भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि
परोत्प्रेक्षिततर्कनिरासः
भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि
सुधा
एवं प्रपञ्चमिथ्यात्वानुमानानि निराकृत्येदानीं तदनुग्राहकत्वेन, सत्यत्वप्रत्यक्षस्य प्रतिकूलत्वेन च परोत्प्रेक्षितं तर्कमपि निराकर्तुमाशङ्कते भेद इति ।
अनुव्याख्यानम्
भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि ॥
अन्योन्याश्रयताहेतोर्दुर्ग्राह्य इति यत् …. ।
आदिपदेन विशेषणप्रतियोगिनोर्ग्रहणम् । यदि गृह्यत इति शेषः । तर्हीति च । अयमर्थः । यदि प्रपञ्चो सांवृतो न स्यात्तदा प्रत्यक्षोऽप्यसौ न स्यात् । तथा हि । अनेकभेदभिन्नो हि प्रपञ्च इष्यते । भेदस्य चाप्रत्यक्षतायां सोऽप्यप्रत्यक्ष एव । विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः । न च भेदप्रतीतिरुपपद्यते । भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटयोर्विशेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः । भेद इत्येव प्रतीतेरभावात् । यद्वा घटात्पटो भिन्न इति, घटात्पटस्य भेद इति वा घटप्रतियोगितया पटधर्मिकतया च भेदग्रहणमेष्टव्यम् । तत्रोभयत्राप्यन्योन्याश्रयत्वं, विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः । न हि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदापेक्षम् । न हि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम् ॥ तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानं तन्निरूप्यत्वात् । भेदज्ञा(न एव)ने सति च धर्मिप्रतियोगिनोर्ज्ञानम् । न हि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते । तथात्वे घटाद्घटस्य भेद(इत्यपि)प्रतीतिः स्यात् । न च परस्पराश्रयाणि कार्याणि सम्भवन्ति ।
अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिमय एवायमङ्गीकरणीय इति । निराकरोति नेति ।
अनुव्याख्यानम्
……….. न तत् ॥
शेषवाक्यार्थचन्द्रिका
‘धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि । विशेषणं विशेष्यं च तद्भावश्चे’त्युत्तरग्रन्थानुरोधेनादिशब्दार्थमाह अदिपदेनेति । साकाङ्क्षत्वात्प्रसक्तां वाक्याभासतामपेक्षितपूरणेन परिहरति गृह्यत इति शेष इति ॥ तर्हीति चेति । अत्र विशेष इति वर्तते । भेदस्याप्रत्यक्षत्वेऽपि कुतः प्रपञ्चस्याप्रत्यक्षत्वमित्यत उक्तं भेदभिन्न इति । तथाऽपि यत्र भेदोऽङ्गीक्रियते तस्य वस्तुनः प्रत्यक्षाभावमात्रमेव भेदप्रत्ययाभावेन भविष्यति । अन्यत्र तु प्रपञ्चप्रत्यक्षे न बाधकमिति कथं तत्प्रत्यक्षत्वाभावापादनमित्यतः सर्वत्रापि भेदसद्भावं प्रतिपादयितुं तदनेकत्वोक्तिः । नन्वन्योन्याश्रयाद्भेदप्रतीतेरेव निराकरणे त्वन्मतेऽपि भेदप्रतीतिर्न स्यदित्यतो मन्मते भेदस्य सांवृतत्त्वात्संवृतिवशेन भेदप्रतीतिसम्भवेऽपि त्वया तस्य पारमार्थिकत्वाङ्गीकारान्न तदुपपत्तिरित्याशयात् । ननु घटपटादिभेदस्य प्रत्यक्षत्वान्न तस्याप्रत्यक्षत्वमित्याशङ्क्याह न चेति । भेदप्रतीतिः प्रत्यक्षरूपा भेदप्रतीतिरित्यर्थः । तत्कुत इत्यतोऽन्योन्याश्रयेण भेदप्रत्यक्षं दूषयिष्यन्द्वित्वावच्छिन्नयोर्घटपटयोर्विशेष्यत्वेन विशेषणत्वेन च प्रतीतिसापेक्षत्वं भेदप्रतीतेरुपपादयितुं भूमिकां तावदारचयति भेदो हीति ।
ननु घटपटोभयविशेषणतया तद्विशेष्यतया च भेदप्रतीत्युदाहरणमसङ्गतम् । न च भेदप्रतीतेर्विशेष्यत्वेन विशेषणत्वेन च घटपटोभयप्रतीतिसापेक्षत्वमुपपादयितुं तदुदाहरणं युक्तमिति वाच्यम् । अस्यास्माद्भेद इति प्रतीत्या भेदस्यान्यतराश्रितत्त्वेन तत्प्रतीतेर्धर्मित्वेन प्रतियोगित्वेन च तत्प्रतीतिसापेक्षत्वेऽपि विशेष्यत्वदिना तत्प्रतीतिसापेक्षत्वाभावात् । न च घटात्पटस्य भेद इतिवत्पटाद्घटस्य भेद इत्यपि प्रतीतेर्विद्यमानत्वेन नान्यतरमात्राश्रितत्त्वनिश्चयस्तस्य सम्भवतीति वाच्यम् । अस्माभिर्भेदद्वयाङ्गीकारेण तन्निश्चयसम्भवादिति चेन्न । एकस्यैव भेदस्य द्विष्ठत्वपक्षे उभयोरपि धर्मित्वेन धर्मिप्रतियोगिसापेक्षभेदप्रतीतेर्वक्तुमशक्यत्वेन भेदद्वयाङ्गीकारेणान्यतरमात्राश्रितत्त्वपक्षेऽपि धर्मिप्रतियोगिभावमनपेक्ष्य सम्बन्धमात्रापेक्षायां च विशेष्यत्वेन विशेषणत्वेन च घटपटोभयप्रतीतिसापेक्षाया एव भेदप्रतीतितेर्वक्तव्यत्वेन तदुदाहरणस्य सङ्गतत्त्वात् । अत एव तत्त्वनिर्णयटीकायामेकस्यैव भेदस्य द्विष्ठत्वपक्षे गत्यन्तराभावादिति, भेदद्वयाङ्गीकारेणान्यतरमात्राश्रयत्वेऽपि धर्मिप्रतियोगिभावमनपेक्ष्य सम्बन्धमात्रापेक्षायां गत्यन्तराभावादिति चोक्तमिति ध्येयम् । न भेदो युगधर्मः किन्त्वेकस्यैव धर्मिप्रतियोगिभावापेक्षा चेत्यस्मिन्मतेऽपि भेदप्रत्यक्षमन्योन्याश्रयेण दूषयितुं भूमिकामारचयति यद्वेति ।
तत्रोभयत्रापीति । विशेषणविशेष्यभावेन भेदप्रतीतौ धर्मिप्रतियोगिभावेन तत्प्रतीतौ चेत्यर्थः । तत्कथमित्यतो विशेषणविशेष्यभावेन भेदप्रतीतौ तद्दिदर्शयिषुर्विशेषणतया तत्प्रतीतौ तावदन्योन्याश्रयत्वमुपपादयति विशेष्ययोरिति । घटपटाविति द्वित्वावच्छिन्नयोर्घटपटयोर्विशेष्यतया प्रतीतौ सत्यामित्यर्थः । अत एव तत्त्वनिर्णयटीकायां ‘घटपटाविति द्वित्वावच्छिन्नयोर्घटपटयोर्विशेष्यतया प्रतीतौ सत्यामि’त्युक्तमिति ध्येयम् । भेदज्ञानस्य विशेष्यभूतद्वित्वाच्छिन्नघटपटज्ञानापेक्षत्वे नियामकमाह तद्विशेषणतयेति । द्वित्वावच्छिन्नघटपटविशेषणतयेत्यर्थः । तद्विशेषणत्वज्ञानस्य विशेष्यज्ञानकार्यत्वात्कार्यस्य च कारणापेक्षत्वाद्युक्तं तद्विशेषणतया भेदज्ञानस्य द्वित्वावच्छिन्नविशेष्यभूतघटपटज्ञानापेक्षत्वम् । अत एव तत्त्वनिर्णयटीकायां ‘विशेषणादिप्रतीतेर्विशेष्यादिप्रतीतिकार्यत्वदि’त्युक्तम् । द्वित्वावच्छिन्नयोरिति विशेषणानुपादाने न भेदज्ञानस्य घटपटज्ञानकार्यत्वं सिध्यति । विशेष्यत्वेन विशेष्यप्रतीतित्त्वावच्छिन्नस्यापि घटपटान्यतरप्रतीतिमात्रस्य सत्वेऽपि भेदप्रतीतेरभावेन व्यभिचारात् । विशेषणोपादाने तु नायं दोषः । द्वित्वावच्छिन्नविशेष्यप्रतीतित्त्वस्यैव कारणतावच्छेदकत्वात् । उक्तस्थले घटपटान्यतरप्रतीतिमात्रस्य सत्वेऽपि कारणातावच्छेदकावच्छिन्नस्य कारणस्याभावेन तदप्रसङ्गादिति द्रष्टव्यम् ।
अत्र तद्विशेषणतयेत्यनेन तद्विशेषणताविषयकत्वमात्रमेव भेदज्ञानस्याभिमतं न तु तद्विशेषणत्वप्रकारकत्वमपि । तथा सति घटपटभेदो विशेषणमिति विशेषणत्वप्रकारकभेदज्ञानस्य विशेष्यभूतघटपट ज्ञानापेक्षत्वप्राप्तावपि घटपटौ भिन्नाविति भेदज्ञानस्यातत्प्रकारकत्वेनोक्तयुक्त्या विशेष्यज्ञानापेक्षत्वाप्राप्त्या तदुपजीव्यन्योन्याश्रयत्वानुत्थानापातात् । तद्विशेषणत्वविषयतामात्रविवक्षायां तु नायं दोषः । घटपटौ भिन्नाविति भेदज्ञानस्य तद्विशेषणत्वाप्रकारकत्वेऽपि तद्विशेषणत्वमात्रविषयकत्वेन विशेष्यभूतघटपटज्ञानापेक्षत्वप्राप्त्याऽन्योन्याश्रयप्रसङ्गसम्भवादित्यवधेयम् । तद्विशेषणतयेत्युक्तयुक्तेरप्रयोजकत्वं परिहरति न हीति । ननु न तावताऽप्यन्योन्याश्रयनिर्वाह इत्यतो विशेष्यज्ञानस्य विशेषणीभूतभेदज्ञानापेक्षतामाह विशेष्यज्ञानं चेति । द्वित्वावच्छिन्नघटपटरूपविशेष्यज्ञानं चेत्यर्थः । कुतस्तस्य तदपेक्षत्वमित्यतो दण्डज्ञानाभावे दण्डविशेष्यत्वेन देवदत्तज्ञानादर्शनेन तव्द्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वादित्याशयेनाह न हीति । द्वित्वविशिष्टार्थप्रतीतिर् भेदविशेष्यत्वेन द्वित्वविशिष्टार्थप्रतीतिरित्यर्थः । तत्त्वनिर्णयटीकायां द्वित्वावच्छिन्नघटपटरूपविशेष्यज्ञानस्य भेदज्ञानापेक्षत्वोपपादकतया भेदप्रतीत्यविनाभूतत्त्वाद्वित्वप्रतीतेरिति युक्त्यन्तरानुसरणं तु, विशेषणादिप्रतीतेर्विशेष्यादिप्रतीतिकार्यत्वादिति विशेषणत्वेन भेदज्ञानस्य विशेष्यतया घटपटरूपविशेष्यज्ञानापेक्षत्वोपपादकयुक्त्यैव द्वित्वावच्छिन्नघटपटरूपविशेष्यज्ञानस्य भेदज्ञानापेक्षत्वं न वक्तुं शक्यमिति नाभिप्रेत्य, किन्तु तस्य प्रकारस्य पूर्वोक्तरीत्या शिष्यैरेव ज्ञातुं शक्यत्वात्किं तदुपन्यासेनेत्यभिप्रेत्य, अनेनापि प्रकारेण भेदप्रतीत्यपेक्षायाःसम्यग्वक्तुं शक्यत्वादित्यभिप्रेत्यैवेति न तद्विरोध इति द्रष्टव्यम् । विशेषणतया भेदप्रतीतावुक्त मन्योन्याश्रयत्वं विशेष्यतया प्रतीतावप्यतिदिशति एवं विशेष्यतयेति । घटपटयोर्भेद इति घटपटयोरिति द्वित्वावच्छिन्नघटपटविशेष्यतया भेदप्रतीतिर्विशेषणीभूतद्वित्वावच्छिन्नघटपटज्ञानापेक्षा । विशेषणीभूतदण्डज्ञानाभावे तद्विशेष्यतया देवदत्तज्ञानादर्शनेन द्वित्त्वावच्छिन्नघटपटविशेष्यतया भेदप्रतीतेर्द्वित्वावच्छिन्नघटपटरूपविशेषणज्ञानकार्यत्वात् । द्वित्त्वावच्छिन्नघटपटरूपविशेषणप्रतीतिश्च भेदज्ञानापेक्षा देवदत्तादर्शने तद्विशेषणतया दण्डज्ञानादर्शनेन भेदविशेषणतया द्वित्वावच्छिन्नघटपटज्ञानस्य भेदज्ञानकार्यत्वाद्विशेष्यतया भेदप्रतीतावप्यन्योन्याश्रयत्वमित्यर्थः ।
एवं विशेषणविशेष्यभावेन भेदग्रहणेऽन्योन्याश्रयतामुपपाद्य धर्मिप्रतियोगिभावेन तद्ग्रहेऽपि तामुपपादयति तथेति ॥ तन्निरूप्यत्वादिति । भेदस्य ससम्बन्धिकपदार्थत्वेन सम्बन्धिभूतधर्मिप्रतियोगिज्ञानाधीनज्ञानत्वादित्यर्थः ॥ घटात्पटस्य भेद इति पटस्य भेदं प्रति धर्मित्वं घटस्य चावधित्वेन प्रतियोगित्वं प्रतीत्यैव भेदः प्रत्येतव्य इति धर्मित्वप्रतियोगित्वप्रतीत्यपेक्षप्रतीतिकत्वमेवात्राभिमतं तत्त्वनिर्णयटीकानुसारात् ‘न हि भेदाग्रहे धर्मिप्रतियोगिभावोऽवगन्तुं शक्यते’ इत्युत्तरग्रन्थानुसाराच्चेति द्रष्टव्यम् ॥ धर्मिप्रतियोगिनोर्ज्ञानमिति । धर्मित्वप्रतियोत्वयोर्ज्ञानमित्यर्थः । तदेवोपपादयति न हीति ॥ घटात्पटस्य भेद इति पटस्य भेदं प्रति धर्मित्वेन घटस्य प्रतियोगित्वेन प्रतिभासस्तयोर्भेदाग्रहे न सम्भवतीत्यर्थः । अस्तु भेदाग्रहेऽप्युक्तरीत्या धर्मित्वप्रतियोगित्वप्रतिभास इति वदन्तं प्रत्यनिष्टमाह तथात्व इति । अविशेषादिति भावः । अस्त्वेवं परस्परज्ञानापेक्षया अन्योन्याश्रयत्वमित्यतः, तथा सति भेदज्ञानानुपपत्तिः सिद्धा इत्याशयेनाह न चेति ॥ तदापत्तेरिति । प्रतीत्यनुपपत्त्यापत्तेरित्यर्थः ।
**परिमल **
भेदग्रहानुपपत्तिशङ्का प्रकृतानुपयुक्तेत्यत आह अयमर्थ इति । भेदो द्वित्वादिरिव व्यासज्यवृत्तिरिति मतेनादिपदेनोक्तं तावदाह घटपटौ भिन्नाविति । भेदेन युक्तावित्यर्थः । मूलोपात्तमाह घटपटयोरिति । युगधर्मो नेतिमतेनादिपदोक्तं मूलोपात्तं च क्रमेणाह यद्वा घटादिति ॥ विशेष्यज्ञानं च भेदापेक्षमिति । विशेष्यत्वेन ज्ञानं चान्योन्यं भेदाज्ञानापेक्षमित्यर्थः । धर्मिप्रतियोगितया च ज्ञाने सतीत्यर्थः ॥ तदापत्तेरिति प्रतीत्यनुपपत्त्यापत्तेरित्यर्थः । प्रागुक्तरीत्येति भावः ।
यादुपत्यम्
भेदस्य द्विष्ठत्वपक्षमाश्रित्याह भेदो हि प्रतीयमान इत्यादि ॥ विशेष्यतया वेति । व्यावर्त्यतया वेत्यर्थः । भेद एकस्य धर्मोऽपरनिरूप्य इति मतमाश्रित्याह यद्वा घटादिति ॥ विशेष्ययोर्घटपटयोरिति । अयं भावः । भेदो हि संयोगादिवदुभयधर्मः । स चोभयसंबन्धितयैवावभासते न पृथक् । अत एवोक्तं ‘प्राग्भेद इत्येव प्रतीतेरभावादिति’ । उभयसम्बन्धिता च कदाचित्तद्विशेषणता कदाचिद्विशेष्यता । एतदुभयरूपोभयसम्बन्धितया भेदज्ञानमुभयज्ञानाधीनम् । उभयज्ञाने भेदस्य तत्सम्बन्धित्वेन प्रत्येतुमशक्यत्वात् । उभयज्ञानं च भेदज्ञानापेक्षं द्वित्वविशिष्टार्थप्रतीतेर्भेदज्ञानजन्यत्वात् । अतोऽन्योन्याश्रयत्वमिति ॥ न हि देवदत्तेति । इदं च देवदत्तविशेषणं दण्ड इति यदा दण्डे देवदत्तविशेषणत्वं प्रकारतया भासते तदभिप्रायकमेवेति ज्ञातव्यम् । तेन दण्डी देवदत्त इति ज्ञाने दण्डो विशेषणतया भासते । न चात्र देवदत्तज्ञानं कारणमिति कश्चिदभ्युपैति । विशेष्यज्ञानस्य विशिष्टज्ञानाहेतुत्वात् । अतः कथमेतदिति शङ्कानवकाशः । दण्डीति ज्ञाने दण्डे विशेषणत्वस्य संसर्गमर्यादया भानेऽप्युक्तज्ञान इव प्रकारत्वेनाभानात् । न च भेदनिष्ठविशेषणतादेरपि संसर्गमर्यादयैव भाने कथं तत्र घटपटरूपविशेष्यज्ञानं कारणं स्यादिति वाच्यम् । ससम्बन्धिकपदार्थेषु विशेषत्वादिरूपसम्बन्धिसम्बन्धस्य प्रकारतयैव भानमित्याशयात् । विशेषणादिप्रतीतेर्विशेष्यादिप्रतीतिकार्यत्वादिति तत्त्वनिर्णयटीकायामप्यममेवाभिप्रायो वर्णनीयः ॥
भेदापेक्षमिति । भेदप्रतीत्यपेक्षमित्यर्थः । एतदेवोपपादयति न हि भेदाप्रतीताविति । ननु भेदस्य घटपटविशेषणतया प्रतीतिसमये घटपटयोस्तद्विशेष्यत्वमपि प्रतीयत एव । समानसंविद्वेद्यत्वात् । तथा च घटपटविशेषणतया भेदप्रतीतेर्घटपटप्रतीत्यभावेऽभाववद्भेदविशेष्यतया घटपटप्रतीतेरपि भेदप्रतीत्यभावेऽभाव इत्येव कस्माद्भेदप्रतीत्यपेक्षत्वमत्र नोपपादितमिति चेन्नैवं शङ्क्यम् । भेदे हि घटपटविशेषणत्वं यदा प्रकारतया भासते तदा घटपटयोर्विशेष्यत्वं संसर्गमर्यादयैव भासते, न प्रकारत्वेन येनोक्तरीत्या तत्र भेदप्रतीत्यपेक्षा स्यादतोऽत्र द्वित्वप्रतीतिद्वारैव भेदप्रतीत्यपेक्षत्वमुपपादितमिति ध्येयम् ॥ एवं विशेष्यतयेति । विशेष्यतारूपघटपटसम्बन्धित्वस्य प्रकारतया भेदप्रतीतावित्यर्थः । द्रष्टव्योऽन्योन्याश्रयत्वमिति शेषः । तद्-व्युत्पादनं प्रागेव कृतमत्रानुसन्धेयम् ॥ तदापत्तेरिति । प्रतीत्यनुपपत्त्यापत्तेरित्यर्थः ।
**श्रीनिवासतीर्थीया **
प्रत्यक्षोऽपि दृश्योऽपीत्यनेन दृश्यत्वरूपहेतूच्छित्तिरूपबाधकमुक्तं वेदितव्यम् । अप्रत्यक्षतायां प्रत्यक्षेण गृहीतुमशक्यतायाम् । एवमुत्तरत्र । सोऽपि अनेकभेदभिन्नः प्रपञ्चोऽपि । विशेष्यतया व्यावर्त्यतया । घटापटयोर्विशेष्यतयैवेति यावत् । एकस्य भेदस्य द्विष्ठत्वपक्षे प्रतीतिमुपपाद्यैकप्रतियोगिकोऽपरधर्मिक इति पक्षे तद्ग्रहणे प्रकारमुपपादयति यद्वेति । तदेवोपापदयति न हीति ॥ भेदा प्रतीताविति । द्वित्वप्रतीतिकार्यत्वाद्भेदप्रतीतेरित्यर्थः ॥ एवं विशेष्यतयेति । घटपटयोर्भेदो घटात्पटस्य भेद इत्यत्रेत्यर्थः ॥ तन्निरूप्यत्वदिति । तस्य भेदस्य धर्मिप्रतियोगिनिरूप्यत्वादित्यर्थः । कुतो न शक्यत इत्यत आह तथात्व इति । भेदाग्रहे यदि धर्मप्रतियोगिभावो ज्ञायत इत्यर्थः ।
**वाक्यार्थरत्नमाला **
तद्भावश्चेतीति । इति चेत्यर्थः । न चान्योन्याश्रयाद्भेदेति न स्यादिति वाच्यमिति च पाठः । मूलकोशे सत्वात् । अन्यथापाठो लेखकायत्तः । किंत्वेकस्यैवेति । धर्म इति वर्तते । धर्मिप्रतियोगीति । भेदप्रतीतेरिति शेषः । भेदप्रतीतेर्धर्मिप्रतियोगिभावापेक्षाचेति पाठस्तु स्वरस एव । विशेषणविशेष्यभावेन भेदो न प्रतीयते । किं तु धर्मिधर्मभावेन ततश्च विशेषणतया वा विशेष्यतया वा द्वित्वावच्छिन्नयोर्घटपटयोर्ज्ञानं नापेक्षितम् । अपि तु धर्मिप्रतियोगिभावेन तयोर्ज्ञानमपेक्षितम् इति भावः । पूर्वमताद्वैलक्षण्यं भेदस्य युगपद्धर्मत्वाभावेन तत्प्रतीतेर्धर्मिप्रतियोगिभावापेक्षया च भवतीति तयोः समुच्चायकोऽयं शब्दः । घटपटाविति द्वित्वावच्छिन्नयोरिति । द्वित्वावच्छिन्नयोर्घटपटयोर्घटपटाविति विशेष्यत्वेऽनया प्रतीतिस्तत्सापेक्षत्वमिति योजना । अत्र च द्वित्वावच्छिन्नत्वं द्वित्वपर्याप्त्यधिकरणत्वम् । तेन पर्याप्तेर्मिलितोभयमात्रनिष्टत्वेनैकस्मिन्नभावान्न द्वित्वस्योभयवृत्तित्वेनाऽन्यतरस्यापि तदवच्छिन्नतया तयोरन्यतरज्ञानमात्रेण भेदप्रत्ययापत्तिरित्येतच्छङ्कावकाशः । तथा च विशेष्यप्रतीतित्वं न कारणतावच्छेदकं किं तु द्वित्वावच्छिन्नविशेष्यप्रतीतित्वमेव । अन्यतरमात्रप्रतीतिकाले द्वित्वावच्छिन्नविशेष्ययोः प्रतीत्यभावेनोक्तप्रतीतित्वरूपकारणतावच्छेदकावच्छिन्नकारणस्याभावेन भेदप्रत्ययाभावेपि उक्तकारणतावच्छेदकावच्छिन्नकारणसद्भावे भेदप्रतीतिरविकलैवेति तस्यास्तत्सापेक्षत्वमिति भावः ।
इत्युक्तमितीति । यद्यपि घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवतीति मूलस्थोत्तरवाक्यानुसारेणाप्युपष्टंभकतया वाच्यस्तथापि स्पष्टत्वात्स शिष्यैरेवानुसन्धेयः । उपलक्षणया वा ज्ञातव्य इत्याशयेन विशेष्ययोरित्यत्रेव मुखतो द्वित्वावच्छिन्नयोरित्यस्य पूरणे उपष्टंभकं तथाविधमेव तत्वनिर्णयटीकास्थमुपष्टंभकतयोक्तमित्यदोषः । भेदज्ञानापेक्षतामाहेति । अनेन भेदापेक्षमिति मूलगतं भेदपदं तद्ज्ञापनपरमिति व्याख्यातं भवति । तद्-व्यतिरेकेति । अनेन विशेषणादिप्रतीतेर्विशेष्यादीत्युक्तयुक्तिरभिहितेति ज्ञातव्यम् । युक्तयन्तरानुसरणं त्विति । यद्यपि भेदप्रतीतिः कारणं द्वित्वप्रतीतिस्तु कार्येति कार्यकारणभावापन्नद्वित्वभेदप्रतीत्योरविनाभावोपन्यासेऽपि कार्यकारणभाव एव लब्ध इति विशेषणादिप्रतीतेरित्युक्तमेवोक्तं तत्वनिर्णयटीकायामिति न युक्तयन्तरत्वम् । तथापि प्रागुक्तरीत्यैव वक्तव्ये किमविनाभावाभिधानेन पूर्वोक्तरीत्यैव वक्तव्यत्वादित्यत्र तात्पर्यम् । अत एवैवमुक्तेर्न फलान्तरं कथ्यते सिद्धान्ते । किं तु सम्यग्वक्तुं शक्यत्वादिति । उपपादनाधिक्यमात्रमेवानयोः कार्यकारणभावाभावे तत्प्रतीत्योर्नाविनाभावो युज्यत इति तदुपपादकत्वादित्यवधेयम् । घटपटयोर्भेद इतीत्यस्य भेदप्रतीतिरित्यनेन सम्बन्धः । द्वित्वावच्छिन्नत्वमभिनयेन दर्शितं घटपटयोरितीत्यनेन विशेषणादिप्रतीतेर्विशेष्यादिप्रतीतिकार्यत्वादिति तत्वनिर्णयटीकोक्तं हेतुं व्यापारयति । विशेषणीभूतेत्यादिना । धर्मित्वप्रतियोगित्वप्रतीतीति । अनेन मूले धर्मिप्रतियोगिपदं धर्मित्वप्रतियोगित्वरूपभावप्रधानमित्युक्तं भवति । भेदज्ञानानुपपत्तिरिति । अनेन अन्योन्याश्रयस्य दूषणत्वोपपादनार्थं ज्ञप्तिप्रतिबन्धकत्वमुक्तं भवति । प्रकृते च भेदज्ञानं कारणं धर्मिप्रतियोगिज्ञानं च कार्यमिति भावः ।