०२ योगाचारमतनिराकरणम्

इत्येतदपि नो युक्तं

योगाचारमतनिराकरणम्

**इत्येतदपि नो युक्तं **

सुधा

एवमनूदितं मतमपाकरोति इत्येतदपीति ।

अनुव्याख्यानम्

इत्येतदपि नो युक्तं …..

पूर्वमतसमुच्चयार्थोऽपिशब्दः । अनेन ‘न भाव’ इति सूत्रांशो व्याख्यातः । जगद् भावो ज्ञानं न भवतीत्यर्थः । भवतेरनुभवार्थत्वात् । उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एव ।

शेषवाक्यार्थचन्द्रिका

हेत्वंशस्येव प्रतिज्ञांशस्यस्याप्यवश्यव्याख्येयस्याव्याख्यानाद्भाष्ये न्यूनत्व माशङ्क्य मतापरणप्रतिज्ञारूपपूर्वभाष्येणैव तद्-व्याख्यानसिद्धेः पृथगव्याख्यानं न न्यूतनत्व पादकमित्याशयेन पूर्वभाष्यमेव तद्-व्याख्यानतयाऽपि व्यापारयति अनेनति । कथमित्यतस्तदेवाभिनयेन दर्शयति जगदिति । ननु तर्हि सूत्रे न ज्ञानमिति वक्तव्यं न भाव इति तु कथमुक्तम् । न च भावशब्दोऽपि ज्ञानपर इत्यदोषः । कर्तृसाधनभूधातुनिष्पन्नभावशब्दस्य सदर्थत्वेन ज्ञानपरत्वानुपपत्तेरित्यतः ‘क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः’ इति स्मरणाद् धातूनामनेकार्थत्वस्थित्या भवतेरनुभवार्थत्वस्याप्युपपत्तेर्नानुपपत्तिरित्याशयेनाह भवतेरनुभवार्थत्वादिति । नन्वेवं भावशब्देनैवानुभवलाभादनुभवशब्दे तदर्थस्यान्वित्युपसर्गस्य वैयर्थ्यं स्यादित्याशङ्क्योपसर्गाणां धातुगतशक्यतावच्छेदकत्वरूपोपसन्दानत्वापरपर्यायद्योतकत्वेन तदर्थकत्वासिद्धेर्न तद्वैयर्थमित्याह उपसगा हीति । प्रजयतीत्यत्र प्रोत्तरजित्वेन जिघातोरेव प्रकृष्टजये शक्तिकल्पनया प्रकृष्टजयबोधकत्वसिद्धेस्तद्द्योतकत्वमात्रं यथा प्रेत्युपसर्गस्यास्थीयते तथाऽनूत्तरभूत्वेन भूधातोरेव ज्ञानविशेषे शक्तिकल्पनया ज्ञानविशेषबोधकत्वादन्वित्यस्योक्तरीत्या द्योतकत्वमेवेत्यर्थः ।

यद्यपि उपसर्गाणां वाचकत्वमेव स्वसिद्धान्तः । ‘समिति ह्युपसर्गेण परमुख्यार्थतोच्यते’ ‘उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति । अतिक्रमं वदन्तं तमुपशब्दो निवारयेदि’ति तत्र तत्र भगवत्पादोक्तेः। युक्तिसिद्धश्चायमर्थः । गवादिशब्दानां स्वार्थ इव जिधातोरावापोद्वापाभ्यां जय इव प्रादेरपि प्रकर्षादावापोद्वापाभ्यां शक्तिग्रहात् । प्रकृष्टजयप्रत्ययस्य च जयमात्रे क्लृप्तशक्तिकजिधातुसमभिव्याहारेणैवोपपत्तौ धातावेव प्रोत्तरजित्वेन प्रकृष्टजये शक्तिकल्पनस्य गौरवात् । जिपूर्वप्रत्वेन प्रशब्दस्यैव प्रकृष्टजये शक्तिकल्पना प्रतिबन्द्या चानुत्थानात् । तथाऽपि अङ्गीकारवादोऽयमित्यदोषः । विस्तरस्तु तर्कताण्डवे द्रष्टव्यः । निरवकाशैतद्ग्रन्थानुरोधेन कर्मनिर्णयटीकानुरोधेन च द्योतकत्वस्य उदाहृतभगवत्पादग्रन्थानुरोधेन वाचकत्वस्य चावगतेरुभयमपि सिद्धान्त एव । ततश्चोपसर्गविशेषाभिप्रायेणैव वाचकत्वद्योतकत्वयोः समावेशस्यावश्यकत्वादुपसर्गविशेषस्य वाचकत्वेऽप्युपसर्गविशेषस्य द्योतकत्वात्तदभिप्रायेणैव वाऽयं ग्रन्थः । तर्कताण्डवे वाचकत्वसमर्थनमप्युपसर्गविशेषाभिप्रायकमेवेत्यप्याहुः । यद्यप्यत्र वो युष्माकं भाः साक्षात्कारत्वेनाभिमतं ज्ञानमित्यभिप्रेत्य वा, ‘प्राप्तौ भूकशुद्धिचिन्तयोरि’ति वचनाच् चिन्तार्थकज्ञानात्मकोऽपि भूधातुरस्तीति वा, नाभाव उपलब्धेरिति पूर्वसूत्र इवात्रापि सूत्रे कर्तृसाधनो भावशब्दः सद्रूपज्ञानवाचक एव । विज्ञानवादे ज्ञानदन्यस्यासत्वेन तद्वाच्यत्वासम्भवात् । ज्ञानमित्यनुक्त्वा भाव इत्युक्तिस्तु शून्यवादिनं प्रयुक्तो दोषो नास्माकमिति पूर्वपक्षोत्थापनार्थमेवेति वा व्युत्पादनं कर्तुं शक्यते । तथाऽप्युपायान्तरमेतदुपदर्शितं टीकायामित्यदोषः ।

**परिमल **

अनेनेति । नो युक्तमित्यनेनेत्यर्थः । भाव इति सौत्रपदानुवादः । ज्ञानमिति व्याख्या । भावशब्दस्य ज्ञानार्थत्वं कथमित्यत आह भवतेरिति । ‘प्राप्तौ भूः(?) शुद्धिचिन्तयोरित कविकल्पद्गुमोक्त्या चिन्तार्थस्य भवतेरप्रत्यये भाव इति सिद्धिरिति चन्द्रिकोक्तरीत्या चिन्तार्थत्वमुपेत्यानुभवार्थत्वादित्युक्तम् । नन्वन्वित्युपसर्गयुक्त एव भवतिरनुभवार्थे दृष्ट इत्यत आह उपसर्गा हीति । एतच्चाभ्युपेत्यवादेन । वस्तुतस्तु वाचका एवोपसर्गाः । तर्कताण्डवे तथा निपुणतरमुपपादितत्वादिति ज्ञेयम् ॥

यादुपत्यम्

अनुभवार्थत्वादिति । धातूनामनेकार्थत्वादिति भावः । नन्वेवमन्वित्युपसर्गस्य वैय्यर्थ्यमित्यत आह उपसर्गा हीति ॥ व्यञ्जका एवेति । धातुगतशक्ततावच्छेदकरूपोपसन्दानापरपर्यायद्योतका एवेत्यर्थः । यथा प्रजयतीत्यत्र जिधातोरेव प्रोत्तरजित्वेन प्रकृष्टजये शक्तिकल्पनात्प्रकृष्टजयद्योतकत्वं प्रेत्यस्य, एवं भूधातोरेवानूत्तरभूत्वेन ज्ञानविशेषे शक्तिकल्पनात् शक्ततावच्छेदकत्वरूपमुपसन्दानत्वापरपर्यायद्योतकत्वमेवानूपसर्गस्य, न पुनरर्थविशेषे शक्तत्वरूपं वाचकत्वमिति भावः । इदं च पररीतिमाश्रित्यैवोक्तं न वस्तुतः । ‘उपसर्गत्वतो वेस्तु’ इत्यत्र वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वादिति पूर्वमुक्तत्वात् । ‘समिति ह्युपसर्गेण परमुख्यार्थतोच्यत’ इति वक्ष्यमाणरत्वाच्च । उपसर्गाणां यथा अर्थविशेषवाचकत्वमेव नोपसन्दानत्वं, तथा तर्कताण्डवे प्रतिपादितं तत्रैवानुसन्धेयम् । उपसर्गविशेषाभिप्रायेणैवैतदित्यन्ये ॥ वस्तुतस्तु पूर्वसूत्र इवात्रापि सूत्रे कर्तृसाधनेन भावशब्देन सद्रूपं ज्ञानमुच्यते । विज्ञानवादे ज्ञानादन्यस्यासत्वात् । ज्ञानमित्यनुक्त्वा भाव इत्युक्तिस्तु नासतोऽदृष्टत्वादिति शून्यवादिनं प्रत्युक्तो दोषो नास्माकमिति पूर्वपक्षोत्थापनार्थमिति चन्द्रिकानुसारेण भावशब्दार्थोऽवगन्तव्यः ।

**श्रीनिवासतीर्थीया **

नन्वनुरूपोपसर्गपूर्वकस्यैव भवतेरनुभवार्थत्वं युक्तं न केवलं भवतेः । प्रकृते चानुरूपोपसर्गाभावात्कथमनुभवार्थत्वमत आह उपसर्गा हीति । तथा च भवतेरेवानुभववाचकत्वमित्यर्थः । यथाऽऽहुः । ‘धातावेव विलीनोऽर्थ उपसर्गेण काश्यते । प्रहाराहारसंहारविहारपरिहारवदिति’ ॥

**वाक्यार्थरत्नमाला **

मतापकरणेति । योगाचारमतापाकरणेत्यर्थः । इति स्मरणादिति । ……शेषः । अनुभवार्थत्वादितीति । विभाषाग्रह इति सूत्रीय भवतेश्चेति वक्तव्यं भवः संसारो भावः पदार्थ इत्यादिकाशिकापदमञ्जर्याद्यनुसारेण प्रत्ययान्तो भावशब्द इति व्युत्पाद्यम् । नन्वेवमिति । एवं भूधातोरनेकार्थत्वे । तदर्थस्य अनुभवलाभार्थस्य । अयमाशयः । प्रतिष्ठतेर्गतिनिवृत्यर्थत्वेऽपि प्रोपसन्दाने गतिरूपार्थान्तरपरत्ववद् भवतेर्ज्ञानार्थत्वेऽपि अनूपसर्गसम्बन्धवशेनैवानुभवरूपार्थान्तरपरत्वात् । अनूपसर्गस्यानुभवलाभार्थत्वमिति । भवेदेवम् । यद्यनूपसर्गस्यानुभवार्थकत्वं स्यान्न च तदस्ति तथा च न तेनानुभवलाभ इति समाधिमाह । उपसर्गाणामिति । तदर्थकत्वासिद्धेरिति । अनुभवार्थकत्वासिद्धेरित्यर्थः । ततश्च न तेन तल्लाभ इति भावः । ज्ञानविशेषेति । स्मृतिव्यतिरिक्तज्ञानरूपेत्यर्थः । तत्र भगवत्पादोक्तेरिति । समित्युपसर्गेणेति । तृतीयस्य तृतीये । उपसंक्रमणं चैवेति श्लोकस्यानन्दमयाधिकरणे उक्तेरित्यर्थः । तर्कताण्डवानुसारेण वाचकत्वमुपपादयति । युक्तिसिद्धश्चेति । गौरवादित्यस्यानुत्थानादित्यनेन सम्बन्धः । कर्मनिर्णयटीकेति । यो व्यतींरभाणयदित्येतद्-व्याख्यानावसरे उपसर्गाहि धातुसम्बन्धे तदर्थबाधादिहेतवः केवलास्तु समाधानक्रियावचना भवन्तीत्यत इति टीकेत्यर्थः। उपलक्षणं चैतत् । उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथेत्येतत्प्रथमाध्यायचतुर्थपादीयानुव्याख्यानव्याख्यानावसरे इत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वाद् इत्येतन्मूलानुरोधेनेत्यपि द्रष्टव्यम् । वाचकत्वस्यचावगतेरिति चशब्दयुक्तः पाठः ।

यद्यपि गोधापरिसनिष्वणद् इत्येतद्-व्याख्यावसरे उपसर्गाणां व्यञ्जकत्वपक्षे वाचकत्वेपीति पक्षद्वयं चाविशेषेणोक्तम् । तथापि तत्सामान्यत एवोक्तम् । उपसर्गा हीत्येतत्तु विशेषतः स्वपक्षत्वेनेति तदेव साधकत्वेनोक्तं भावशब्दस्य ज्ञानवाचकत्वं चन्द्रिकायां प्रतिपादितं त्रेधा । तत्प्रकारेणैवोपपत्तौ किं प्रकारान्तराश्रयणेनेति शङ्कते । यद्यपीति । तत्र केषाञ्चित्पक्षद्वयमादायाह । वो युष्माकं भाव इत्यादि । अत्र दीप्त्यर्थकस्य भातेर्धातोर् आतोमनिन्नित्यनेन चशब्दसङ्गृहीतविच्प्रत्यये भा इत्याकारान्तशब्दनिष्पत्तौ आबन्तत्वाभावेन सुब्लोपाभावे भा इति प्रथमैकवचनसिद्धिः । सकारान्तभाश्शब्दपक्षेऽपि रूपत्वयलोपयोर्भाव इति भवतीत्यप्याहुः । प्राप्तौ भुक् शुद्धिचिन्तयोरिति वचनादिति । ब्रुलयुंक्तौ भुक्भूञ्प्राप्तौ भूक्शुद्धिचिन्तयोरिति कविकल्पद्रुमीयधातुपाठवचनादित्यर्थः । प्राप्तावित्यस्य पूर्वत्रान्वयात् ञकारानुबन्धविशिष्ठो भूधातुः प्राप्त्यर्थे वर्तते । ककारानुबन्धयुक्तस्तु भूधातुः शुध्यर्थे च वर्तत इत्यर्थः । ककारानुबन्धस्तु चुरादिण्यंतत्वज्ञापनार्थ इति द्रष्टव्यम् । चन्द्रिकाकारीयं पक्षमाह । नाभाव उपलब्धेरिति पूर्वसूत्रे इवेतीति । व्युत्पादनं कर्तुं शक्यत इति । अत्रानेकार्थत्वाद्यनाश्रयणादिति भावः । उपायान्तरमिति । तथा व्याख्यानं तु स्पष्टत्वात् शिष्यैरेवोह्यतामिति भावेनेति शेषः ।


न हि ज्ञानतया जगत्

न हि ज्ञानतया जगत्

सुधा

कुतो न युक्तमिति चेत् । किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मक(मित्यु)मुच्यते, किंवा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं

त्वसदिति । आद्यस्त्वतीताधिकरणरीत्या निरस्तः । न द्वितीयः जगतो ज्ञानाभेदे प्रमाणाभावात् । न तावत्तत्र प्रत्यक्षमस्तीत्याह न हीति ।

अनुव्याख्यानम्

….. ….. न हि ज्ञानतया जगत् ॥

भासते …… ……. …….

अनेनानुपलब्धेरित्येतद्-व्याख्यातं भवति ॥ मा भूत्प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः । प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आह अनुभवस्यैवेति ।

अनुव्याख्यानम्

……. अनुभवस्यैव विरुद्धत्वादपेशलम् ॥

तन्मतम् ……. ……. …….

सम्बन्धामात्रे षष्ठी । एवशब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति । तन्मतं तदभिमतमनुमानमिति शेषः । ज्ञानज्ञेययोरैक्यमिति (च) वा । ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात्कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः । अनेनानुपलब्धेरित्येतदुपलब्धिविरोधादिति च व्याख्यातम् ।

ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न । बाधकाभावात् । अनुमानं बाधकमिति तु न वाच्यम् । प्रत्यक्षस्यानुमानतो बलवत्वात् । अन्यथा कालातीततोच्छेदप्रसङ्गात् । प्रत्यक्षस्य भ्रा(न्ति)न्तत्वेऽनुमानप्रामाण्यं तस्मिंश्च सति प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति ।

शेषवाक्यार्थचन्द्रिका

ननु जगतो विज्ञानात्मकत्वं नाम तत्रारोपितत्वमेव ममाभिमतम् । तथा च न हीत्युत्तरदूषणसङ्गतिरित्यतो नैतत्पक्षदूषणपरमुत्तरवाक्यं किन्नाम विज्ञानाभिन्नमेव जगदिति पक्षनिरासपरमित्यतो नानुपपत्तिरित्यभिप्रेत्य जगतो विज्ञानात्मकत्वोक्तौ सम्भावितं पक्षद्वयं विकल्प्याद्यपक्षं बहिरेव प्रदूष्य द्वितीयपक्षदूषणपरतयोत्तरग्रन्थं योजयति किं ज्ञेयमित्यादिना ॥ निरस्त इति । जगतो भ्रान्तिकल्पितत्वस्य तत्र साधकाभावेन बाधकसद्भावेन निरस्तत्वादिति भावः । ननु ‘न हि ज्ञानतया जगदि’ति ज्ञानजगतोरभेदस्य प्रत्यक्षत्वाभाववर्णनमनर्थकम् । न चैतत्तदभेदस्य प्रामाणिकत्वाभावसमर्थनार्थमिति वाच्यम् । तस्य प्रागनुक्ततया तदुपपादकत्वायोगादित्यतो द्वितीयपक्षनिरासहेतुतया तस्याभिप्रेतत्वात्तदुपपादकस्योत्तरग्रन्थस्य नानर्थक्यमित्यभिप्रेतोपपादकतयोत्तरग्रन्थं योजयितुं द्वितीयपक्षनिरासं प्रतिज्ञाय तद्धेतुतया प्रमाणाभावं तावव्द्यापारयति न द्वितीयो जगत इति । तथाऽपि प्रत्यक्षाभावमात्रेण न प्रमाणाभावसिद्धिरतिप्रसङ्गादित्यतोऽत्र यावत्प्रमाणविशेषाभावस्यैव प्रमाणाभावसाधकतयाऽभिमतत्वान्नानुपपत्तिरिति भावेन तत्किं प्रत्यक्षमुतानुमानमिति प्रमाणविशेषविकल्पं मनसि निधाय प्रत्यक्षाभावोपपादकतया न हीति ग्रन्थं सङ्गमयति न तावदिति । द्वितीयपक्षमुत्थापयति मा भूदिति । प्रकाशमानत्वादीत्यादिपदेन नियतसहोपलम्भरूपहेतुपरिग्रहः । ‘न लोकाव्ययनिष्ठाखलर्थतृनामि’ति निष्ठायोगे षष्टीनिषेधान् निष्ठान्तविरुद्धशब्दयोगेऽनुभवस्येति कथं षष्ठीत्यतो नायं षष्ठीमात्रस्य निषेधः किन्तु कारकषष्ट्या एव । अन्यथा ‘ब्राह्मणस्य कुर्वन्नोदनस्य पचन् अपां पेरुरसि नरकस्य जिष्णवो गुणैरि’त्यादौ षष्ठ्यनुपपत्तिप्रसङ्गात् । तथा च निष्ठायोगे कारकषष्ठ्यनुपपत्तावपि शेषषष्ठ्या अप्रतिषेधादस्याश्च शेषषष्ठीत्वान्नानुपपत्तिरित्याशयेनाह सम्बन्धमात्र इति । एतच्च न लोकेति निषेधस्य नित्यत्वमभ्युपगम्यैवोक्तं न वस्तुतः । तृजकाभ्यामिति वक्तव्ये तृचः सानुबन्धकस्य ग्रहणाज् ज्ञापकात्तस्यानित्यतया कारकषष्ठीपक्षेऽपि निषेधाप्रवृत्युपपत्तेरिति ध्येयम् । नन्वनुमानविरोधस्याप्युत्तरत्रोच्यमानत्वादनुभवस्यैवेति कथमवधारणमित्यतोऽस्य बाधकत्वोपयोगिप्राबल्यसूचकतयोत्तरनिषेधकत्वाभावान्नानुपपत्तिरित्याशयेनाह एव शब्द इति । अनुमाननिरासकताया मूलारूढतासिध्द्यर्थमनुरूपं शेषं पूरयति अनुमानमिति शेष इति । प्रमाणाभावसमर्थनफलोपपादकतयाऽपि शेषं पूरयति ज्ञानज्ञेययोरैक्यमिति (चे)वेति । अत्र शेष इति वर्तते ।

बाधकमपि किं तदभेदग्राहकं प्रत्यक्षमभिमतं किंवा तदभेदसाधकतयोपन्यस्तमनुमानमिति विकल्पं मनसि निधाय न हि ज्ञानतया जगद्दृश्यत इति ज्ञानजगतोरभेदे प्रत्यक्षाभावस्य पूर्वमुपपादितत्वान्न तस्य बाधकत्वं सम्भवतीत्याशयेनाद्यं दूषयति बाधकाभावादिति । द्वितीयं दूषयति अनुमानं हीति । तत्कुत इत्यतो दुर्बलस्यानुमानस्य प्रबलप्रत्यक्षबाध्यतया तद्बाधकत्वायोगादित्याह प्रत्यक्षस्येति । प्रबलत्वं चानुमितिकारणस्य पक्षसाध्यहेतुव्याप्त्यादेरनुमितिस्वरूपतत्प्रामाण्यादेश्च प्रत्यक्षेणैव ग्राह्यत्वादुपजीव्यत्वेनेति द्रष्टव्यम् । अस्तु प्रबलस्यापि प्रत्यक्षस्य दुर्बलेनैवानुमानेन बाध इत्यतस्तथा सत्यग्न्यौष्ण्यप्रत्यक्षस्य तच्छैत्यानुमानेनैव बाधप्रसङ्गात्कालात्ययापदिष्टोच्छेदः स्यादित्याह अन्यथेति ॥ अन्योन्याश्रत्वाच्चेतीति । न चैवमनुमानस्य भ्रान्तत्वे सिद्धे प्रत्यक्षस्य प्रामाण्यसिद्धिस्तस्मिंश्च सत्यनुमानस्य भ्रान्तत्वसिद्धिरिति तवाप्यन्योन्याश्रयः स्यादिति वाच्यम् । अक्षस्य प्रबलतयाऽनुमानविरोधपरिहारमनपेक्ष्यैव प्रामाण्यस्थित्या तदनवकाशात् । ‘न हि सिंहः शशशावकाभावमपेक्ष्य वनमवगाहते’ इत्याशयात् ।

**परिमल **

अतीताधिकरणरीत्येति । ‘न चाभावो विश्वं सदिति गम्यते । यत’ इत्युक्तरीत्येत्यर्थः । नन्वनुभवस्य विरुद्धत्वादिति कथम् । ‘न लोकाव्ययनिष्ठाखलर्थतृनामि’ति सूत्रेण निष्ठाशब्दितक्तप्रत्ययान्तयोगे सति षष्ठी न भवतीति निषिद्धत्वेन कर्तृकारणयोस्तृतीयेति कर्तरि तृतीयया भाव्यत्वादित्यत आह सम्बधमात्रे षष्ठीति । षष्ठी शेष इति सूत्रोक्तसम्बन्ध(मात्रेण)सामान्ये षष्ठी । न तु क्रिया कर्तृभावरूपसम्बन्धविशेषे । ‘न लोकाव्ययनिष्ठे’ति सूत्रे च कर्तृकर्मणोः कृतीति सूत्रप्राप्तषष्ठ्या एव द्वितीयाध्यायद्वितीयपादे निषेधः न सम्बन्धमात्रप्राप्तषष्ठ्या इति भावः ।

यादुपत्यं

ननु ‘न लोकाव्यवानिष्ठे’ति षष्ठीप्रतिषेधात्कथमनुभवस्य विरुद्धत्वादिति निष्ठायोगे षष्ठीत्यत आह सम्बन्धमात्र इति । नात्र ‘कर्तृकर्मणोः कृती’त्यनेन कर्तरि षष्ठी, येनोक्तनिषेधावसरः, किन्तु षष्ठी शेष इत्यनेनैव । अत्र च न तन्निषेधप्राप्तिरिति भावः ॥ सूचयतीति । ‘शब्दादेव प्रमितः’ इत्यत्रेवेति भावः ।

**श्रीनिवासतीर्थीया **

आद्यस्त्विति । ज्ञेयं स्वरूपेण सदेव विज्ञाने आरोपितमित्येतत् ‘नाभाव उपलब्धेः’, ‘वैधर्म्याच्च न स्वप्नादिवदि’त्यतीताधिकरणन्यायेन निरस्तमित्यर्थः ॥ अनेनेति । तथा चानुपलब्धेरित्यस्य ज्ञेयस्य ज्ञानात्मकतायाः प्रत्यक्षेणानुपलब्धेरित्यर्थः ॥ अनुमानत इति । यत्प्रकाशते तद्विज्ञानं, यथा ज्ञानम् । प्रकाशन्ते च नीलादय इत्यनुमानादित्यर्थः । अन्यथाऽनुमानेनैव प्रत्यक्षस्य बाधे वन्हिरनुष्ण इत्यनेनानुमानेनैव स्पार्शनप्रत्यक्षस्य बाधापत्या कालात्ययापदिष्टरूपबाधोच्छेदप्रसङ्गादित्यर्थः । ‘प्रत्यक्षस्य भ्रान्तित्व इत्यनन्तरं तद्विरोधाभावादिति शेषः । ‘तस्मिंश्च सती’त्यनन्तरं तद्विरोधादिति शेषः ॥

**वाक्यार्थरत्नमाला **

तृचः सानुबन्धकस्य ग्रहणाद् ज्ञापकादिति । एतच्च मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्येतद्विचारावसरे टीकायां तृतीयस्य तृतीये स्पष्टमिति ज्ञातव्यम् ॥