०१ योगाचाराणां मतस्योपन्यासः

ॐ न भावोऽनुपलब्धेः ॐ

॥ अथ अनुपलब्ध्यधिकरणम् ॥

योगाचाराणां मतस्योपन्यासः

ॐ न भावोऽनुपलब्धेः ॐ

सुधा

ॐ न भावोऽनुपलब्धेः ॐ ॥ अत्र योगाचाराणां मतमपाक्रियते । तदर्थं तदुपन्यस्यति ज्ञानमेवेति ।

अनुव्याख्यानम्

॥ ॐ न भावोऽनुपलब्धेः ॐ ॥

ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।

विज्ञानमेव तत्वं, न रूपादयश्चत्वारः स्कन्धाः ; इति योगाचारा मन्यन्त इत्यर्थः । विज्ञानाङ्गीकारेऽपि विशेषमाह एकमिति । अद्वितीयमित्यर्थः । ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धं तत्कथं विज्ञानमेव तत्वमित्यत आह अखिलेति । ज्ञानमेव ज्ञेयाकारम् । न ज्ञेयं नाम ज्ञानाद्भिन्नमस्तीत्यर्थः । कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आह प्रभासत इति । ज्ञानं हि प्रकाशते । तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः । यद्वा प्रभासते नीलादिना सहैवेति शेषः । तेन ‘सहोपलम्भनियमादभेदो नीलतद्धियोरि’त्युक्तं भवति ।

शेषवाक्यार्थचन्द्रिका

ॐ न भावोऽनुपलब्धेः ॐ ॥ अधिकरणप्रतिपाद्यानुक्तेर्मूले न्यूनतामाशङ्क्य भाष्ये तदुक्तेस्तदनुसारेणात्रापि शिष्यैरेव ज्ञातुं शक्यत्वात्तदनुक्तिरत्र न दोषायेत्यभिप्रेत्य विज्ञानवादमपाकरोतीति भाष्यं मनसि निधाय स्वयमधिकरणप्रतिपाद्यमाह अत्रेति । तर्हि तन्निकारणमेव कर्तव्यम् । किं ज्ञानमेवैकमखिलमित्यादिना ग्रन्थेन । न चायं तन्मतोपन्यासः । तस्यानर्थकत्वादित्यतो विप्रतिपत्तिविषयोपदर्शनेन तन्मतानिरस्यताशङ्कानिरासार्थत्वात्तस्य नानर्थक्यमित्याशयेन तन्मतोपन्यासप्रयोजनप्रदर्शनपूर्वकं तत्परतयोत्तरग्रन्थं सङ्गमयति तदर्थमिति । निरस्यताप्रयोजकीभूतविरुद्धार्थत्वोपदर्शनेन तन्मतस्य निरस्यतासमर्थनार्थमित्यर्थः । ननु विज्ञानस्य तत्वता वैभाषिकादिमतसाधारणी न मतभेदप्रयोजिकेत्यतो मूले उक्तस्यैवेत्यस्य तात्पर्यं वदन्नपेक्षितपूरणेन वाक्याभासतां परिहरति विज्ञानमेव तत्वमित्यादिना विज्ञानाङ्गीकारेऽपीति । विज्ञानस्य तत्वताङ्गीरेऽपीत्यर्थः ॥ विशेषमाहेति । तर्हि विज्ञानव्यक्तीनामनन्तत्वादनन्तसव्द्यक्त्यङ्गीकारप्रसङ्गात्सदद्वैतभङ्ग इत्याशङ्कापरिहारार्थमिति शेषः । एकत्वसङ्ख्यावत्वरूपस्यैकत्वस्य ज्ञानेऽसम्भवात्सम्भवे वा सदद्वैतमतभङ्गशङ्का निरासाक्षमत्वात्तच्छङ्कानिरासोपयोगितयैकमित्येतद्-व्याचष्टे अद्वितीयमित्यर्थ इति । मूले ज्ञानस्याखिलज्ञेयाकारत्ववर्णनस्यानर्थक्यमाशङ्क्य ज्ञानमेवैक मित्युक्ताया ज्ञानमात्रतत्वताया उपपादनार्थं तदिति भावेन तदुपपादकतया तद्योजयितुं तदनुपपत्तिशङ्कामुत्थापयति नन्विति । तत्त्वरूपत्वाङ्गीकारप्रयोजकस्य प्रामाणिकत्वस्य ज्ञानज्ञेययोः साधारण्येनोभयोरपि तत्त्वरूपत्वमेव न तूक्तरीत्या तद्वैषम्यमित्यर्थः ॥

ज्ञानं हीति । अनेन ज्ञानमित्यस्यावृत्तिरुक्ता भवति । ज्ञानमेव हीत्यर्थः । अन्यथा ज्ञानत्वस्य प्रकाशमानत्वं प्रति व्यापकताया अलाभादिति द्रष्टव्यम् । अनेन यत्प्रकाशते तज्ज्ञानं यथा सम्मतं प्रकाशते च नीलादीत्युदाहरणोपनयाख्यव्द्यवयवानुमानमेव ज्ञेयस्य ज्ञानात्मकत्वे प्रमाणमुक्तं भवति । अनुमानान्तरसङ्ग्राहकयाऽपि प्रतिभासत इति व्याख्याति यद्वेति ॥ तेन सहोपलम्भनियमादिति । यद्येन नियतसहोपलम्भनं तत्ततो न भिद्यते । यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः । नियतसहोपलम्भश्चार्थो ज्ञानेनेत्यनुमानमनेनोक्तं भवति । न चात्र हेत्वसिद्धिरिति शङ्क्यम् । विषयविज्ञानयोरेकस्यानुपलम्भेऽन्यस्योपलम्भाभावादेव तत्सिद्धिसम्भवात् । न चाप्रयोजकत्वं शङ्क्यम् । व्यापकाभावेन व्याप्याभावसाधनरूपतया तदनवकाशात् । तथा हि । विज्ञानवादिना निषेध्यो हि विज्ञानार्थयोर्भेदः सहोपलम्भनियमाभावेन व्याप्तः । यतो यौ भिन्नौ न ताववश्यं सहोपलभ्येते यथाऽश्विनाविति नियमात् । अश्विनोर्हि कदाचिदेकोपलम्भेऽन्यस्योपलम्भेऽपि न तन्नियमोऽस्ति । कदाचिदेकस्याभ्रादिनाऽऽच्छादनेऽप्यन्यस्योपलम्भदर्शनात् । न च भेदव्यापकः सहोपलम्भनियमाभावोऽर्थज्ञानयोरस्ति येन तव्द्याप्यो भेदोऽपि स्यात् । तयोः सहोपलम्भनियमेन तद्विरुद्धस्य सहोपलम्भनियमाभावस्यासम्भवात् । स च ज्ञानार्थयोर्व्यावर्तमानः स्वव्याप्यं भेदमपि व्यावर्तयति । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरवश्यम्भावात् । ततश्च प्रतिबन्धसिद्धौ क्वाप्रयोजकत्वशङ्केति भावः ।

**परिमल **

ॐ न भावोऽनुपलब्धेः ॐ ॥ योगाचाराणामिति । वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचाराख्यभेदेन चतुर्विधबौद्धेषु त्रिषु निरस्तेष्वविशिष्टबौद्धमतं निरस्यत इत्यर्थः । एवशब्दव्यावर्त्यमाह न रूपादय इति । रूपवेदनसंज्ञासंस्काराश्चत्वारो इत्यर्थः । इतिशब्दानन्तरा कांक्षितक्रियापदं कर्तृपदं च पूरयति इति योगाचारा मन्यन्त इति ॥ व्याप्तौ सिद्धायामिति । विज्ञानतत्व इति योज्यम् । यद्वेत्यनन्तरम् (वि)ज्ञानं हीत्यनुकर्षः ॥ सहोपलम्भेति । अङ्गुल्यवष्टब्धनयनेन दृश्यमानं द्वितीयचन्द्रादिकं सत्यचन्द्रादिना नियमेन सहोपलभ्यमानं सत्यचन्द्राद्यभिन्नं दृष्टम् एवं नीलादिना सहैव भासमानं ज्ञनं तेनाभिन्नमित्यर्थः ।

यादुपत्यम्

ॐ न भावोऽनुपलब्धेः ॐ ॥ अद्वितीयमित्यर्थ इति । सजातीयभेदशून्यमित्यर्थः। सहोपलम्भनियमादित्यस्यायमयर्थः । यद्येन नियतसहोपलम्भनं तत्ततोन भिद्यते यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः । नियतसहोपलम्भनश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः । निषेध्यो हि भेदः सहोपलम्भानियमेन व्याप्तः । यथा भिन्नावश्विनौ नावश्यं सहोपलभ्येते । कदाचिदभ्रापिधानेऽन्यतरस्यैकतरस्योपलब्धेः । सोऽयमिह भेदव्यापकानियमविरुद्धो नियम उपलभ्यमानस्तद्-व्याप्यं भेदं निवर्तयतीति ॥

**वाक्यार्थरत्नमाला **

॥ वह्निमानेव धूमवान् इत्यादाविव व्यभिचारपरिहारेण व्याप्तिसिध्यर्थमाह । ज्ञानमेव हीत्यर्थ इति । अलाभादिति । व्यभिचाराशङ्कानिरासकाभावादित्यर्थः । ……नुसारेणाह । यद्येन नियतसहोपलम्भनमित्यादिना शङ्केति भाव इत्यन्तेन ।