ततश्च निश्चेयहेतुपरिपंथित्वाभावादेवाघातित्वं वाच्यमिति । शरीरावस्थादिनिमित्तत्वेन तन्न वाच्यमिति भावः । अत्राघातिकर्मणीत्यनुवादेन चतुर्विधकर्मत्वं विधेयमिति लिङ्गव्यत्यासदोषः । क्वचिदघातिकर्मेत्यपि पाठः । स हि निःशेषं पुण्यापुण्यमिति भामत्यनुसारेण व्याचष्टे । निःशेषमिति । भामत्यां तप्तं शिलारोहणादिरित्येवोक्तमपि …….. सारेण स्वयं तपः पदार्थमाह । तच्चमौनेति । मलिनमिति पाठस्तु । साहि आस्रवेत्यादिभामत्यनुसारेण व्याचष्टे । आस्र इत्यादि । प्रमाणमालाटीकायामपि जीवाजीवास्रवसंवरमोक्षाः सप्तपदार्थाः । तत्र जीवास्तिकाय इत्यादिकम् । तथा बन्धोऽष्ठविधं कर्मेत्यादिग्रन्थोस्ति । न्यायवाचस्पतितट्टीकयोरपि किञ्चित् । आश्रावः श्रवतो द्वारमिति । इन्द्रियादीनां यत्स्रोतोद्वारम् । यद्वारेन्द्रियाणि च्यवन्ति तद्वदित्यर्थः । शमादिप्रवृत्तिरूप इति । शमादिरूपा प्रवृत्तिस्तद्रूप इत्यर्थः । शमदमादिरूपा प्रवृत्तिरिति भामत्यामुक्तेः । अत्रादिपदेन गुप्तेसमित्यादेर्ग्रहणम् । कायवाङ्मनोनिग्रहो गुप्तिर् भूमिगतजन्तूनां संहारपरिहाराय प्रहते मार्गे सम्यगादित्यरश्मिप्रकाशिते निरीक्ष्य सञ्चरणं नियताहारनिषेवणमित्यादिकं समितिरिति जैनैः परिभाष्यते इत्यादिकं ज्ञेयम् । …..सारेणाह । उपलक्षणं चैतत् । अर्हन्मुनिप्राप्तिः सततोर्ध्वगतिश्चेति । मोक्षोपयोगिन इति प्रागुक्तं मोक्षस्य मोक्षोपयोगित्वमुपपादयति । यद्यपीत्यादिना तृतीय इति । जैनोक्तमोक्षसाधनदूषणावसर इति शेषः । सप्त चैकान्तत्वभङ्गाः कथं कथं कदाचित्प्रसरन्तीत्यपेक्षायाम् अनन्तवीर्यः प्रतिपादयामासेत्यादिकल्पतर्वनुसारेणाह । केते सप्तप्रकारा इत्यादिना मनसि निधायेत्यन्तेन । यद्यपि तत्र गतिर्भवेदित्युक्तं तथाप्यत्र मतिरिति तथार्थानुवादः । तथा समुदायभृदित्यस्य समुदायवानिति । युगपदिति । युगपदस्तित्वनास्तित्वयोर्विवक्षायां युगपदुभयमपि अवाच्यम् । कुतो ऽशक्तितः । अशक्तिश्च वाचः क्रमवृत्तित्वादिति भावः । आद्या वाच्येत्यादि ।
ननु वाचः क्रमवृत्तित्वेन सदसत्वयोर्युगपद्विवक्षायामवाच्यत्वप्रसक्तावपि सत्वासत्वक्रामिकसदसत्वपक्षेषु कुतोऽवाच्यत्वप्रसङ्गः नह्येषु चतुर्थपक्ष इवाशक्तिरस्तीति कथमेतेषां पक्षाणां प्रसर इति चेत् । अत्र केचिदाद्या वाच्येत्यादिसार्धश्लोके अन्त्येन सह युगपद् आद्येन सह युगपद् एकैकेन सह युगपद् इत्यध्याहारेणाशक्तिमुपपादयति । तथाहि । आद्योऽस्तित्वभङ्गोऽन्त्येनासत्वेन सह अन्त्योऽसत्वभङ्गश्चाद्येन सत्वेन सह युगपद् वाच्यः । सदयुगपदवाच्यः सत्वरूपसमुच्चयभङ्गश्चैकेनासत्वेन एकेन सत्वेन वा सह युगपदवाच्य इति पञ्चमषष्टपक्षा इति । तदसत् । सदसत्वयोर्युगपद्विवक्षायां वाचः क्रमवृत्तित्वेनावाच्यत्वप्राप्तिरिति । चतुर्थपक्षादेषां त्रयाणां फलतो भेदाभावापत्या शब्दभेदमात्रेण विधान्तरत्वानुपपत्तिप्रसङ्गात् । तस्मादेवमत्र पक्षभेदव्युत्पादनम् । कार्यं सत्वासत्वसदसत्वपक्षेषु एकान्ते निरस्तेऽनिर्वाच्यत्वपक्षश्चतुर्थः । तेषु पक्षेषु तत्तत्पूर्वपक्षवाद्युक्तानिर्वाच्यत्वपक्षास्ते सिद्धान्तकोट्यासह पञ्चमषष्टसप्तमभावमश्नुवते । तथाहि । सत्वैकान्तपक्षः साङ्ख्याद्यभिमतसत्कार्यवादः । असत्वैकान्तपक्षः शून्यवाद्यभिमतोऽसद्वादं क्रमेण सदसत्वपक्षो वैशेषिकाद्यभिमतो घटादीनां मध्ये सता पूर्वं पश्चाच्च प्रागभावप्रध्वंसप्रतियोगित्वरूपमसत्वमिति वादः । एतेषां पक्षेषु पूर्वपक्षा उत्तिष्टंति । सत्वं निर्वक्तुमशक्यमिति असत्वं निर्वक्तुमशक्यमिति । प्रागभावप्रतियोगित्वप्रध्वंसप्रतियोगित्वे निर्वक्तुमशक्ये इति । तेषां पूर्वपक्षिणाम् एतदनिर्वाच्यत्वैकान्तवादास्तद्भङ्गरूपा एते अनेकान्तवादाः पञ्चमषष्टसप्तमाः स्यादस्त्यवक्तव्यमित्यादिनोक्त इति ॥ एतदाशयेनैवोत्तरत्र ग्रन्थकारः सप्तप्रकारान्निरूपयिष्यति ।
स्यादिति पूरणीयमिति । तन्निमित्तन्तु स्वयमेवावश्यं चैतदित्यादिना वक्ष्यतीति ध्येयम् । स्यादस्ति स्यान्नास्तीत्येतद्विधाद्वयानन्तरं शाङ्करभाष्यभामत्ययोर्यद्यपि स्यादवक्तव्य इति कोटिरेवोक्ता । तथापि तत्पाठान्तरम् । सप्तभङ्गीक्रमेणैव चायं पाठः । अत एव चन्द्रिकायां क्षपणवाक्यत्वेनैवमेवोदाहरणम् । एवं तत्रावक्तव्य इति पुल्लिङ्गेनोक्तावपि अत्र चन्द्रिकानुसारेण नपुंसकं च ध्येयम् । नन्वस्तीत्यादिविधासु स्याच्छब्दो न पूरयितुं शक्यते । तथा सति प्रथमविधायां तावदस्ति स्यादिति शब्दयोरेकस्मिन् पर्यवसानानुपपत्तिः । अस्तीत्यनेन हि वर्तमानत्वं बोध्यते । स्यादित्यनेन च कालत्रयानवमर्शिविधेयमात्रम् । तथा च कालत्रयानवमर्शिविधेयवर्तमानत्वयोः कथं युगपद्बोध्यत्वमिति तत्राह । स्याच्छब्द इति । तिङन्ततुल्योऽतो न विध्यर्थतेत्यर्थः । वाक्येष्विति । स्यादस्तीत्यादिवाक्येषु स्यादित्ययं शब्दस्तिङन्तसदृशो निपात इत्यन्वयः । कोस्यार्थ इति तत्राह । अनेकान्तेति । अनेकान्तद्योतनमर्थ इत्यर्थः । अनेकान्तप्रतिपादनं किं स्वातन्त्र्येण नेत्याह । गम्यं प्रतीति । अस्तित्वादिगम्यं प्रति विशेषणमित्यर्थः । अस्यानेकान्तद्योतित्वं कुत इत्यत आह । अर्थयोगित्वादिति । एतदुपपादयति । यदि पुनरिति । अनिष्टत्वमुपपाद्य अर्थयोगित्वमुक्तमित्याह । तदिदमिति । एवमन्वयमुक्त्वा व्यतिरेकमाह । अनेकान्तद्योतकत्वे त्विति । स्याच्छब्दस्यानेकान्तद्योतकत्वं जैनेरुक्तं तदनूदितम् । अनेकान्ताभिधाने प्रयोजनं तत् स्याद्वादः सर्वथैकान्तत्यागादित्यादिना भामत्यामुपपादितं तदुक्तरीत्या ध्येयम् । तदुपपादनं च कल्पतरौ ध्येयमिति भावः । एवं चास्त्यादिपक्षे स्याच्छब्दः कथञ्चिदर्थकः प्रयुज्यमानः नियमनिरासेनानैकान्तं द्योतयतीति फलितम् । सप्तप्रकारान् स्पष्टं संगृह्णाति । एवं चेति । इत्यादिरूपेणेत्यादिपदेन स्याद्भिन्नं स्यादभिन्नं स्याद्भिन्नं चाभिन्नं च विलक्षणं चेत्येवंरूपेणानियतसप्तप्रकारवादग्रहणं ध्येयम् ।